धर्मसूत्र · अध्याय 20
त्यजेत् पितरं(पितृ) राजघातकं शूद्रयाजकंशूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं यश् चान्त्यावसायिभिःसह संवसेद् अन्त्यावसायिन्यां च ।
तस्य विद्यागुरून् योनिसंबन्धांश् च संनिपात्यसर्वाण्य् उदकादीनि प्रेतकार्याणि कुर्युः ।
पात्रं चास्य विपर्यस्येयुः ।
दासः कर्मकरो वावकराद् अमेध्यपात्रम् आनीयदासीघटात् पूरयित्वा दक्षिणामुखो यदा विपर्यस्येद् अमुकम् अनुदकंकरोमि इति नामग्राहम् ।
तं सर्वे ऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखाः ।
विद्यागुरवो(गुरु) योनिसंबन्धाश् च वीक्षेरन् ।
अप उपस्पृश्य ग्रामं प्रविशन्ति ।
अत उत्तरं तेन संभाष्य तिष्ठेद् एकरात्रं जपन्सावित्रीम् अज्ञानपूर्वम् ।
ज्ञानपूर्वं च त्रिरात्रम् ।
यस् तु प्रायश्चित्तेन शुध्येत् तस्मिञ् शुद्धेशातकुम्भमयं पात्रं पुण्यतमाद् ध्रदात् पूरयित्वा स्रवन्तीभ्योवा तत एनम् अप उपस्पर्शयेयुः ।
अथास्मै तत्पात्रम् दद्युस् ततप्रतिगृह्य जपेच्शान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं यो रोचनस्ताभमम् गृह्णामिइति ।
एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिःकूष्माण्डैश् चाज्यं जुहुयाद् ।
हिरण्यं ब्राह्मणायदद्यात् ।
गां वा ।
आचार्याय च ।
यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतःशुध्येत् ।
सर्वाण्य् एव तस्मिन्न् उदकादीनि प्रेतकर्माणि कुर्युः ।
एतद् एव शान्त्युदकं सर्वेषूपपातकेषुसर्वेषूपपातकेषु ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0