भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 22

22.1

प्रायश्चित्तम् ।

22.2

अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य ।

22.3

लक्ष्यं वा स्यात् जन्ये शस्त्रभृताम् ।

22.4

खट्वाङ्गकपालपाणिर् वा द्वादश संवत्सरान्ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत् कर्माचक्षाणः ।

22.5

पथो ऽपक्रामेत् संदर्शनाद् आर्यस्य ।

22.6

स्थानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शीशुध्येत् ।

22.7

प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ।

22.8

द्रव्यापचये त्र्यवरं प्रतिराद्धः ।

22.9

अश्वमेधावभृथे वा ।

22.10

अन्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत् ।

22.11

सृष्टश् चेद् ब्राह्मणवधे ऽहत्वापि ।

22.12

आत्रेय्याश् चैवम् ।

22.13

गर्भे चाविज्ञाते ।

22.14

राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभैकसहस्राश् च गा दद्यात् ।

22.15

वैश्ये तु त्रैवार्षिकम् ऋषभैकशताश् च गादद्याद् ।

22.16

शूद्रे संवत्सरम् ऋषभैकादशाश् च गा दद्यात् ।

22.17

अनात्रेय्यां चैवम् ।

22.18

गां च वैश्यवत् ।

22.19

मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासुच ।

22.20

अस्थन्वताम् सहस्रं हत्वा ।

22.21

अनस्थिमताम् अनडुद्भारे(अनडुह्) च ।

22.22

अपि वास्थन्वताम् एकैकस्मिन् किंचिद् दद्यात् ।

22.23

षण्ढे पलालभारः सीसमाषश् च ।

22.24

वराहे घृतधटः ।

22.25

सर्पे लोहदण्डः ।

22.26

ब्रह्मबन्ध्वां चलनायां नीलः ।

22.27

वैशिकेन किंचित् ।

22.28

तल्पान्नधनलाभवधेषु पृथग्वर्षाणि ।

22.29

द्वे परदारे ।

22.30

त्रीणि श्रोत्रियस्य ।

22.31

द्रव्यलाभे चोत्सर्गः ।

22.32

यथास्थानं वा गमयेत् ।

22.33

प्रतिषिद्धमन्त्रयोगे सहस्रवाकश् चेत् ।

22.34

अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् ।

22.35

स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत ।

22.36

अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर् घृतहोमोघृतहोमः ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc