धर्मसूत्र · अध्याय 28
ऊर्धवं पितुः(पितृ) पुत्रा रिक्थं भजेरन् ।
निवृत्ते रजसि मातुर्(मातृ) जीवतिचेच्छति ।
सर्वं वा पूर्वजस्येतरान् बिभृयात् पितृवत् ।
विभागे तु धर्मवृद्धिः ।
विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो रथोगोवृषः ।
काणखोरकूटवणेता मध्यमस्यानेकाश्चेत् ।
अविर् धान्यायसी गृहमनो युक्तं चतुष्पादंचैकैकं यवीयसः ।
समधा चेतरत्सर्वम् ।
द्व्यंशी वा पूर्वजस्य ।
एकैकम् इतरेषाम् ।
एकैकं वा धनरूपं काम्यं पूर्वः पूर्वोलभते ।
दशकं पशूनाम् ।
नैकशफद्विपदाम् ।
ऋषभो ऽधिको ज्येष्ठस्य ।
ऋषभषोडशा ज्यैष्ठिनेयस्य ।
समधा वाज्यैष्ठिनेयेन यवीयसाम् ।
प्रतिमातृ वा स्वस्ववर्गे भागविशेषः ।
पितोत्सृजेत् पुत्रिकां अनपत्यो ऽग्निंप्रजापतिं चेष्ट्वास्मदर्थम् अपत्यम् इति संवाद्य ।
अभिसंधिमात्रात् पुत्रिकेत्य् एकेषाम् ।
तत्संशयान् नोपयच्छेद् अभ्रातृकाम् ।
पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्रीवानपत्यस्य ।
बीजं वा लिप्सेत ।
देवरवत्याम् अन्यजातम् अभागम् ।
स्त्रीधनं दुहितृऋणाम् अप्रत्तानाम् अप्रतिष्ठिताणां च ।
भगिनीशुल्कः सोदर्याणाम् ऊर्ध्वं मातुः(मातृ) ।
पूर्वं चैके ।
असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य ।
संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् ।
विभक्तजः पित्र्यम् एव ।
स्वयम् अर्जितम् अवैद्येभ्यो वैद्यः कामं न दद्यात् ।
अवैद्याः समं विभजेरन् ।
पुत्राऔरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धा रिक्थभाजः ।
कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः ।
चतुर्थांशिन औरसाद्यभावे ।
ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् ।
ज्येष्ठांशहीनम् अन्यत् ।
राजन्यावैश्यापुत्रसमवाये यथा सब्राह्मणीपुत्रेण ।
क्षत्रियाच् चेत् ।
शूद्रापुत्रो ऽप्य् अनपत्यस्य शुश्रूषुश् चेल् लभतेवृत्तिमूलम् अन्तेवासिविधिना ।
सवर्णापुत्रो ऽप्य् अन्याय्यवृत्तो न लभेतैकेषाम् ।
श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् ।
राजेतरेषाम् ।
जडक्लीबौ भर्तव्यौ ।
अपत्यं जडस्य भागार्हम् ।
शूद्रापुत्रवत् प्रतिलोमासु ।
उदकयोगक्षेमकृतान्नेष्व् अविभागः ।
स्त्रीषु च संयुक्ताषु ।
अनाज्ञाते दशावरैः शिष्टैर् ऊहविद्भिर् अलुब्धैः प्रशस्तं कार्यम् ।
चत्वारश् चतुर्णां पारगा वेदानां प्राग् उत्तमात्त्रय आश्रमिणः पृथग् धर्मविदस् त्रय एतान् दशावरान् परिषद् इत्य् आचक्षते ।
असम्भवे त्व् एतेषां श्रोत्रियो वेदविच्छिष्टोविप्रतिपत्तौ यद् आह ।
यतो ऽयम् अप्रभवो भूतानां हिंसानुग्रहयोगेषु ।
धर्मिणां विशेषेण स्वर्गं लोकं धर्मविद् आप्नोतिज्ञानाभिनिवेशाभ्याम् ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0