भाषा

ENहिગુ
ग्रंथ पाठ

दशभूमिकसूत्र · अध्याय 9

9.1

8 अचला नाम अष्टमी भूमिः ।
उपक्रमगाथाः ।
एव श्रुत्व चरणं विदुन श्रेष्ठं देवसंघ मुदिता मरुपतिश्च ।
बोधिसत्त्व बहवो जगद्धितैषि पूजयन्ति सुगतं जिनसुतांश्च

9.2

पुष्पमाल्य रुचिरा ध्वजापताका गन्धचूर्ण रुचिरा रतनवस्त्रा ।
छत्र नैकरुचिरान् मणिप्रत्युप्तान् हारमेघप्रवरानभिसृजन्ति

9.3

मनोज्ञघोषमधुरं सुरवन्दू मुक्त नैकतुरियप्रवरनाटान् ।
पूजनार्थि जिनपुत्र सुगतांश्च वर्णश्रेष्ठ मुनिनो उदाहरन्ति

9.4

सर्वि दर्शि वृषभी द्विपादश्रेष्ठो दर्शि बुद्धविषयं जगद्धितार्थम् ।
शब्दमेघ रुचिरान् प्रताडमानास्तूर्यताल विविधास्तद प्रमुक्ताः

9.5

वालकोटि सुगताः शतसहस्रा गङ्गाकोटि नयुता रजविशिष्टाः ।
क्षेममप्रतिसमाः प्रवरश्रेष्ठं देशयन्ति वृषभी विरजधर्मम्

9.6

प्रेत तिर्य नरका मनुजदेवाः यक्ष रक्ष भुजगा असुरसंघा ।
... ... ... ... ... ... ... ... ... ... ... नानकर्मविषये समनुभोन्ति

9.7

सर्वक्षेत्रविषये धुतरजानां चक्र श्रेष्ठप्रवरं तदनिर्वृत्तम् ।
देशयन्ति मधुरं सुगतघोषं संज्ञचित्त जगतस्तथ विचारन्

9.8

सत्त्वकायि सुगता विविधक्षेत्रा क्षेत्रि सत्त्वप्रवराः पुनविपाकाः ।
देवमानुषगती तथ विचित्रा ज्ञात्व सर्व सुगतो भणति धर्मम्

9.9

सूक्ष्मसंज्ञ भवति विपुलक्षेत्रे विपुलसंज्ञ भवति रजनिमित्ते ।
एवमादि विविधां सुगत-ऋद्धिं सर्वलोक भणतो न क्षेपयेयुः

9.10

ईद्दशं वचमाहात्म्यं वचित्वा मधुरस्वरम् ।
प्रशान्ता परिषत्प्रीता प्रेक्षते वदतां वरम्

9.11

प्रशान्त पर्षदं ज्ञात्वा मोक्षचन्द्रो ऽब्रवीत्पुनः ।
अष्टम्या भूमि-आकारां प्रवेशं च निदर्शय

9.12

उपसंहारगाथाः ।
ते भूम्य सप्तसु विशोधित प्रज्ञुपाया मार्गा सुसंभृत महाप्रणिधानबद्धाः ।
सुप्रतिष्ठिता नरवराः कुशलोपपेता ज्ञानाभिलाषि विदु अष्टमिमाक्रमन्ति

9.13

ते पुण्यज्ञानुपगताः कृपमैत्रयुक्ता ज्ञानाप्रमाणपथगाः खगबुद्धिकल्पाः ।
श्रुतधर्म निश्चितबलोपगता महर्षी क्षान्तिं लभन्ति अनुत्पादप्रशान्तिसूक्ष्माम्

9.14

आदावजात अनुत्पाद अलक्षणं च असंभूततमविनष्टत चाप्रवृत्तम् ।
भावस्वभावविगता तथताविकल्पा मम चित्तचारविगताः खगतुल्यकल्पाः

9.15

ते एव क्षान्तिसमन्वागत निष्प्रपञ्चा गम्भीरचाल्य विदु शान्तविचारप्राप्ताः ।
दुर्ज्ञेय सर्वजगतारहप्रत्ययैश्च चित्तं निमित्तग्रहसंज्ञविभावितत्वात्

9.16

एवं स्थितानमनुचिन्तविकल्प नास्ति भिक्षुर्निरोध्युपगतो ऽपप्रकल्पप्राप्तः ।
स्वप्नोघप्राप्त प्रतिबुद्ध तथाविकल्पा ब्रह्मापुरे रतिसङ्गरहितो तथैव

9.17

पूर्वाधिष्ठान सुगता पुन चोदयन्ति एषा स क्षान्ति परमा सुगताभिषेके ।
अस्माकु ज्ञान विपुलं वरबुद्धधर्मा ते तुभ्य नास्ति त हि वीर्यु समारभायम्

9.18

किंचापि शान्त तव सर्वकिलेशज्वाला ज्वलितं निशम्य पुन क्लेशगतिभ्य लोकम् ।
प्रणिधान पूर्व स्मर सत्त्वहितं विचार्य ज्ञानार्थि प्रार्थित क्रिया जगमोक्षहेतोः

9.19

सद एष धर्मत स्थिता तथताविकल्पा सर्वेषु बुद्धजिनश्रावकप्रत्ययानम् ।
न हि एतिना दशबलान प्रभावु लोके नान्यत्र ज्ञानविपुलं त्रिभि अध्वसङ्गम्

9.20

एवं तमप्रतिसमा नरदेवपूज्या उपसंहरन्ति बहुज्ञानमुखा विचारान् ।
जिनधर्मनिष्पत्तिप्रवेशमनन्तपारं यस्या कला न भवते पुन बोधिचर्या

9.21

एतानि प्राप्त वृषभी वरज्ञानभूमिम् एकक्षणेन स्फरते दिशताः समन्तान् ।
ज्ञानप्रवेशुपगता वरभिज्ञप्राप्ता यथ सागरे वहनु मारुतयानप्राप्तः

9.22

साभोगचित्तविगताः स्थितज्ञानकर्म विचिनन्ति क्षेत्रप्रभवं विभवस्थितिं च ।
धातुश्चत्वारि विनिभागगतान तांश्च सूक्ष्मं महद्गत विभक्ति समोसरन्ति

9.23

त्रिसहस्रि सर्वपरमाणुरजो तरन्ति चत्वारि धातु जगकायि विभक्तितश्च ।
रत्ना विभक्तिपरमाणु सुवर्गतीषु भिन्दित्व ज्ञानविषयेन गणेन्त्यशेषम्

9.24

ज्ञाने विभावितमना विदु सर्वकायान् स्वे कायि तत्र उपनेन्ति जगार्थहेतोः ।
त्रिसहस्र सर्व च स्फरित्व विचित्ररूपान् दर्शेन्ति काय विविधान् तथनन्तलोके

9.25

सूर्यं शशिं च वह्नि मारुत अन्तरीक्षे स्वकमण्डलुस्य उदके प्रतिभासप्राप्ता ।
ज्ञानोत्तमे स्थित तथाचलधर्मतायां जग शुद्ध-आशय विदू प्रतिभासप्राप्ता

9.26

यथ-आशयं जगत कायविभक्तितां च दर्शेन्ति सर्वपरिषे भुवि सर्वलोके ।
वशिप्रत्ययाश्रय जिनात्मजश्रावकानां दर्शेन्ति ते सुगतकाय विभूषिताङ्गान्

9.27

सत्त्वांश्च क्षेत्र तथ कर्मविपाक कायान् आर्याश्रयान् विविधधर्मज्ञानकायान् ।
आकाशकाय वृषभी समतामुपेतं दर्शेन्ति ऋद्धि विविधान् जगतोषणार्थम्

9.28

वशिता दशो विमलज्ञानविचारप्राप्ता अनुप्राप्त ज्ञानकृत मैत्रकृपानुकूलाः ।
यावच्च सर्वजिनधर्ममुपादकर्मा त्रिसंवरैः सुस्थितमेक अचल्यकल्पाः

9.29

ये चा बला जिनसुतान दश अक्षोभ्या तेही उपेत अविबन्धिय सर्वमारैः ।
बुद्धैरधिष्ठित नमस्कृत शक्रब्रह्मैस्तथ वज्रपाणिबलकैः सततानुबद्धाः

9.30

इम भूमिदेशुपगता न गुणानमन्तो नो शक्यते क्षयितु कल्पसहस्रकोट्यैः ।
ते भूय बुद्ध नियुतान् समुपासयन्ते भोन्तो उतप्त यथ भूषणु राजमूर्ध्नि

9.31

इम भूमिदेशुपगता विदु बोधिसत्त्वा महब्रह्म भोन्ति सहस्राधिपती गुणाढ्याः ।
त्रययानदेशन अक्षोभ्यसंहारप्राप्ता मैत्रायनः शुभप्रभा जगक्लेशघाती

9.32

एकक्षणेन दशक्षेत्रशतःसहस्रा यावा रजोधातु तत्तक समाध्युपेन्ति ।
पश्यन्ति तत्तक दशदिशि सत्त्वसारान् भूयो अतः प्रणिधिश्रेष्ठ व्यूह नेकाः

9.33

संक्षेप एष निर्दिष्टो अष्टमाया जिनात्मजाः ।
विस्तरः कल्पकोटीभिर्न शक्यः सर्व भाषितुम्

मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc