दशभूमिकसूत्र · अध्याय 10
9 साधुमती नाम नवमी भूमिः ।
उपक्रमगाथाः ।
इमां भूमिं प्रभाषता कम्पिताः क्षेत्रकोटयः ।
अधिष्ठाना नरेन्द्रस्य अप्रमेया अचिन्तिया
आभास रुचिरा मुक्ताः कायतः सर्वदर्शिनो ।
तयावभासिताः क्षेत्राः सत्त्वाश्च सुखितास्तया
बोधिसत्त्वसहस्राणि अन्तरिक्षे स्थितानि च ।
दिव्यातिक्रान्तपूजाय पूज्यन्ते वदतां वरम्
महेश्वरा देवपुत्रा वशवर्ती प्रहर्षिताः ।
नानाप्रकारपूजाभिः पूजेन्ति गुणसागरम्
ततो ऽप्सरःसहस्राणि हर्षिताः प्रीणितेन्द्रियाः ।
दिव्या सुयत्ता संगीताः शास्तु पूजामजग्रयम्
तेभ्यश्च तूर्यनादेभ्य अनुभावान्महर्षिणः ।
ईदृशा रुतसहस्रा रवन्ती मधुरस्वराः
इमि सर्वे जिनसुता खिलमलविगता उपगत भुवि वरसुरुचिरचरणाः ।
जगहित विचरति दशदिश वृषभी दर्शयि जिनचरि खगसममनसा
नरपुरि मरुपुरि भुजगपतिविषये वियुह दशदिशि पुण्यबलमुदीरिताः ।
तत तु भुयु जिनसुत दर्शयि अतुली जिनसुतप्रभव जिननुपथनिरता
एकक्षेत्रि अचलित सर्वक्षेत्रविरजा अनुगत जगहित शशिरिव प्रतिभा ।
सर्वघोषहानचित्त प्रशमितमनसा वियहरि कृतशतश्रुतिपथगिरिभिः
यत्र सत्त्व हीनचित्त दीन माननिरतास्तत्र विदु श्रावकाचरी देशेति वृषभी ।
यत्र सत्त्व तीक्ष्णचित्त प्रत्ययाननिरतास्तत्र ज्ञान प्रत्ययान दर्शयन्ति विरजा
ये तु सत्त्वहितमैत्रमनसा (अभिरतास्) तत्र त्यं(त्वं) जिनपुत्रान दर्शयन्ति चरणम् ।
ये तु सत्त्व अग्र श्रेष्ठ मतिमाननिरतास्तत्र अमी बुद्धकाय दर्शयन्ति अतुलम्
माया यथा मायकारो दर्शेति जगहिते याय कोटि नैकविद्या सर्वभावविगता ।
एव विदू बुद्धसुता ज्ञानमायनिरता दर्शयन्ति सर्वचरी सर्वभावविगता
एतादृशा रुतसहस्रान् भणित्व मधुरांस्तदा मरुकन्यका जिनं दृष्ट्वा तूष्णींभूताः ।
पर्षद्विप्रसन्नेयमवोचत्सुगतात्मजम् अष्टमाया भण ऊर्ध्वं चरिं सद्धर्मराजिनाम्
उपसंहारगाथाः ।
ते अप्रमाणबलबुद्धि विचारयन्तः सुसूक्ष्मज्ञानपरमा जगता दुर्ज्ञेया ।
तथ गुह्यस्थान सुगतान समोसरन्तो भूमिं क्रमन्ति नवमीं जगतो ऽर्थकरीम्
ते धारणीमुखि समाधिसमाहिताग्रा विपुला अभिज्ञा अपि क्षेत्रप्रवेशनन्तम् ।
बलज्ञाननिश्चयमपि जिनु धैर्यस्थानं प्रणिधीकृपाशयविदू नवमोतरन्ति
ते अत्र भूम्यनुगता जिनकोशधारी कुशलाश्च धर्मकुशलाश्च अव्याकृताश्च ।
ये सास्रवा अपि च लौकिक ये च आर्याश्चिन्त्या अचिन्तिय विदू अनुबुद्ध्ययन्ति
नियतांश्च धर्मनियतां प्रविचारयन्ति त्रययानसंपदक्रिया परितारयन्ति ।
भूमिधर्म यथा-अधिमुक्ति प्रचारतश्च अभिसंस्करोन्ति यथ लोक्य तथोतरन्ति
ते एवज्ञाननुगता वरसूक्ष्मबुद्धी सत्त्वान चित्तगहनं परिमार्गयन्ति ।
(चित्तं विचित्रक्षणवर्तनिवर्ततां च) चित्तं अनन्तप्रभवं सद ओतरन्ति
क्लेशाननादिन प्रयोगसहायताश्च ये पर्युत्थाननुशया गतिसंधितश्च ।
तथ कर्मप्रवेश विचित्रविभक्तितश्च हेतू निरुद्धफलनाश समोतरन्ति
इन्द्रिय या मृदुकमध्य उदारतश्च संभेदपूर्वमपरान्त समोतरन्ति ।
अधिमुक्ति नैक विविधा शुभ आशुभतश्च चत्वारि आशीति सहस्र समोतरन्ति
धातूप्रवेश जग भावितक्लेशदृष्टी गहनं गता अनवराग्र अच्छेदतश्च ।
ये आशया अनुशया सहजप्रचारी चित्तासमोसृत निबद्ध अच्छेद तन्ति
चित्तं यथा अनुशया न च द्रव्यभूतो न च देशस्था न च विप्रवसन्ति आशया ।
दुर्हेय ध्यानविषयानभिवर्तियाश्च छेदश्च मार्ग विनयेन न चान्यमस्ति
उपपत्ति षड्गति विभक्तिप्रवेशतश्च स्नेहं च तृष्णमविद्यान्धक कर्मक्षेत्रा ।
विज्ञानबीजसहजाङ्कुरनामरूपं त्रैधातुके अनवराग्र समोतरन्ति
ते वासनागति किलेश च कर्म चित्ता सुविहारताय न पुनर्गतिसन्त कामा ।
राशित्रिभिर्नियतसत्त्व समोतरन्ति दृष्टीनिमग्नमपि ज्ञान समोतरन्ति
एवं विसरणगताः स्थित अत्र भूम्यां सर्वसत्त्व आशय यथेन्द्रिय याधिमुक्तिः ।
तेषामर्थे धर्मविभक्ति प्रकाशयन्ति प्रतिसंविदर्थकुशलाः प्रतिभा निरुक्ति
ते धर्मभाणक गती अनुप्राप्त (स्थानं) सिंहरिषभनिभा गिरिराजकल्पाः ।
अभिप्रवर्षन्ति मधुरममृतस्य वर्षं भुजगेन्द्रसागर यथा अनुपूरयन्ति
हितार्थज्ञानकुशलास्तथ धर्मतायां सर्वं निरुक्त्यनुगताः प्रतिभानप्राप्ताः ।
ते धारणी दश असंख्यसहस्र लब्धा धारन्ति धर्म यथ (सागर वर्षधारी)
एवं च धारणिविशुद्धिसमाधिप्राप्ता एकक्षणेन दशबुद्धसहस्र दृष्टाः ।
श्रवणेन धर्मरतनं च निदेशयन्ति (एकैकमण्डलविशुद्धिस्वराङ्गगताः)
व्योहारते त्रिसहस्रमहलोकधातुं परिशेष सत्त्व विविधास्त्रयरतनेभ्यः ।
तोषेन्ति सर्व यथैन्द्रिय-आशयाश्च चतुद्वीपसागर वर्षा सम मोदयन्ति
(भूयोत्तरिं गुणिनु वीर्य समारभन्ते) चित्त-अन्ति वालप्रसर अस्मि सुचेतनन्ताः ।
देशेयु धर्म सुगताः पुन नानसत्त्वं श्रुत्वा धरेम यथ सर्वद (बीजधारी)
(यावतका) जगदिह प्रविशन्ति सत्त्वाः (ते सर्व एकपरिषन्मण्डले निषण्णाश्च) ।
एषां च एकक्षणि सर्वि समोतरित्वा एकां रुतेन इमि तर्पयितव्य सर्वे
(अत्र स्थिता नरमरुत्तम धर्मराजा) भोन्ती धर्मैर्जिनसुताः परिचालयन्ति ।
रात्रिंदिवं सद जिनैः शमथानुप्राप्ता गम्भीर शान्त स्थित ज्ञानविमोक्षधीरा
(ते ऽनेकबुद्धनियुतान् पर्युपासयन्ते) भोन्ती उत्तप्त पणु (पाण्डु) चक्रवर्तःप्रभावा ।
तस्य क्लेशगहनानि प्रभा समाज्य ब्रह्मणो व द्विसहस्रिकलोकधातुः
(अत्र स्थिता गुणधरा) महब्रह्मलोके भोन्ती (त्रियानदेशनं विदितानुभावा ।
) यं चैवमारभति सर्वजगद्धिताय सर्वज्ञज्ञानुपगता गुणज्ञानप्राप्ता
(क्षेत्राप्रमाणपर्यापन्न) एका रजाग्रे क्षणि एकि (तत्तकसमाधि उ)पेन्ति धीराः ।
(दृष्ट्वा सर्वे दिशि जिनांश्च वचः शृणोन्ति) ततो विकुर्वि प्रणिधानन्विताप्रमाणाः
इत्येषा नवमी भूमिर्महाज्ञानविचारिणा । गम्भीरा दुर्दृशा सूक्ष्मा निर्दिष्टा सुगतात्मजाः
मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0