भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 13

13.1

विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ।

13.2

बहवः स्युर् अनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञांनिष्प्रीत्यनभितापाश् चान्यतरस्मिन् ।

13.3

अपि शूद्राः ।

13.4

ब्राह्मणस् त्व् अब्राह्मणवचनाद् अनवरोध्यो ऽनिबद्धश्चेत् ।

13.5

नासमवेतापृष्टाः प्रब्रूयुः ।

13.6

अवचने ऽन्यथावचने च दोषिणः(दोष-) स्युः ।

13.7

स्वर्गः सत्यवचने विपर्यये नरकः ।

13.8

अनिबद्धैर् अपि वक्तव्यम् ।

13.9

न पीडाकृते निबन्धः ।

13.10

प्रमत्तोक्ते च ।

13.11

साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् ।

13.12

शपथेनैके सत्यकर्म ।

13.13

तद्देवराजब्राह्मणसंसदि स्याद् अब्राह्मणानाम् ।

13.14

क्षुद्रपश्वनृते साक्षी दश हन्ति ।

13.15

गोश्वपुरुषभूमिषु दशगुणोत्तरान् ।

13.16

सर्वं वा भूमौ ।

13.17

हरणे नरकः ।

13.18

भूमिवद् अप्सु ।

13.19

मैथुनसंयोगे च ।

13.20

पशुवन् मधुसर्पिषोः ।

13.21

गोवद् वस्त्रहिरण्यधान्यब्रह्मसु ।

13.22

यानेषु अश्ववत् ।

13.23

मिथ्यावचने याप्यो दण्ड्यश् च साक्षी ।

13.24

नानृतवचने दोषो जीवनं चेत् तदधीनम् ।

13.25

न तु पापीयसो जीवनम् ।

13.26

राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् ।

13.27

प्राड्विवाकम् अध्याभवेत् ।

13.28

संवत्सरं प्रतीक्षेताप्रतिभायाम् ।

13.29

धेन्वनडुत्स्त्रीप्रजननसंयुंक्ते चशीघ्रम् ।

13.30

आत्ययिके च ।

13.31

सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनंसत्यवचनम् ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc