भाषा

ENहिગુ
ग्रंथ पाठ

देवीकालोत्तरागम · श्लोक 81-84

81

पञ्चभूतात्मको देहः शिवस्तत्रैव तिष्ठति
शिवाद्यवनिपर्यन्तो लोको ऽयं शङ्करात्मकः ॥

82

ईदृशं ज्ञानिनं दृष्ट्वा पूजयन्ति च ये नराः
गन्धं पुष्पं फलं धूपं स्नानं वस्त्रं च भोजनम् ॥

83

निवेदयन्ति ये केचिद् वाङ्मनःकायकर्मभिः
तथैव ते विमुच्यन्ते मुक्तिमार्गाभिकाङ्क्षिणः ॥

84

स्तुतिनिन्दाकरास्तस्य पुण्यपापे समाप्नुयुः
यज्ज्ञानाचरणं पृष्टं तत् सर्वं कथितं मया
कालज्ञानं वरारोहे किमन्यत् परिपृच्छसि ॥

मूल पाठ: Devīkālottarāgama · Edition: Vrajavallabha Dwivedi: Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc