भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 1

1.1

वेदो धर्ममूलम् ।

1.2

तद्विदां च स्मृतिशीले ।

1.3

दृष्टो धर्मव्यतिक्रमः साहसं च महतां ।

1.3

अवरदौर्बल्यात् ।

1.4

तुल्यबलविरोधे विकल्पः ।

1.5

उपनयनं ब्राह्मणस्याष्टमे ।

1.6

नवमे पञ्चमे वा काम्यम् ।

1.7

गर्भादिः सङ्ख्या वर्षाणाम् ।

1.8

तद्द्वितीयं जन्म ।

1.9

तद् यस्मात् स आचार्यः ।

1.10

वेदानुवचनाच् च ।

1.11

एकादशद्वादशयोः क्षत्रियवैश्ययोः ।

1.12

आ षोडशाद् ब्राह्मणस्यापतिता सावित्री ।

1.13

द्वाविंशते राजन्यस्य ।

1.14

द्व्यधिकायावैश्यस्य ।

1.15

मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण ।

1.16

कृष्णरुरुबस्ताजिनानि ।

1.17

वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् ।

1.18

कार्पासं चाविकृतम् ।

1.19

काषायम् अप्य् एके ।

1.20

वार्क्षं ब्राह्मणस्य ।

1.21

माञ्जिष्ठहारिद्रे इतरयोः ।

1.22

बैल्वपालाशौ ब्राह्मणदण्डौ ।

1.23

आश्वत्थपैलवौ शेषे ।

1.24

यज्ञियो वा सर्वेषाम् ।

1.25

अपीडिता यूपवक्राः सशल्काः ।

1.26

मूर्धललाटनासाग्रप्रमाणाः ।

1.27

मुण्डजटिलशिखाजटाश् च ।

1.28

द्रव्यहस्त उच्छिष्टो अनिधायाचामेत् ।

1.29

द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानितैजसमार्क्तिकदारवतान्तवानाम् ।

1.30

तैजसवदुपलमणिशङ्खमुक्तानाम् ।

1.31

दारुवदस्थिभूम्योः ।

1.32

आवपनं च भूमेः ।

1.33

चेलवद् रज्जुविदलचर्मणाम् ।

1.34

उत्सर्गो वात्यन्तोपहतानाम् ।

1.35

प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत ।

1.36

शुचौ देशे आसीनो दक्षिणं बाहुं जान्वन्तराकृत्वा यज्ञोपवीत्या मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतोहृदयस्पृशस् त्रिश् चतुर् वाप आचामेद् ।

1.36

द्विः परिमृज्यते ।

1.36

पादौ चाभ्युक्षेत् ।

1.36

खानि चोपस्पृशेच् शीर्षण्यानि ।

1.36

मूर्धनि च दद्यात् ।

1.37

सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ।

1.38

दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् ।

1.39

प्राक्च्युतेर् इत्य् एके ।

1.40

च्युतेशु आस्राववद् विद्यान् निगिरन्न् एव तच् शुचिः ।

1.41

न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति न चेद् अङ्गेनिपतन्ति ।

1.42

लेपगन्धापकर्षणे शौचम् अमेध्यस्य ।

1.43

तद् अद्भिः पूर्वं मृदा च ।

1.44

मूत्रपुरीषस्नेहविस्रंसनाभ्यवहारसंयोगेषु च ।

1.45

यत्र चाम्नायो विदध्यात् ।

1.46

पाणिना सव्यम् उपसङ्गृह्य अनङ्गुष्ठम् अधीहि भो इत्य् आमन्त्रयेद् गुरुं ।

1.47

तत्रचक्षुर्मनःप्राणोपस्पर्शनं दर्भैः ।

1.48

प्राणोपस्पर्शनं दर्भैः ।

1.49

प्राणायामास् त्रयः पञ्चदशमात्राः ।

1.50

प्राक्कूलेषु आसनं च ।

1.51

ओं पूर्वा व्याहृतयः पञ्च सत्यान्ताः ।

1.52

गुरोः पादोपसंग्रहणं प्रातः ।

1.53

ब्रह्मानुवचने चाद्यन्तयोः ।

1.54

अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखोवा ।

1.55

सावित्री चानुवचनम् ।

1.56

आदितो ब्रह्मण आदाने ।

1.57

ओंकारो अन्यत्रापि ।

1.58

अन्तर गमने पुनर् उपसदनम् ।

1.59

श्वनकुलसर्पमण्डूकमार्जाराणां त्र्य् अहम् उपवासोविप्रवासश् च ।

1.60

प्राणायामा घृतप्राशनं चेतरेषाम् ।

1.61

श्मशानाभ्यध्ययने चैवम् ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc