धर्मसूत्र · अध्याय 17
प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत ।
प्रतिगृह्णीयाच् च ।
एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयानपयोदधिधानाशफरीप्रियङ्गुस्रग्मार्गशाकान्य् अप्रणोद्यानि सर्वेषाम् ।
पितृदेवगुरुभृत्यभरणे ऽप्य् अन्यत् ।
वृत्तिश् चेन् नान्तरेण शूद्रात् ।
पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारकाःभोज्यान्नाः ।
वणिक् चाशिल्पी ।
नित्यम् अभोज्यम् ।
केशकीटावपन्नम् ।
रजस्वलाकृष्णशकुनिपदोपहतम् ।
भ्रूणघ्नावेक्षितम् ।
भावदुष्टम् ।
गवोपघ्रातम् ।
शुक्तं केवलम् अदधि ।
पुनः सिद्धम् ।
पर्युषितम् अशाकभक्षस्नेहमांसमधूनि ।
उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्षकदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्युच्छिष्टभोजिगणविद्विषाणानाम् ।
अपङ्क्त्यानां प्राग्दुर्वालात् ।
वृथान्नाचमनोत्थानव्यपेतानि ।
समासमाभ्यां विषमसमे पूजातः ।
अनर्चितं च ।
गोश् च क्षीरम् अनिर्दशायाः सूतके ।
अजामहिष्योश् च ।
नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च ।
स्यन्दिनीयमसूसंधिनीनां च ।
विवत्सायाश् च ।
पञ्चनखाश् चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः ।
उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः ।
काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डाग्राम्यकुक्कुटसूकराः ।
धेन्वनडुहौ च ।
अपन्नदन्नवसन्नवृथामांसानि ।
किसलयक्याकुलशुननिर्यासाः ।
लोहिता व्रश्चनाः ।
निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धालनक्तचराअभक्ष्याः ।
भक्ष्याः प्रतुदविष्किरजालपादाः ।
मत्स्याश् चाविकृताः ।
वध्याश् च धर्मार्थे ।
व्यालहतादृष्टदोषवाक्प्रशस्तानभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0