धर्मसूत्र · अध्याय 18
अस्वतन्त्रा धर्मे स्त्री ।
नातिचरेद् भर्तारम्(भर्तृ) ।
वाक्चक्षुःकर्मसंयता ।
अपतिर् अपत्यलिप्सुर् देवरात् ।
गुरुप्रसूता नर्तुम्(ऋतु) अतीयात् ।
पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद् वा ।
नादेवराद् इत्य् एके ।
नातिद्वितीयम् ।
जनयितुर् अपत्यम् ।
समयाद् अन्यस्य ।
जीवतश् च क्षेत्रे ।
परस्मात् तस्य ।
द्वयोर् वा ।
रक्षणात् तु भर्तुर्(भर्तृ) एव ।
श्रूयमाणे ऽभिगमनम् ।
प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ।
द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे ।
भ्रातरि(भ्रातृ) चैवम् ज्यायसि यवीयान्कन्याग्न्युपयमेषु ।
षड् इत्य् एके ।
त्रीन् कुमार्य् ऋतून् अतीत्य स्वयंयुज्येतानिन्दितेनोत्सृज्य पित्र्यान् अलंकारान् ।
प्रदानं प्राग् ऋतोः(ऋतु) ।
अप्रयच्छन् दोषी ।
प्राग् वाससः प्रतिपत्तेर् इत्य् एके ।
द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगेच शूद्रात् ।
अन्यत्रापि शूद्राद् बहुपशोर् हीनकर्मणः ।
शतगोर् अनाहिताग्नेः ।
सहस्रगोश् चासोमपात् ।
सप्तमीं चाभुक्त्वाअनिचयाय ।
अप्य् अहीनकर्मभ्यः ।
आचक्षीत राज्ञा पृष्टः ।
तेन हि भर्तव्यः श्रुतशीलसंपन्नश् चेत् ।
धर्मतन्त्रपीडायाम् तस्याकरणे दोषो ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0