भाषा

ENहिગુ
ग्रंथ पाठ

देवीगीता · अध्याय 2

2.1

इति देवीगीतायां प्रथमो ऽध्यायः -
इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामेकत्रिंशो ऽध्यायः
अथ द्वितीयो ऽध्यायः -
सप्तमः स्कन्धः
अथ द्वात्रिंशो ऽध्यायः
श्रीदेव्युवाच
शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम ।
यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते

2.2

अहम् एवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप ।
तदात्मरूपं चित्संवित् परब्रह्मैकनामकम्

2.3

अप्रतर्क्यम् अनिर्देश्यमनौपम्यमनामयम् ।
तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता

2.4

न सती सा नासती सा नोभयात्मा विरोधतः ।
एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा

2.5

पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः ।
चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा

2.6

तस्यां कर्मणि जीवानां जीवाः कालाश्च सञ्चरे ।
अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत्

2.7

स्वशक्तेश् च समायोगादहं बीजात्मतां गता ।
स्वाधारावरणात्तस्या दोषत्वं च समागतम्

2.8

चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते ।
प्रपञ्चपरिणामाच्च समवायित्वमुच्यते

2.9

केचित्तां तप इत्याहुस्तमः केचिज्जडं परे ।
ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम्

2.10

विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः ।
अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः

2.11

एवं नानाविधानि स्युर्नामानि निगमादिषु ।
तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततो ऽसती

2.12

चैतन्यस्य न दृश्यत्वम् दृश्यत्वे जडमेव तत् ।
स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम्

2.13

अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् ।
कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम्

2.14

प्रकाशमानमन्येषां भासकं विद्धि पर्वत ।
अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम

2.15

जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः ।
संविदो व्यभिचारश्च नानुभूतो ऽस्ति कर्हिचित्

2.16

यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा ।
अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा

2.17

अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः ।
आनन्दरूपता चास्याः परप्रेमास्पदत्वतः

2.18

मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् ।
सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम

2.19

अपरिच्छिन्नताप्येवमत एव मता मम ।
तच्च ज्ञानं नात्मधर्मा धर्मत्वे जडतात्मनः

2.20

ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि ।
चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते

2.21

तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा ।
सत्यः पूर्णो ऽप्य् असङ्गश्च द्वैतजालविवर्जितः

2.22

स पुनः कामकर्मादियुक्तया स्वीयमायया ।
पूर्वानुभूतसंस्कारात्कालकर्मविपाकतः

2.23

अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते ।
अबुद्धिपूर्वः सर्गो ऽयं कथितस्ते नगाधिप

2.24

एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् ।
अव्याकृतं तदव्यक्तं मायाशबलमित्यपि

2.25

प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् ।
तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम्

2.26

सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् ।
ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते

2.27

तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः ।
भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः

2.28

जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा ।
शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः

2.29

शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः ।
शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः

2.30

शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा ।
तेभ्यो ऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते

2.31

सर्वात्मकम् तत्सम्प्रोक्तं सूक्ष्मदेहो ऽयमात्मनः ।
अव्यक्तं कारणो देहः स चोक्तः पूर्वम् एव हि

2.32

यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः ।
ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः

2.33

पञ्चसंख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते ।
पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद् द्विधा

2.34

एकैकं भागमेकस्य चतुर्धा विभजेद्गिरे ।
स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते

2.35

तत्कार्यम् च विराड्देहः स्थूलदेहो ऽयमात्मनः ।
पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः

2.36

ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः ।
अन्तःकरणमेकं स्याद् वृत्तिभेदाच्चतुर्विधम्

2.37

यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् ।
स्याद् बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम्

2.38

अनुसन्धानरूपं तच्चित्तम् च परिकीर्तितम् ।
अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम्

2.39

तेषां रजोंशैर्ज्ञातानि क्रमात्कर्मेन्द्रियाणि च ।
प्रत्येकं मिलितैर्तैर्तु प्राणो भवति पञ्चधा

2.40

हृदि प्राणो गुदे ऽपानो नाभिस्थस्तु समानकः ।
कण्ठदेशे ऽप्युदानः स्याद्व्यानः सर्वशरीरगः

2.41

जानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ।
प्राणादिपञ्चकं चैव धियाच सहितं मनः

2.42

एतत्सूक्ष्मशरीरं स्यान्मम लिण्गं यदुच्यते ।
तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विदिधा स्मृता

2.43

सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता ।
स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते

2.44

तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः ।
स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः

2.45

सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः ।
अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप

2.46

तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः ।
द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया

2.47

देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः ।
प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः

2.48

स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः ।
एवमीशो ऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः

2.49

प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः ।
स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया

2.50

करोति विविधं विश्वं नानाभोगाश्रयं पुनः ।
मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः

मूल पाठ: Devīgītā (= Devībhāgavata-Purāṇa 7,31-40) · Data entry Ursula Honegger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc