भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 16

16.1

श्रावणादि वार्षिकं प्रोष्ठपदींवोपाकृत्याधीयीत च्छन्दांसि ।

16.2

अर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा ।

16.3

ब्रह्मचार्य् उत्सृष्टलोमा न मांसं भुञ्जीत ।

16.4

द्वैमास्यो वा नियमः ।

16.5

नाधीयीत वायौ दिवा पांसुहरे ।

16.6

कर्णश्राविणि नक्तम् ।

16.7

वाणभेरीमृदङ्गगर्तार्तशब्देषु ।

16.8

श्वशृगालगर्दभसंह्रादे ।

16.9

रोहितेन्द्रधनुर्नीहारेषु ।

16.10

अभ्रदर्शने चापर्तौ(ऋतु) ।

16.11

मूत्रित उच्चारिते ।

16.12

निशायां संध्योदकेषु ।

16.13

वर्षति च ।

16.14

एके वलीकसंतानाम् ।

16.15

आचार्यपरिवेषणे ।

16.16

ज्योतिषोश् च ।

16.17

भीतो यानस्थः शयानः प्रौढपादः ।

16.18

श्मशानग्रामान्तमहापथाशौचेषु ।

16.19

पूतिगन्धान्तःशवदिवाकीर्त्य(चाण्डाल)शूद्रसंनिधाने ।

16.20

भुक्तके चोद्गारे ।

16.21

ऋग्यजुषं च सामशब्दो यावत् ।

16.22

आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः ।

16.23

स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु ।

16.24

अहर् ऋतौ(ऋतु) ।

16.25

विद्युति नक्तं चापररात्रात् ।

16.26

त्रिभागादिप्रवृत्तौ सर्वम् ।

16.27

उल्का विद्युत्समेत्य् एकेषाम् ।

16.28

स्तनयित्नुर् अपराह्णे ।

16.29

अपि प्रदोषे ।

16.30

सर्वं नक्तम् आर्धरात्रात् ।

16.31

अहश् चेत् सज्योतिः ।

16.32

विषयस्थे च राज्ञि(राजन्) प्रेते ।

16.33

विप्रोष्य चान्योन्येन सह ।

16.34

संकुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रम् ।

16.35

अमावास्यायां च ।

16.36

द्व्यहं वा ।

16.37

कार्तिकी फाल्गुनीय्षाढी पौर्णमासी ।

16.38

तिस्रो ऽष्टकास् त्रिरात्रम् ।

16.39

अन्त्याम् एके ।

16.40

अभितो वार्षिकम् ।

16.41

सर्वे वर्षाविद्युत्स्तनयित्नुसंनिपाते ।

16.42

प्रस्यन्दिनि ।

16.43

ऊर्ध्वं भोजनाद् उत्सवे ।

16.44

प्राधीतस्य च निशायां चतुर्मुहूर्तम् ।

16.45

नित्यम् एके नगरे ।

16.46

मानसम् अप्य् अशुचिः ।

16.47

श्राद्धिनाम्(श्राद्ध) आकालिकम् ।

16.48

अकृतान्नश्राद्धिकसंयोगे ऽपि ।

16.49

प्रतिविद्यं च यान् स्मरन्ति ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc