भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 11

11.1

राजा सर्वस्येष्टे ब्राह्मनवर्जम् ।

11.2

साधुकारी साधुवादी ।

11.3

त्रय्याम् आन्वीक्षिक्या वाभिविनीतः ।

11.4

शुचिर् जितेन्द्रियो गुणवत्सहायोपायसंपन्नः ।

11.5

समः प्रजासु स्यात् ।

11.6

हितम् आसां कुर्वीत ।

11.7

तम् उपर्यासीनम् अधस्ताद् उपासीरन्न् अन्येब्राह्मणेभ्यः ।

11.8

ते ऽप्य् एनं मन्येरन् ।

11.9

वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेत् ।

11.10

चलतश् चैतान् स्वधर्मे स्थापयेत् ।

11.11

धर्मस्य ह्य् अंशभाग् भवतीति ।

11.12

ब्राह्मनं च पुरोदधीतविद्याभिजनवाग्रूपवयःशीलसंपन्नं न्यायवृत्तं तपस्विनम् ।

11.13

तत्प्रसूतः कर्माणि कुर्वीत ।

11.14

ब्रह्मप्रसूतं हि क्षत्त्रम् ऋध्यते न व्यथत इति चविज्ञायते ।

11.15

यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्याद्रियेत ।

11.16

तदधीनम् अपि ह्य् एके योगक्षेमं प्रतिजानते ।

11.17

शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषणसंवननाभिचारद्विषद्व्यृद्धियुक्तानि चशालाग्नौ कुर्यात् ।

11.18

यथोक्तम् ऋत्विजो ऽन्यानि ।

11.19

तस्य च व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गान्युपवेदाः पुराणम् ।

11.20

देशजातिकुलधर्माश् चाम्नायैर् अविरुद्धाः प्रमाणम् ।

11.21

कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे ।

11.22

तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्यधर्मव्यवस्था ।

11.23

न्यायाधिगमे तर्को ऽभ्युपायः ।

11.24

तेनाभ्यूह्य यथास्थानं गमयेत् ।

11.25

विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्यनिष्ठां गमयेत् ।

11.26

तथा ह्य् अस्य निःश्रेयसं भवति ।

11.27

ब्रह्म क्षत्त्रेण संपृक्तं देवपितृमनुष्यान्धारयतीति विज्ञायते ।

11.28

दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत् ।

11.29a

वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेन विशिष्टदेशजातिकुलरूपायुःश्रुतचित्रवित्तसुखमेधसो ।

11.29b

जन्म प्रतिपद्यन्ते ।

11.30

विष्वञ्चो विपरीता नश्यन्ति ।

11.31

तान् आचार्योपदेशो दण्डश् च पालयते ।

11.32

तस्माद् राजाचार्याव् अनिन्द्याव् अनिन्द्यौ ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc