धर्मसूत्र · अध्याय 15
अथ श्राद्धम् ।
अमावास्यायां पितृभ्यो दद्यात् ।
पञ्चमीप्रभृतिषु वापरपक्षस्य ।
यथाश्रद्धं सर्वस्मिन् वा ।
द्रव्यदेशब्राह्मणसंनिधाने वा कालनियमः ।
शक्तितः प्रकर्षेद् गुणसंस्कारविधिर् अन्नस्य ।
नवावरान् भोजयेद् अयुजः ।
यथोत्साहं वा ।
श्रोत्रियान् वाग्रूपवयःशीलसंपन्नान् ।
युवभ्यो दानं प्रथमम् ।
एके पितृवत् ।
न च तेन मित्रकर्म कुर्यात् ।
पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युः ।
तदभाव ऋत्विगाचार्यौ ।
तिलमाषव्रीहियवोदकदानैर् मासं पितरःप्रीणन्ति । मत्स्यहरिणरुरुशशकूर्मवराहमेषमांसैःसंवत्सराणि।गव्यपयःपायसैर् द्वादश वर्षाणि।वार्ध्रीणसेनमांसेन कालशाकच्छागलोहखड्गमांसैर् मधुमिश्रैश् चानन्त्यम् ।
न भोजयेत् स्तेनक्लीबपतितनास्तिकतद्वृत्तिवीरहाग्रेदिधिषुपतिस्त्रीग्रामयाजकाजापालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षिप्रातिहारिकान् ।
उपपतिः ।
यस्य च सः ।
कुण्डाशिसोमविक्रय्यगारदाहिगरदावकीर्णिगणप्रेष्यागम्यागामिहिंस्रपरिवित्तिपरिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्बालकुनखिश्यावदन्तश्वित्रिपौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रापतिनिराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान् ।
पित्रा(पितृ) वाकामेन विभक्तान् ।
शिष्यांश् चैके सगोत्रांश् च ।
भोजयेद् ऊर्ध्वं त्रिभ्यः ।
गुणवन्तम् ।
सद्यः श्राद्धी शूद्रातल्पगस् तत्पुरीषे मासंनयति पितृऋन् ।
तस्मात् तदहम् ब्रह्मचारी च स्यात् ।
श्वचाण्डालपतितावेक्षणे दुष्टम् ।
तस्मात् परिश्रिते दद्यात् ।
तिलैर् वा विकिरेत् ।
पङ्क्तिपावनो वा शमयेत् ।
पङ्क्तिपावनः षडङ्गविज् ज्येष्ठसामिकस् त्रिणाचिकेतस्त्रिमधुस् त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद् धर्मज्ञोब्रह्मदेयानुसंतान इति ।
हविःषु चैवम् ।
दुर्बालादीन् श्राद्ध एकैके ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0