देवीगीता · अध्याय 1
देवीगीता
अथ प्रथमो ऽध्यायः -
सप्तमः स्कन्धः
अथ एकत्रिंशो ऽध्यायः
जनमेजय उवाच
धराधराधीश मौलावाविरासीत्परं महः ।
यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे
को विरज्येत मतिमान्पिबञ्छक्तिकथामृतम् ।
सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत्
व्यास उवाच
धन्यो ऽसि कृतकृत्यो ऽसि शिक्षितो ऽसि महात्मभिः ।
भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते
शृणु राजन्पुरा वृत्तं सतीदेहे ऽग्निभर्जिते ।
भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरो ऽभवत्
प्रपञ्चभानरहितः समाधिगतमानसः ।
ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान्
सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् ।
शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम्
आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे ।
उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः
सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् ।
ग्रहाणां देवतानां च वैपरीत्येन वर्तनम्
अधिभूताधिदैवानां सत्यभावान्नृपाभवन् ।
अथ ऽस्मिन्नेव काले तु तारकाख्यो महसुरः
ब्रह्मदत्तवरो दैत्यो ऽभवत्त्रैलोक्यनायकः ।
शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति
इति कल्पितमृत्युः स देवदेवैर्महासुरः ।
शिवैरससुताभावाज्जगर्ज च ननन्द च
तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः ।
शिवैरससुताभावाच्चिन्तामापुर्दुरत्ययाम्
नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भावः ।
अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति
इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले ।
शशंसुर्हरिमेकान्ते स चोपायं जगाद ह
कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा ।
जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी
अस्माकमनयादेव तदुपेक्षास्ति नान्यथा ।
शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय
लालने ताडने मातुर्ना कारुण्यं यथार्भके ।
तद्वदेव जगन्मातुर्नियन्त्रा गुणदोषयोः
अपराधो भवत्येव तनयस्य पदे पदे ।
को ऽपरः सहते लोके केवलं मातरं विना
तस्मद्यूयं पराम्बां तां शरणं यात मा चिरम् ।
निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति
इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया ।
संयुतो निर्जगामाशु देवैः सह सुराधिपः
आजगाम महाशैलं हिमवन्तं नगाधिपम् ।
अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः
अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे ।
तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप
केचित्समाधिनिष्णाताः केचिन्नामपरायणाः ।
केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः
मन्त्रपारायणपरः केचित्कृच्छ्रादि कारिणः ।
अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः
हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः ।
इत्येवं बहुवर्षाणि कालो ऽगाज्जनमेजय
अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने ।
प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम्
चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् ।
कोटिसूर्य्प्रतीकाशं चन्द्रकोटिसुशीतलम्
विद्युत्कोटिसमानाभमरुणं तत्परं महः ।
नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत्
आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् ।
न च स्त्रीरूपमथवा न पुंरूपमथोभयम्
दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते ।
पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः
तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् ।
अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम्
उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् ।
रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम्
कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् ।
अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम्
तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् ।
नितम्बबिम्बसुभगां रोमराजिविराजिताम्
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ।
कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम्
अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् ।
रक्तारविन्दनयनामुन्नसां मधुराधराम्
कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् ।
रत्नसम्भिन्नमुकुटां चन्द्ररेखावताम्सिनीम्
मल्लिकामालतीमालाकेशपाशविराजिताम् ।
काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम्
पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् ।
रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम्
सर्वशृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् ।
सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम्
प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् ।
अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः
दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः ।
वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः
कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः ।
प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम्
देवा ऊचुः
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्
ताम् अग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर् वागस्मानुपसुष्टुतैतु
कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम्
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात्
नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये ।
नमो ऽव्याकृतरूपिण्यै नमः श्रीब्रह्म मूर्तये
यदज्ञानाज्जगद्धाति रज्जुसर्पस्रगादिवत् ।
यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम्
नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् ।
अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम्
पञ्चकोशातिरिक्तां ताम् अवस्थात्रयसाक्षिणीम् ।
पुनस्त्वम्पदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम्
नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये ।
नानामन्त्रात्मिकायै ते करुणायै नमो नमः
इति स्तुता तदा देवैर् मणिद्वीपाधिवासिनी ।
प्राह वाचा मधुरया मत्तकोकिलनिःस्वना
श्रीदेव्युवाच
वेदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः ।
वरदाहं सदा भक्तकामकल्पद्रुमास्मि च
तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् ।
समुद्धरामि मद्भक्तान्दुःखसंसारसागरात्
इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः ।
इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः
निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् ।
देवा ऊचुः
नाज्ञातं किञ्चिदप्यत्र भ्वत्यास्ति जगस्त्रये
सर्वज्ञया सर्वसाक्षिरूपिण्या पर्मेश्वरि ।
तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम्
शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणाशिवे ।
शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि
सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः ।
एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके
सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला ।
प्रार्थनीयमिदं मुख्यमपरं देहहेतवे
इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी ।
मम शक्तिस्तु या गौरी भविष्यति हिमालये
शिवाय सा प्रदेया स्यात् सा वः कार्यं विधास्यति ।
भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात्
हिमालयो हि मनसा मामुपास्ते ऽतिभक्तितः ।
ततस्तस्य गृहे जन्म मम प्रियकरं मतम्
व्यास उवाच
हिमालयो ऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः ।
बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचो ऽब्रवीत्
महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि ।
नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी
असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे ।
अश्वमेधादि पुण्यैर्वा पुण्यैर्वा तत्समाधिजैः
अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् ।
अहो हिमालयस्यास्य धन्यो ऽसौ भाग्यवानिति
यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः ।
सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि
न जाने ऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् ।
एतादृशानां वासाय येषां वंशे ऽस्ति मादृशः
इदं यथा च दत्तं मे कृपया प्रेमपूर्णया ।
सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा
योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् ।
वदस्व परमेशानि त्वमेवाहं यतो भवेः
व्यास उवाच
इति तस्य वचः प्रसन्नमुखपङ्कजा ।
वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम्
मूल पाठ: Devīgītā (= Devībhāgavata-Purāṇa 7,31-40) · Data entry Ursula Honegger · GRETIL (Göttingen) · CC BY-NC-SA 4.0