भाषा

ENहिગુ
ग्रंथ पाठ

दशभूमिकसूत्र · अध्याय 7

7.1

6 अभिमुखी नाम षष्ठी भूमिः ।
उपक्रमगाथाः ।
चरणवर श्रुणित्वा भूमिश्रेष्ठं विदूनां गगनि सुगतपुत्रा हर्षिताः पुष्पवर्षी ।
मणिरतन उदारा आभयुक्ता विशुद्धा अभिकिर सुगतस्य साध्विति व्याहरन्तः

7.2

मरुत शतसहस्रा हर्षिता अन्तरीक्षे दिविय रुचिर चित्रा रत्नचूर्णा उदाराः ।
अभिकिर सुगतेभ्यो गन्धमाल्यानुलेपान् छत्रध्वजापताकाहारचन्द्रार्धहारान्

7.3

मरुपति वशवर्ती सर्वदेवगणेन उपरि खग पठित्वा मेघ रत्नामयानि ।
अभिकिरिषु प्रसन्नः पूजनार्थं जिनस्य साधु सुगतपुत्रा व्याहरी हृष्टचित्ताः

7.4

अमरवधुसहस्राण्यन्तरीक्षे स्थितानि गीत रुत मनोज्ञा वाद्यसंगीतियुक्ता ।
सर्वरुतस्वरेभ्यो एव शब्दा रवन्ते जिन कृतु सुमनोज्ञैः क्लेशतापस्य हन्ता

7.5

शून्य प्रकृतिशान्ता सर्वधर्मानिमित्ताः खगपथसमतुल्या निर्विकल्पा विशुद्धाः ।
गतिस्थितिविनिर्वृत्ता निष्प्रपञ्चा अशेषा तथतसम तथत्वाद्धर्मता निर्विकल्पा

7.6

यैः पुनरनुबुद्धाः सर्वधर्मेव तेषां भावि तथ अभावे इञ्जना नास्ति काचित् ।
कृप करुण जगे च मोचनार्थं प्रयुक्तास्ते हि सुगतपुत्रा औरसा धर्मजाताः

7.7

दानचरि चरन्ते सर्व हित्वा निमित्तं शीलसुधृतचित्तां आदिशान्ता प्रशान्ताः ।
जगति कृत क्षमन्ते अक्षया धर्मज्ञानी विरियबलौपेताः सर्वधर्माविविक्ताः

7.8

ध्याननयप्रविष्टा जीर्णक्लेशा विशुद्धाः सर्वविदितवस्तू आदिशून्याधिमुक्ताः ।
ज्ञानक्रियबलाढ्या नित्ययुक्ता जगार्थं ते हि सुगतपुत्राः शान्तपापा महात्माः

7.9

ईदृशा रुतसहस्र भणित्वा खे स्थिताः सुमधुरा सुरकन्याः ।
तूष्णिभूत जिनमीक्षि प्रसन्ना धर्मगौरवरता मरुकन्याः

7.10

विमुक्तिचन्द्र अब्रवीद्वज्रगर्भं विशारदम् । कीदृशाकारनिष्पत्तिः पञ्चमायामनन्तरम्

7.11

उपसंहारगाथाः ।
परिपूर्णमार्गचरणा विदु पञ्चमायां धर्मानिमित्तत अलक्षणता अजाता ।
अनुत्पाद आदिपरिशुद्ध्यतिनिष्प्रपञ्चा भावेत्व ज्ञानमति षष्ठि समाक्रमन्ति

7.12

धर्मा विविक्त अप्रतिग्रह निर्विकल्पा मायास्वभाव द्वयभावतु विप्रयुक्ता ।
अनुलोमयन्त अविलोमन्त धर्मनेत्री ज्ञानान्विताः प्रवर षष्ठि समाक्रमन्ति

7.13

तीक्ष्णानुलोमस्थित ज्ञानबलोपपेताः समुदागमं विभवु प्रेक्षिषु सर्वलोके ।
मोहान्धकारप्रभवं जगसंभवात्मा तस्यैव मोहविगमेन प्रवृति नास्ति

7.14

विचिनन्ति प्रत्ययकृतिं परमार्थशून्यां क्रिय हेतुप्रत्ययसमज्ञ क्रियाविरोधौ ।
याथावतः करकपेतक्रियां विदित्वा विचिनन्ति संस्कृत घनाभ्रसमं निरीहम्

7.15

सत्येषु ऽज्ञानु परमार्थतु सा अविद्या कर्मा च चेतनबलेन विभागप्राप्तम् ।
चित्तं निश्रित्य सहजं पुन नामरूपम् एवंमुखा भवति याव दुखस्य स्कन्धः

7.16

ते चित्तमात्र ति त्रैधातुकमोतरन्ति अपि चा भवाङ्ग इति द्वादश एकचित्ते ।
संरागु जातु अपि चित्तु प्रभावितस्तु एवं च संभवक्षयं पुन चित्तभागम्

7.17

कार्यं अविद्यद्वय कुर्वति मोहभावे मोहेभि हेतु वहते पुन चेतनायाः ।
एवं च याव जरध्वंसनस्कन्धभेदम् अनु सर्व दुःखप्रभवं क्षयतः अभावः

7.18

उच्छेदु नो भवति प्रत्ययतामविद्या नोच्छेद्यतापि कर प्रहाय संनिरोधम् ।
मोहो तेषु च उपादानं क्लेशवर्त्म कर्म भवं च अपि चेतन शेष दुःखा

7.19

मोहं तु आयतन संस्कृतदुःख तेषां स्पर्शं च वेदन सुखादुखताय दुःखा ।
शेषानमङ्गनपरिणामदुःखवृद्धिः व्युच्छेद तस्य दुःखता न हि आत्ममस्ति

7.20

अध्वेषु पूर्वं तमचेतनसंस्कृतस्य विज्ञान वेदन विवर्तति प्रत्युत्पन्नम्
अपरान्तु तेषु प्रभवो दुखसंभवेयम् आपेक्ष च्छेदु प्रसरं च निरीक्षयन्तः

7.21

मोहस्य प्रत्ययतु संभवते विबन्धा विनिबन्धनव्ययक्षये सति प्रत्ययानाम् ।
हेतोश्च मूलप्रभवं न तु हेतुभेदं व्युपरीक्षते च जिन ज्ञान स्वभावशून्यम्

7.22

अनुलोम मोहप्रभवं च प्रभावतश्च प्रतिलोमहेतु क्षयतो भव सर्वच्छेद्यम् ।
गम्भीरप्रत्ययतमस्य सतो ऽसतश्च व्युपरीक्षते दशविधं अनिकेतबुद्धिः

7.23

संधी भवाङ्गतु तथापि च कर्मस्थानम् अविभागतस्त्रिविधु वर्त्मनि पूर्वतश्च ।
त्रियहेतु दुःखविभवा उदय व्ययं च अभावतो ऽक्षयत प्रत्यय आनुलोमम्

7.24

एवं प्रतीत्यसमुत्पाद समोतरन्ति मायोपमं वितथ वेदकर्मापनीतम् ।
स्वप्नोपमं च तथता प्रतिभास चैव बालान मोहन मरीचिसमस्वभावम्

7.25

या एव भावन स शून्यत पण्डितानां रति प्रत्ययान भवते इदमानिमित्तम् ।
जानित्व जातु वितथं प्रणिधातु नास्ति अन्यत्र सत्त्वकृपया उपपद्यन्ति

7.26

एवं विमोक्षमुख भावयि ते महात्मा कृपबुद्धि भूय तथ बुद्धगुणाभिलाषी ।
संयोगसंस्कृतिकृत व्युपरीक्षमाणो नियताशयो भवति नैकगुणोपपेतः

7.27

पूर्णा सहस्र दश शून्यतये समाधी तथ आनिमित्तवरदं च विमोक्ष तायी

7.28

प्रल्हादयन्ति जगदाशय चन्द्र-आभा वहमानु वात चतुरो असंहार्यप्राप्ता ।
अतिक्रम्य मारपथमाभ जिनौरसानां प्रशमेन्ति क्लेशपरिताप दुखार्दितानाम्

7.29

इह भूमिदेशुपगता मरुताधिपास्ते भोन्ती सुनिर्मित कृतावधिमानघाती ।
यं चैव आरभिषु ज्ञानपथोपपेता असंहार्य श्रावकगती अतिक्रान्त धीराः

7.30

आकाङ्क्षमाणु सुगतात्मज वीर्यप्राप्ताः कोटीशतसहस्रपूर्ण समाधि लब्धाः ।
पश्यन्ति एकक्षणि बुद्ध दशद्दिशासु प्रतपन्ति सूर्य एव मध्यगु ग्रीष्मकाले

7.31

गम्भीर दुर्दृशा सूक्ष्म दुर्ज्ञेया जिनश्रावकैः । षष्ठी भूमिर्महात्मानामाख्याता सुगतात्मजाः

मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc