भाषा

ENहिગુ
ग्रंथ पाठ

देवीकालोत्तरागम · श्लोक 61-80

61

ज्ञानमेवं वरारोहे कथितं मोक्षसिद्धये
आचारं कथ्यमानं तु साम्प्रतं शृणु तं मया ॥

62

न स्नानं न जपः पूजा होमो नैव च साधनम्
अग्निकार्यादिकार्यं च नैतस्यास्ति महेश्वरि ॥

63

नियमो ऽपि न तस्यास्ति क्षेत्रपीठे च सेवनम्
नार्चनं पितृकार्यादि तीर्थयात्रा व्रतानि च ॥

64

धर्माधर्मफलं नास्ति न तिथिर्लौकिकक्रिया
सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः ॥

65

समयाचारनिःशेषान् कृत्यजातं तु बन्धनम्
संकल्पं च विकल्पं च ये चान्ये कुलधर्मिकाः ॥

66

सिद्धीश्च विविधाकाराः पातालादि रसायनम्
प्रत्यक्षेणापि लभ्येरन् नैव गृह्णीत साधकः ॥

67

सर्वे ते पशुबन्धाः स्युर् अधोमार्गप्रदायकाः
एतैर्नास्ति परा मुक्तिश् चिद्रूपं व्यापकं विना ॥

68

येन केन विशेषेण सर्वावस्थो ऽपि योगधृक्
क्षेत्रपीठे च सन्देहाद् वर्जयेद्यदि कौतुकम् ॥

69

कृमिकीटपतङ्गाश्च तथा देवि वनस्पतीन्
न नाशयेद् बुधो जीवान् परमार्थमतिर्यतः ॥

70

न मूलोत्पाटनं कुर्यात् पत्त्रच्छेदं विवर्जयेत्
भूतपीडां न कुर्वीत पुष्पाणां च निकृन्तनम् ॥

71

स्वयंपतितपुष्पैस्तु कर्तव्यं शिवपूजनम्
मारणोच्चाटनादीनि विद्वेषस्तम्भने तथा ॥

72

ज्वरभूतग्रहावेश वश्याकर्षणमोहनम्
न कुर्यात् क्षुद्रकर्माणि काष्ठपाषाणपूजनम् ॥

73

समो ऽमित्रे च मित्रे च समो लोष्टे च काञ्चने
अभिलाषो न कर्तव्य इन्द्रियार्थे कदाचन ॥

74

आत्मारामो भवेद्योगी निर्भयो विगतस्पृहः
समनिन्दाप्रशंसश्च सर्वभूतसमस्तथा ॥

75

समदृष्टिस्तु कर्तव्या यथात्मनि तथा परे
विवादं लोकगोष्ठीं च कलहाश्च विवर्जयेत् ॥

76

शास्त्रगोष्ठीं न कुर्वीत कुभाषितसुभाषितान् ॥

77

ईर्ष्यां पैशुन्यदम्भे च रागं मात्सर्यमेव च
कामक्रोधौ भयं शोकं त्यजेत्सर्वं शनैः शनैः ॥

78

सर्वद्वन्द्वविनिर्मुक्तः सन्ततं जनवर्जितः
अनेनैव शरीरेण सर्वज्ञः सन् प्रकाशते ॥

79

ज्ञानेनैव यथा मोक्षस् तथा सिद्धिर्निरर्थिका
तथापि भोगमिच्छन्तः सिद्धिमिच्छन्ति साधकाः ॥

80

अणिमादिगुणावाप्तिर् जायतां वा न जायताम्
तथापि मुच्यते देही पतिं विज्ञाय निर्मलम् ॥

मूल पाठ: Devīkālottarāgama · Edition: Vrajavallabha Dwivedi: Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc