भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 26

26.1

॥ इति वीर्यवर्गः पञ्चविंशः ॥
(26) ध्यानवर्गः
स्वस्थः कः?
असंसक्तमतेर्नित्यं नित्यं ध्यानविहारिणः ।
विशुद्धमनसो नित्यमेकाग्रभिरतस्य च

26.2

यस्यैकाग्रकरं चित्तं तस्य दोषा न बाधकाः ।
स दोषभयनिर्मुक्तः स्वस्थ इत्यभिधीयते

26.3

एकाग्राभिरतञ्चेतो विवेकमनुधावति ।
सर्वतर्कविनिर्मुक्तः स्वस्थ इत्यभिधीयते

26.4

चित्तस्यैकाग्रतां वर्णयति
यस्य चित्तं ध्रुवं शान्तं निर्वाणाभिरतं सदा ।
न तस्येन्द्रियजा दोषा भवस्य शुभहेतवः

26.5

यच्च ध्यानकृतं सौख्यं यच्च (चित्तं) समाधिजम् ।
चित्तं तत्सर्वमेकाग्रमते भवति देहिनः

26.6

यतिः अलौकिकं सुखं भुङ्क्ते
एकारामस्य यतिनो यत् सुखं जायते हृदि ।
यत् सौख्यमतिविज्ञेयं न सौख्यं लौकिकं मतम्

26.7

कीदृशं चित्तं शान्तिं समधिगच्छति?
एकाग्राभिरतं चित्तं विशुद्धाकृतमेव च ।
दोषजालविनिर्मुक्तं शान्तिं समधिगच्छति

26.8

ज्ञानाम्भसा तृष्णाग्निं हन्ति
एकान्तमनसा नित्यं संक्षिप्तेन्द्रियपञ्चकैः ।
तृष्णाग्निनातिवृद्धं च हन्ति ज्ञानाम्भसा बुधः

26.9

तस्य तृष्णाविमुक्तस्य विशुद्धस्य सुखैषिणः ।
अक्षयं चाव्ययं चैव पदं हि स्थितमग्रतः

26.10

निर्वाणपुरगामि वर्त्म
वितर्ककुटिलं चेतो यत्र यत्रोपपद्यते ।
एकालम्बनयुक्तेन धार्य तेन समाधिना ।
तस्मादेतत् परं वर्त्म निर्वाणपुरगामिकम्

26.11

मनोनिग्रहफलम्
एतदग्रं मनः क्षुत्वा हन्यादरिसमूहकम् ।
मनो हीदं विनिर्गृह्य (स) वेत्ति ध्यानजैर्दृढैः

26.12

निरुपमं ध्यानजं सुखम्
(तत्र स्थिताः नराः श्रेष्ठाः श्रद्धावन्तो मनीषिणः) ।
प्रयान्ति परमं स्थानमशोकं हतकिल्विषम्

26.13

निर्विषस्कस्य तुष्टस्य निरागस्यापि धीमतः
यत् सुखं ध्यानजं भाति कुतस्तस्योपमा परा

26.14

ध्यानैः परमं पदं प्राप्यते
एतत्सारं सुधीराणां योगिनां पारगामिनाम् ।
यदेवेदं मनः श्रुत्वा प्रयान्ति पदमच्युतम्

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc