धर्मसूत्र · अध्याय 14
शावम् आशौचं दशरात्रम् अनृत्विग्(ऋत्विज्)दीक्षितब्रह्मचारिणां सपिण्डानाम् ।
एकादशरात्रं क्षत्रियस्य ।
द्वादशरात्रं वैश्यस्य ।
अर्धमासम् एके ।
मासम् शूद्रस्य ।
तच् चेद् अन्तः पुनर् आपतेच् छेषेण शुध्येरन् ।
रात्रिशेषे द्वाभ्याम् ।
प्रभाते तिसृभिः ।
गोब्राह्मणहतानाम् अन्वक्षम् ।
राजक्रोधाच् च ।
युद्धे ।
प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम् ।
पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ।
जनने ऽप्य् एवम् ।
मातापित्रोस्(पितृ) तत् ।
मातुर् वा ।
गर्भमाससमारात्रीः स्रंसने गर्भस्य ।
त्र्यहं वा ।
श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ।
असपिण्डे योनिसंबन्धे सहाध्यायिनि च ।
सब्रह्मचारिण्य् एकाहम् ।
श्रोत्रिये चोपसंपन्ने ।
प्रेतोपस्पर्शने दशरात्रम् आशौचम् अभिसंधाय चेत् ।
उक्तं वैश्यशूद्रयोः ।
आर्तवीर् वा ।
पूर्वयोश् च ।
त्र्यहं वा ।
आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ।
अवरश् चेद् वर्णः पूर्ववर्णम् उपस्पृशेत् पूर्वोवावरं तत्र शवोक्तम् आशौचम् ।
पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शनेसचैलोदकोपस्पर्शनाच् छुध्येत् ।
शवानुगमने च ।
शुनश् च ।
यद् उपहन्याद् इत्य् एके ।
उदकदानं सपिण्डैः कृतचूडस्य ।
तत्स्त्रीणां च ।
एके प्रत्तानाम् ।
अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ।
न मार्जयीरन् ।
न मांसं भक्षयेयुर् आ प्रदानात् ।
प्रथमतृतीयसप्तमनवमेषूदकक्रिया ।
वाससां च त्यागः ।
अन्ते त्व् अन्त्यानाम् ।
दन्तजन्मादि मातापितृभ्याम् ।
बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शौचम् ।
राज्ञां च कार्यविरोधात् ।
ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थम्स्वाध्यायनिवृत्त्यर्थम् ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0