दशभूमिकसूत्र · अध्याय 8
7 दूरंगमा नाम सप्तमी भूमिः ।
उपक्रमगाथाः ।
अथ विविधरुचिरमेघान् मरुद्गणो ऽभिकिरिषु वेगप्राप्ताः ।
प्रव्याहरन्ति मधुरा गिरिवर शुभ प्रीतिसंपूर्णाः
साधु वरतीक्ष्णचित्ता गुणशतसमुपेतज्ञानवशवर्तिम् ।
वरचरणं परितुष्टं जगहितवरपुण्डरीकाणाम्
तद प्रवरमतुलमाभा महेश्वराः खेगता नरवरस्य ।
वररुचिरगन्धमेघानभिकिरि क्लेशौघमपहर्तुम्
प्रव्याहरन्ति मधुरं मरुद्गणा हर्षकररुचिरघोषाः ।
परमसुलब्धलाभाः श्रुतु यैरयु भूमिनिर्देशः
तूर्य मधुरघोषयुक्त मरुकन्याः प्रीणितमनोभिः ।
सुचरसुगतानुभावाद्वरचरिरियमीदृशी प्रोक्ता
सुमनी सुचरणश्रेष्ठः सुदान्त दमकान लोकमहितानाम् ।
अतिक्रम्य सर्वलोकं लोकचरिं दर्शयी सूक्ष्माम्
दर्शेन्ति काय विविधान् कायाकायांश्च धर्मतोपेताः ।
शमथः समितिविभक्तो भणति घोषं न चाक्षरं रवति
क्षेत्रशतमाक्रमन्ते पूजेन्ति नायकान् परमपूजियान् ।
आत्मजनितक्षेत्रसंज्ञा विधुनित्वा ज्ञानवशवर्ती
परिपाचयन्ति सत्त्वान्न चात्मपरसंज्ञ सर्वश उपेन्ति ।
शुभ संचिनन्ति प्रवरं न चापि शुभसंचयनिकेताः
रागरजदोषमोहैः पश्यित्व सर्वलोक ज्वलमानान् ।
वर्जेति सर्वसंज्ञा वीर्यं वरमारभी कृपया
मरुकन्या देवसंघाश्च पूजेन्ता वरस्वरम् ।
तूष्णींभावरताः सर्वे प्रेक्षन्ते पुरुषर्षभम्
परिषद्विप्रसन्नेयमवोचत् सुगतात्मजम् ।
सप्तम्या भूमेराकारान् निर्दिशस्व गुणाकर
उपसंहारगाथाः ।
गम्भीरज्ञान परमार्थपदानुसारी षड्भूमिनिश्चितमतिः सुसमाहितात्मा ।
प्रज्ञामुपाय युगपद्यभिनिर्हरन्तो भूम्याक्रमन्ति विदु सप्तमि चर्यश्रेष्ठाम्
शून्यानिमित्तप्रणिधीकृपमैत्रयुक्ता बुद्धानुधर्म सुगतानुग पूजयन्तः ।
ज्ञानेन शुभमहपुण्यबलेभ्यतृप्तास्तामाक्रमन्ति विदु सप्तमि भूमिदेशम्
त्रैधातुकेन अधिवास विवेकप्राप्ताः शान्तश्च क्लेशबलशान्तिजगाभिकाङ्क्षी ।
प्रतिभास माय सुपिनाद्वयधर्मचारी कृप दर्शयन्ति विदु सप्तमिमाक्रमन्ति
शोधेन्ति क्षेत्र खसमाशय निर्विकल्पा जिनलक्षनैरुपागतो ऽचलधर्मतायाम् ।
अभिलाप्यघोषविगता जगतोषणार्थं क्षणज्ञान चित्तस्य जिनान समोसरन्ति
अभासप्राप्त इति धर्म विचारयन्ति आक्रान्त भूमिप्रवरां जगदर्थकाराः ।
ते अत्र भूम्यस्थित सत्त्वचरी अनन्तान् विचिनन्ति कर्म सुगतान् नियुताप्रमाणान्
क्षेत्रांश्च नैकविधधर्मथ कल्पसंख्यान् अधिमुक्ति-आशय च चित्तविचित्रधारान् ।
त्रियाणदेशनमनन्त समोसरन्ति अस्माभि सत्त्व परिपाचयितव्यमेतत्
ये ते ज्ञाननिचिता वरमार्गप्राप्ता ईर्यापथैश्चतुर्भि प्रज्ञमुपायमुक्ताः ।
सर्वस्मि चित्तक्षणि बोधिगुणानुप्राप्ताः परिपूरयन्ति दश पारमिताप्रदेशान्
सर्वेषु मार्गकुशलस्य य एष दानं शीलं च क्लेशप्रशमं क्षममक्षतित्वम् ।
वीर्यं च भूयु अनु उत्तरि आरभन्ते मार्गे अचल्यतय ध्यानगुणान्वितानाम्
अनुत्पादक्षान्ति विरजा वरप्रज्ञ श्रेष्ठा पर्णामुपाय प्रणिधी भुयु काङ्क्षि लक्ष्मी ।
अतो ऽमर्दयित्व बलज्ञाननितीरणत्वाद् एवं खु बोधिगुण सर्वक्षणेनुपेन्ति
आलम्बनातु प्रथमा गुणपारिपूरि द्वितीया मलापनय ऊर्ध्व विबन्धच्छेदम् ।
चतुर्थाय मार्गु समताक्रिय पञ्चमाय अनुत्पाद आह्वय विदुः पुन षष्ठवृत्तिः
इह सप्तमीमुपगताः सकलं गुणानि प्रणिधान नैकविविधानभिनिर्हरन्ति ।
किं कारणं यदुत ज्ञानक्रियाभ्युपेन्ति सा अष्टमीप्रभृति सर्वविशुद्ध्युपेन्ति
दुरतिक्रमा दूरंगमा बहुस्थानकर्मा क्षेत्रान्तरद्विपथमेव यथोत्तरन्ति ।
विचरन्ति सप्तसु अलिप्त नृपो यथैव मार्गस्थिता न पुन सर्वतिक्रान्त धीराः
यद अष्टमीमुपगताः पुन ज्ञानभूमिम् अतिक्रान्त चित्तविषये स्थित ज्ञानकर्मे ।
ब्रह्मा न पेक्षति जगन्नरमानुषात्मा एवं चरन्ति विदु पद्ममिवा अलिप्ताः
अत्र स्थिता विविधक्लेशमतिक्रमन्ति तेषां न क्लेशचरि नो च क्षयो ऽनुप्राप्तिः ।
मार्गस्थिता न तद क्लेशचरिं चरन्ति संपूर्ण आशय जिनज्ञ क्षयो न तावत्
ये लौकिका विविधशिल्पक्रियाप्रयोगा आजाति सर्वविदुना स्थित शास्त्रज्ञाने ।
ध्याना अभिज्ञ बल भावयन्तो ऽभ्युपेन्ति भूयः समाधि विविधानभिनिर्हरन्ति
अतिक्रान्त श्रवकचरिं तथ प्रत्ययानां स्थित बोधिसत्त्वचरणे विदु अप्रमाणाम् ।
पूर्वे हि आशयतया इह ज्ञानताया नृपतीसुतो यथ विवृद्धबलोपपेतः
गाम्भीर्यतामुपगता भुयु आरभन्ति चित्तं निरोधुपगता न च साक्षिक्रियाः ।
यथा सागरे उपगताः स्थित यानपात्रे प्रत्यक्ष सर्व उदके न च यानहानिः
भूयो उपायबलप्रज्ञवराभ्युपेता दुर्ज्ञेयसर्वजगज्ञानक्रियागुणाढ्याः ।
पूजेन्ति बुद्ध नियुता भुयु शुद्धिभावा यथा तद्विभूषणविचित्रितु नैकरत्नैः
अत्र स्थितान विदुनां वरप्रज्ञ आभा शोषेन्ति तृष्णसलिलं यथ भास्काराभाः ।
ते अत्र भूम्युपगता वशवर्तिनश्च भोन्ति कृती कुशल ज्ञानफलोदेशैः
आकाङ्क्षमाण दृढवीर्यबलाभ्युपेताः कोटीनयूतशत बुद्धसहस्र पूर्णान् ।
पश्यन्ति सर्वदिशतासु समाहितत्वाद् भूयो ऽप्यतः प्रणिधिश्रेष्ठ गुणाप्रमेयाः
दुर्ज्ञेया सर्वलोकेन वशिप्रत्येकचारिभिः । इत्येषा सप्तमी भूमिरुपायप्रज्ञशोधना
मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0