भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 26

26.1

अथातः कृच्छ्रान् व्याख्यास्यामः ।

26.2

हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर्नाश्नीयात् ।

26.3

अथापरं त्र्य् अहं नक्तं भुञ्जीत ।

26.4

अथापरं त्र्य् अहं न कंचन याचेत ।

26.5

अथापरं त्र्य् अहम् उपवसेत् ।

26.6

तिष्ठेद्(स्था) अहनि रात्राव् आसीत क्षिप्रकामः ।

26.7

सत्यं वदेत् ।

26.8

अनार्यैर् न संभाषेत ।

26.9

रौरवयौधाजपे नित्यं प्रयुञ्जीत(प्रयुज्) ।

26.10

अनुसवनम् उदकोपस्पर्शनम् आपो हि ष्ठेतितिसृभिः पवित्रवतीभिर् मार्जयीत(मृज्) हिरण्यवर्णाः शुचयः(शुचि)पावका इत्य् अष्टाभिः ।

26.11

अथोदकतर्पणम् ।

26.12

नमो ऽहमाय मोहमाय मंहमाय धन्वते तापसायपुनर्वसवे नमः । नमो मौञ्ज्यायोर्व्याय वसुविन्दाय सार्वविन्दायनमः । नमः पाराय सुपाराय महापाराय वारयिष्णवे नमः । नमोरुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतयेहराय(हरि) शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः सूर्यायादित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय वृद्धायेन्द्रायहरिकेशायोर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णायकामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सोभ्याय सुपुरुषायमहापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः । नमश्चन्द्रललाटाय कृत्तिवाससे नमः ।

26.13

एतद् एवादित्योपस्थानम् ।

26.14

एता एवाज्याहुतयः ।

26.15

द्वादशरात्रस्यान्ते चरुं श्रपयित्वा(श्रा) एताभ्योदेवताभ्यो जुहुयात् ।

26.16

अग्नये(अग्नि) स्वाहा सोमाय स्वाहाग्निषोमाभ्यामिन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये ऽग्नयेस्विष्टकृत इति ।

26.17

ततो ब्राह्मणतर्पणम् ।

26.18

एतेनैवातिकृच्छ्रो व्याख्यातः ।

26.19

यावत् सकृद् आददीत(आदा) तावद् अश्नीयात् ।

26.20

अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः ।

26.21

प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति ।

26.22

द्वितीयं चरित्वा यत्किंचिद् अन्यन् महापातकेभ्यःपापं कुरुते तस्मात् प्रमुच्यते ।

26.23

तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते ।

26.24

अथैतांस् त्रीन् कृच्छ्रांश् चरित्वा सर्वेषु वेदेषुस्नातो भवति सर्वैर् देवैर् ज्ञातो भवति ।

26.25

यश् चैवं वेद ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc