भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 12

12.1

शूद्रो द्विजातीन् अभिसंधायाभिहत्य चवाग्दण्डपारुष्याभ्याम् अङ्गमोच्यो येनोपहन्यात् ।

12.2

आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं च ।

12.3

गोप्ता चेद् वधो ऽधिकः ।

12.4

अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यांश्रोत्रप्रतिपूरणम् ।

12.5

उदाहरणे जिह्वाच्छेदो ।

12.6

धारणेशरीरभेदः ।

12.7

आसनशयनवाक्पथिषु समप्रेप्सुर् दण्ड्यः ।

12.8

शतं क्षत्रियो ब्राह्मणाक्रोशे ।

12.9

दण्डपारुष्ये द्विगुणम् ।

12.10

अध्यर्धं वैश्यः ।

12.11

ब्राह्मणस् तु क्षत्रिये पञ्चाशत् ।

12.12

तदर्धं वैश्ये ।

12.13

न शूद्रे किंचित् ।

12.14

ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ ।

12.15

अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ।

12.16

द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ।

12.17

विदुषो ऽतिक्रमे दण्डभूयस्त्वम् ।

12.18

फलहरितधान्यशाकादाने पञ्चकृष्णलम् अल्पम् ।

12.19

पशुपीडिते स्वामिदोषः ।

12.20

पालसंयुक्ते तु तस्मिन् ।

12.21

पथि क्षेत्रे ऽनावृते पालक्षेत्रिकयोः ।

12.22

पञ्च माषा गवि ।

12.23

षड् उष्ट्रखरे ।

12.24

अश्वमहिष्योर् दश ।

12.25

अजाविषु द्वौ द्वौ ।

12.26

सर्वविनाशे शदः ।

12.27

शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यंचैलपिण्डाद् ऊर्ध्वं स्वहरणम् ।

12.28

गोऽग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां चपुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम् ।

12.29

कुसीदवृद्धिर् धर्म्या विंशतिः पञ्चमाषिकी मासम् ।

12.30

नातिसांवत्सरीम् एके ।

12.31

चिरस्थाने द्वैगुण्यं प्रयोगस्य ।

12.32

भुक्ताधिर् न वर्धते ।

12.33

दित्सतो ऽवरुद्धस्य च ।

12.34

चक्रकालवृद्धिः ।

12.35

कारिताकायिकाशिखाधिभोगाश् च ।

12.36

कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् ।

12.37

अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौभोक्तुः ।

12.38

न श्रोत्रियप्रव्रजितराजपुर्षैः ।

12.39

पशुभूमिस्त्रीणाम् अनतिभोगः ।

12.40

रिक्थभाज ऋणं प्रतिकुर्युः ।

12.41

प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः ।

12.42

निध्यन्वाधियाचितावक्रीताधयो नष्टाह् सर्वाननिन्दितान् पुरुषापराधेन ।

12.43

स्तेनः प्रकीर्णकेषो मुसली राजानम् इयात्कर्माचक्षानः ।

12.44

पूतो वधमोक्षाभ्याम् ।

12.45

अघ्नन्न् एनस्वी राजा ।

12.46

न शारीरो ब्राह्मणदण्डः ।

12.47

कर्मवियोगविख्यापनविवासनाङ्ककरणानि ।

12.48

अप्रवृत्तौ प्रायश्चित्ती सः ।

12.49

चोरसमः सचिवो मतिपूर्वे ।

12.50

प्रतिग्रहीताप्य् अधर्मसंयुक्ते ।

12.51

पुरुषशक्त्यपराधानुबन्धविज्ञानाद् दण्डनियोगः ।

12.52

अनुज्ञानं वा वेदवित्समवायवचनाद्वेदवित्समवायवचनात् ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc