देवीकालोत्तरागम · श्लोक 41-60
सर्वालम्बनशून्यं च धारयित्वा मनो हृदि
यज्ज्ञानं जायते स्पष्टं तदभ्यासपरो भवेत् ॥
ये ध्यायन्ति परं शून्यं निष्कलं निरवस्थितम्
ते यान्ति परमं स्थानं जन्ममृत्युविवर्जितम् ॥
देवा देव्यस्तथा चान्ये धर्माधर्मौ च तत्फलम्
आश्रयाश्रयिविज्ञानं संसारस्य च बन्धनम् ॥
आश्रयो द्वन्द्वमित्युक्तं द्वन्द्वत्यागात् परोदयः
जीवन्मुक्तस्तदा योगी देहत्यागाद् विमुच्यते ॥
वैराग्येण वपुस्त्यागो न वै कार्यो मनीषिणा
आरम्भतः क्रियानाशे स्वयमेव विपत्स्यते ॥
हृत्सरोजे ह्यहंरूपा या चितिर्निर्मलाचला
अहङ्कारपरित्यागात् सा चितिर्मोक्षदायिनी ॥
सर्वोपाधिविनिर्मुक्तं चिद्रूपं यन्निरन्तरम्
तच्छिवो ऽहमिति ध्यात्वा सर्वासक्तिं विसर्जयेत् ॥
देशजात्यादिसम्बद्धान् वर्णाश्रमसमन्वितान्
भावानेतान् परित्यज्य स्वभावं भावयेद्बुधः ॥
अहमेको न मे कश्चिन् नाहमन्यस्य कस्यचित्
न तं पश्यामि यस्याहं तं न पश्यामि यो मम ॥
अहमेव परं ब्रह्म जगन्नाथो महेश्वरः
इति स्यान्निश्चितो मुक्तो बद्धः स्यादन्यथा पुमान् ॥
अशरीरं यदात्मानं पश्यति ज्ञानचक्षुषा
तदा भवति शान्तात्मा सर्वतो विगतस्पृहः ॥
यो ऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः
अकायो निर्गुणो ह्यात्मा सो ऽहमस्मि न संशयः ॥
विज्ञाप्तिमात्रो हि सदा विशुद्धः सर्वत्र यस्मात्सततं विमुक्तः
नादेयहेयो ह्यहमप्रतर्क्यस् तस्मात्सदा ब्रह्ममयो विशोकः ॥
आमस्तकं पादतलावसानं सान्तर्बहिश्चर्मपटावनद्धम्
तत्कृत्स्नमेवामृतरूपमन्यच् चिद्रूपमात्मानमनन्यसिद्धिम् ॥
ईशो ऽहमेवास्य चराचरस्य पिता च माता च पितामहश्च
ध्यानं समास्थाय पदं चतुर्थं ध्यायन्ति मामेव विमुक्तिकामाः ॥
ब्रह्मादिभिर्देवमनुष्यनागैर् गन्धर्वयक्षाप्सरसां गणैश्च
यज्ञैरनेकैरहमेव पूज्यो मामेव सर्वे प्रतिपूजयन्ति ॥
तपोभिरुग्रैर्विविधैश्च दानैर् मामेव सर्वे प्रतिपूजयन्ति
भूतानि चाहं स्थिरजङ्गमानि यावन्ति चान्यान्यहमेव तानि ॥
न स्थूलसूक्ष्मो न च शून्यरूपो ज्ञानैकरूपो जगदेकबन्धुः
निरन्तरो निर्मल ईश्वरो ऽहं स्वप्नाद्यवस्थाच्युतिनिष्प्रपञ्चः ॥
अनादिविज्ञानमजं पुराणं गुहाशयं निष्कलमप्रपञ्चम्
निरञ्जनं निष्प्रतिमं निरीशम् अदृश्यमग्राह्यमचिन्त्यरूपम् ॥
सनातनं ब्रह्म निरन्तरं यत् पदे पदे सो ऽहमिति प्रपश्येत्
यो भावतस्तिष्ठति निष्प्रकम्पः स ब्रह्मभूतो ऽमृततामुपैति ॥
मूल पाठ: Devīkālottarāgama · Edition: Vrajavallabha Dwivedi: Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0