Dharmasamuccaya · अध्याय 27
॥ इति ध्यानवर्गः षड्विंशः ॥
(27) प्रज्ञावर्गः
प्रज्ञा मातेव हितकारिणी
धर्मानुसारिणी प्रज्ञा वीर्येण परिवृंहिता ।
समाधिबलसंयुक्ता मातेव हितकारिणी
प्रज्ञा गतिपञ्चकात् त्रायते
सा हि सन्त्रायते सर्वान् पुरुषान् गतिपञ्चकात् ।
न माता न पिता तत्र गच्छन्तमनुगच्छति
प्रज्ञाशिखरमारुह्य शीलकन्दरशोभनम् ।
भवदोषमिदं सर्व पश्यति (ज्ञान) भूषणः
समाधिना भवार्णवं तरति
इन्द्रियाणीन्द्रियार्थेभ्यो यदा विन्दन्ति तत्पदम् ।
तदा समाधिना ज्ञान भवसागरमुत्तरेत्
दानशीलतपोध्यानैर्ज्ञानमेवाग्रमुच्यते ।
अपवर्गाद् यदा ज्ञानं ज्ञानशीले सुखावहे
प्रज्ञा अष्टमो मार्गस्तथागतेनोपदिष्टः
चक्षुषां च परा दृष्टा प्रज्ञोक्ता (या)सुनिर्मला ।
मार्गाणां चाष्टमो मार्गः शिवः प्रोक्तस्तथागतैः
प्रज्ञाबलं सर्वोत्तमम्
चतुर्णा चैव सत्यानामग्रे द्वे तु प्रकीर्तिते ।
बालानां च सदा दृष्टं प्रज्ञाबलमिहोत्तमम्
जन्मपद्वतिर्ज्ञानशस्त्रेण छेत्तव्या
ज्ञानशस्त्रेण तिक्ष्णेन लता छेद्या दुरासदा ।
हन्तव्या दोषनिवहाश्छेत्तव्या जन्मपद्धतिः
न ज्ञानात्परो बन्धुः
अमृतानां परं ज्ञानं श्रेयसां निधिरुत्तमम् ।
न ज्ञानाच्च परं बन्धुर्न ज्ञानाद्धनमुत्तमम्
ज्ञानशीलयुता प्रज्ञा सेवितव्या
ज्ञानशीलयुतावृद्धा वीतरागा गतस्पृहाः ।
सेवितव्याः सदा सन्तस्तत्त्वमार्गनिदर्शकाः
क्लेशादीन् प्रज्ञाशस्त्रेण विदारयेत्
प्रज्ञावज्रेण तीक्ष्णेन महोदयवसेन च ।
महायोगरथारूढः क्लेशादीन् प्रविदारयेत्
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0