भाषा

ENहिગુ
ग्रंथ पाठ

देवीकालोत्तरागम · श्लोक 1-20

1

सर्वेषामपि मुक्त्यर्थं मुक्तिमार्गस्य दर्शनम्
देवेश ज्ञानमाचारं कृपया कथयस्व मे ॥

2

ज्ञानाचारौ वरारोहे कथयामि तवाधुना
प्रविशन्ति यतो मोक्षं ज्ञानिनो ध्वस्तकल्मषम् ॥

3

येषां बोधेन संजातं कालज्ञानं वरानने
न तेषां जायते बोधः शास्त्रकोटिशतैरपि ॥

4

अतो हि निर्भयो विद्वान् निःशङ्को विगतस्पृहः
ज्ञानोत्साहपरो भूयात् श्रद्दद्धानो निराकुलः ॥

5

निर्ममः करुणोपेतः सर्वभूताभयप्रदः
भजेत् कालोत्तरं देवि मुमुक्षुर्योगतत्परः ॥

6

स ब्रह्मा स शिवो विष्णुः स इन्द्रः स षडाननः
स गुरुः सर्वदेवाश्च स योगी स तपोधनः ॥

7

पण्डितः स महाभागः कृतार्थः परमार्थतः
चलद्वायुसमं चित्तं ध्रियते येन निश्चलम् ॥

8

स उपायो मिमोक्षस्य सदुपात्तगुणस्तु सः
सा प्रज्ञा तदिह स्थैर्यं तत्पुण्यं व्यवसायिनाम् ॥

9

तदेव तीर्थं दानं च स तपश्च न संशयः
येनोपायेन बध्येत वायुभिश्चलनं मनः ॥

10

चित्ते चलति संसारो निश्चलो मोक्ष एव तु
तस्माच्चित्तं स्थिरं कुर्यात् प्रज्ञया परया बुधः ॥

11

एकान्तिकं सुखं यत्र तथाइवात्यन्तिकं भवेत्
निष्कर्मणि परे तत्त्वे को न रज्येत पण्डितः ॥

12

निवृत्तो विषयज्ञानात् निष्कलज्ञानतत्परः
अनिच्छन्नपि मेधावी लभते मोक्षमक्षयम् ॥

13

अस्मिताकलया युक्तं चैतन्यं सकलं स्मृतम्
अस्मितारहितं चेतश् चैतन्यं शक्तिरुच्यते ॥

14

तथा प्रकाशितं विश्वं शक्तिध्यानमुदाहृतम्
सर्वालम्बविनिर्मुक्तं निष्कलं ज्ञानमुच्यते ॥

15

अहमंशेन यच्छून्यं चिन्मात्रालोकमद्वयम्
मुक्तिबीजं तदाख्यातं परयोगप्रवर्तकम् ॥

16

चक्राणि नाडयः पद्म देवताबीजमण्डलम्
रूपमित्यादिकं किञ्चिद् ध्येयं नैव कदाचन ॥

17

कुहकं मन्त्रजालं च प्राणायामादि धारणम्
सर्वमेतन्न कर्तव्यं मोक्षमक्षयमिच्छता ॥

18

नात्र पूजा नमस्कारो न जपो ध्यानमेव च
केवलं ज्ञानमित्युक्तं वेदितव्यं न किञ्चन ॥

19

बहिराहितचित्तानां जायन्ते बन्धहेतवः
बहिश्चित्तं निवार्यैव विन्दन् लोके न सीदति ॥

20

नात्र किञ्चिद्बहिर्नान्तं न मध्यं नाप्यधः क्वचित्
सर्वाकारं निराकारं स्वसंवेद्यं विराजते ॥

मूल पाठ: Devīkālottarāgama · Edition: Vrajavallabha Dwivedi: Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc