भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 27

27.1

अथातश् चान्द्रायणम् ।

27.2

तस्योक्तो विधिः कृच्छ्रे ।

27.3

वपनं व्रतं चरेत् ।

27.4

श्वोभूतां पौर्णमासीम् उपवसेत् ।

27.5

आप्यायस्व (र्व् 1,91.17) सं ते पयांसि (र्व् 1,91.18) नवोनव (र्व् 10,85.19) इति चैताभिस् तर्पणम् आज्यहोमो हविषश् चानुमन्त्रणमुपस्थानं चन्द्रमसः ।

27.6

यद् देवा देवहेडनम् इति चतसृभिर्जुहुयात् ।

27.7

देवकृतस्येति चान्ते समिद्भिः ।

27.8

ओं भूर् भुवः स्वस् तपः सत्यं यशः श्रीर् ऊर्गिडौजस् तेजो वर्चः पुरुषो धर्मः शिव इत्य् एतैर् ग्रासानुमन्त्रणंप्रतिमन्त्रं मनसा ।

27.9

नमः स्वाहेति वा सर्वान् ।

27.10

ग्रासप्रमाणम् आस्याविकारेण ।

27.11

चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानिहवींस्युत्तरोत्तरं प्रशस्तानि ।

27.12

पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वाएकापचयेनापरपक्षम् अश्नीयात् ।

27.13

अमावास्यायाम् उपोष्यैकोपचयेनपूर्वपक्षम् ।

27.14

विपरीतम् एकेषाम् ।

27.15

एवं चान्द्रायणो मासः ।

27.16

एवम् आप्त्वा विपापो विपाप्मा सर्वम् एनो(एनस्)हन्ति ।

27.17

द्वितीयम् आप्त्वा दश पूर्वान् दश परान् आत्मानंचैकविंशं पङ्क्तिं च पुनाति ।

27.18

संवत्सरं चाप्त्वा चन्द्रमसः सलोकताम् आप्नोतिसलोकताम् आप्नोति ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc