देवीकालोत्तरागम · श्लोक 21-40
यद्यदालोक्य यो जन्तुः कुरुते कर्मसञ्चयम्
तद्गतिर्जायते यस्मान् निरालोकं तु चिन्तयेत् ॥
हेतुर्नास्ति फलं नास्ति नास्ति कर्म स्वभावतः
असद्भूतमिदं सर्वं नास्ति लोको न लौकिकः ॥
निरालम्बमिदं सर्वं निरालम्बप्रकाशितम्
निरालम्बमिदं कृत्वा निरालम्बो भविष्यति ॥
व्योमाकारं महाशून्यं व्यापकं यो न भावयेत्
संसारी स भवेल्लोके बीजकोशक्रिमिर्यथा ॥
ज्ञानोत्पत्तिनिमित्तं तु क्रियाश्चर्याः प्रकीर्तिताः
योगं सालम्बनं त्यक्त्वा निष्प्रपञ्चं विचिन्तयेत् ॥
पातालात् शक्तिपर्यन्तं सर्वमेतदभीप्सितम्
भग्नं यैः शून्यमन्त्रेण ते स्मृताः शून्यवेदिनः ॥
विषये लोलुपं चित्तं मर्कटादपि चञ्चलम्
सर्वशून्यपदे स्थित्वा ततो निर्वाणमेष्यति ॥
सर्वतत्त्वाद्यसम्भिन्नं देहाद् भिन्नं तथैव च
अहमस्माद्यसम्भिन्नं चैतन्यं सर्वतोमुखम् ॥
आकाशमिव सर्वं तु सबाह्याभ्यन्तरं प्रिये
परानन्दमरूपं तु पश्यन्नानन्दभाग्भवेत् ॥
निरिन्धनो यथा वह्निः स्वयमेव प्रशाम्यति
ग्राह्याभावान्मनस्तद्वत् स्वयमेव प्रलीयते ॥
मोहिका मूर्च्छिका माया स्वप्नश्चेति चतुर्विधः
सुषुप्तिर्जागृतिश्चैव सर्वमेतत् परित्यजेत् ॥
देहात् सूक्ष्मगतात् प्राणाच् चित्ताद् बुद्धेरहङ्कृतेः
सर्वस्माद्भिन्न एवाहं चिन्तयन् लभते चितम् ॥
सदाभिभूतये चित्तं निद्रया स्मरणादिना
बोधयित्वा प्रयत्नेन कुर्यात् स्वस्थं पुनः पुनः ॥
यदा स्थिरं भवेच्चित्तं चालयन्न कथंचन
न किञ्चिच्चिन्तयेत् तत्र स्थिरमेव तु कारयेत् ॥
आश्रयालम्बनं चित्तं तद्वत् कुर्यान्निराश्रयम्
चञ्चलं निश्चलं कुर्यात् निश्चलं न तु चालयेत् ॥
सर्वभूतलये जाते यद्यद्व्योम सुनिर्मलम्
तत्तद्रूपं स्वकं ध्यायेद् व्याप्तं चैव तु निर्मलम् ॥
तदेव जन्मसाफल्यं पाण्डित्यमिदमेव हि
चलद्वायुसमं चित्तं निश्चलं ध्रियते हि यत् ॥
नैवोर्ध्वं धारयेच्चित्तं न मध्यं नाप्यधः क्वचित्
अन्तर्भावविनिर्मुक्तं सदा कुर्यान्निराश्रयम् ॥
निद्रायां बोधयेच्चित्तं विक्षिप्तं शमयेत् पुनः
पक्षद्वयपरित्यागे सम्प्राप्ते नैव चालयेत् ॥
निराश्रयं सदा चित्तं सर्वालम्बनवर्जितम्
मनो ऽवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् ॥
मूल पाठ: Devīkālottarāgama · Edition: Vrajavallabha Dwivedi: Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0