धर्मसूत्र · अध्याय 19
उक्तो वर्णधर्मश् चाश्रमधर्मश् च ।
अथ खल्व् अयं पुरुषो याप्येन कर्मणा लिप्यते यथैतद् अयाज्ययाजनम् अभक्ष्यभक्षणम् अवद्यवदनंशिष्टस्याक्रिया प्रतिषिद्धसेवनम् इति ।
तत्र प्रायश्चित्तं कुर्यात् न कुर्याद् इति मीमांसन्ते ।
न कुर्याद् इत्य् आहुः ।
न हि कर्म क्षीयत इति ।
कुर्याद् इत्य् अपरम् ।
पुनःस्तोमेनेष्ट्वा पुनः सवनम् आयान्तीति विज्ञायते ।
व्रात्यस्तोमैश् चेष्ट्वा ।
तरति सर्वं पाप्मानं तरति ब्रह्महत्यांयो,अश्वमेधेन यजते ।
अग्निष्टुताभिशस्यमानं याजयेद् इति च ।
तस्य निष्क्रयणानि जपस् तपो होम उपवासो दानम् ।
उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघमर्षणम् अथर्वशिरो रुद्राः पुरुषसूक्तं राजतरौहिने सामनीबृहद्रथन्तरे पुरुषगतिर् महानाम्न्यो महावैराजं महादिवाकीर्त्यंज्येष्ठसाम्नाम् अन्यतमद् बहिष्पवमानं कूष्माण्डानि पावमान्यःसावित्री चेति पावमानानि ।
पयोव्रतता शाकभक्षता फलभक्षताप्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानम् इतिमेध्यानि ।
सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्य् ऋषिनिवासा गोष्ठपरिस्कन्धा इति देशाः ।
ब्रह्मचर्यं सत्यवचनं सवनेषूदकोपस्पर्शनमार्द्रवस्त्रताधःशायितानाशक इति तपांसि(तपस्) ।
हिरण्यं गौर् वासो ऽश्वो भूमिस् तिला घृतम् अन्नम् इतिदेयानीति ।
संवत्सरः षण्मासाश् चत्वारस् त्रयो वा द्वौवैकश् चतुर्विंशत्यहो द्वादशाहः षडहस् त्र्यहो ऽहोरात्र इतिकालाः ।
एतान्य् एवानादेशे विकल्पेन क्रियेरन् ।
एनःसु(एनस्) गुरुषु गुरूणि लघुषु लघूनि ।
कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तं ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0