धर्मसूत्र · अध्याय 21
ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धागस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः ।
पातकसंयोजकाश् च ।
तैश् चाब्दं समाचरन् ।
द्विजातिकर्मभ्यो हानिः पतनम् ।
तथा परत्र चासिद्धिः ।
तम् एके नरकम् ।
त्रीणि प्रथमान्य् अनिर्देश्यान्य् अनु ।
न स्त्रीष्व् अगुरुतल्पं पततीत्य् एके ।
भ्रूणहनि हीनवर्णसेवायां च स्त्रीपतति ।
कौटसाक्ष्यं राजगामि पैशुनम् गुरोरनृताभिशंसनं महापातकसमानि ।
अपङ्क्त्यानां प्राग्दुर्बालाद्गोहन्तृब्रह्मघ्नतन्मात्रकृदवकीर्णिपतितसावित्रीकेषूपपातकम् ।
अज्ञानाद् अन्ध्यापनाद् ऋत्विगाचार्यौपतनीयसेवायां च हेयौ ।
अन्यत्र हानात् पतति ।
तस्य च प्रतिग्रहीतेत्य् एके ।
न कर्हिचिन् मातापित्रोर्(मातृपितृ) अवृत्तिः ।
दायं तु न भजेरन् ।
ब्राह्मनाभिशंसने दोषस् तावान् ।
द्विर् अनेनसि ।
दुर्बलहिंसायां च विमोचने शक्तश् चेत् ।
अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यम् ।
निघाते सहस्रम् ।
लोहितदर्शने यावतस् तत्प्रस्कन्द्य पांसून्संगृह्णीयात् ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0