भाषा

ENहिગુ
ग्रंथ पाठ

दशभूमिकसूत्र · अध्याय 6

6.1

5 सुदुर्जया नाम पञ्चमी भूमिः ।
उपक्रमगाथाः ।
चरणमथ श्रुणित्वा भूमिश्रेष्ठां विदूनां जिनसुत परितुष्टा हर्षिता धर्महेतोः ।
गगनि कुसुमवर्षं उत्सृजन्ती उदग्राः साधु सुगतपुत्र व्याहृतं ते महात्मा

6.2

मरुपति वशवर्ती सार्ध देवागणेन स्वगगत सुगतस्य पूजानार्थं उदग्रा ।
विविधरुचिरमेघाः स्निग्ध-आभा मनोज्ञाः अभिकिर सुगतस्य हर्षिताः प्रीणिताश्च

6.3

गीतरुत मनोज्ञा वाद्यतूर्याभिनादा देववधुप्रयुक्ताः शास्तु संपूजनार्थम् ।
जिन पुन तथरूपं दर्शयन्ति स्म स्थानं सर्वरुतस्वरेभी एव शब्दः प्रयुक्तः

6.4

सुचिरेण आशयु प्रपूर्ण मुनेः सुचिरेण बोधि शिव प्राप्त जिनः ।
सुचिरेण दृष्ट नरदेवहितः संप्राप्त देवपुरि शाक्यमुनिः

6.5

सुचिरेण सागरजलाः क्षुभिताः सुचिरेण आभ शुभ मुन्नि जने ।
सुचिरेण सत्त्व सुखिताः सुचिरेण शासु श्रुत कारुणिकः

6.6

सुचिरेण संगमु महामुनिना संप्राप्त सर्वगूणपारमितः ।
मद मान दर्प प्रजहित्व तमं पूजार्हु पूजिम महाश्रमणम्

6.7

(इह पूजि कृत्व खगमार्गगता) इह पूजि कृत्व सुख नेकविधम् ।
इह पूजि कृत्व दुखसर्वक्षये इह पूजि कृत्व जिन ज्ञानवरम्

6.8

गगनोपमः परमुशुद्धु जिनु जगती अलिप्तु यथ पद्मु जले ।
अभ्युद्गतो उदधि मेरुरिव हर्षित्व चित्तु जिन पूजयथा

6.10

अथाब्रवीद्वज्रगर्भं विमुक्तिचन्द्रो विशारदः ।
पञ्चम्या भूम्य आकरान् निर्दिशस्व विशारद

6.11

उपसंहारगाथाः ।
एवं विशोधित चतुर्षु जिनचरीषु बुद्धया त्रियाध्वसमता अनुचिन्तयन्ति ।
शीलं च चित्तप्रतिपत्तितु मार्गशुद्धिः काङ्क्षाविनीत विदु पञ्चमि आक्रमन्ति

6.12

स्मृति चाप इन्द्रिय इषु अनिवर्तिताश्च सम्यक्प्रहाण हय वाहन ऋद्धिपादाः ।
पञ्च बलाः कवच सर्वपिपू-अभेब्याः शूराणिवर्ति विदु पञ्चमि आक्रमन्ति

6.13

ह्यपत्राप्यवस्त्रविदुनां शुचिशीलगन्धो बोध्यङ्गमाल्यवरध्यानविलेपनं च ।
प्रज्ञाविचारणविभूषणुपायश्रेष्ठम् उद्यानधारणित पञ्चमिमाक्रमन्ति

6.14

चतुऋद्धिपादचरणाः स्मृतिशुद्धिग्रीवाः कृपमैत्रश्रेष्ठनयना वरप्रज्ञदंष्ट्रा ।
नैरात्म्यनाद रिपुक्लेश प्रधर्षमाणा नरसिंह सम्य विदु पञ्चमिमाक्रमन्ति

6.15

ते पञ्चमीमुपगता वरभूमिश्रेष्ठां परिशुद्धमार्ग शुभमुत्तरि भावयन्ति ।
शुद्धाशया विदु जिनत्वनुप्रापणार्थी कृपमैत्रखेदविगता अनुचिन्तयन्ति

6.16

संभारपुण्युपचया तथ ज्ञान श्रेष्ठं नैका उपाय अभिरोचनभूम्य भासान् ।
बुद्धधिष्ठान स्मृतिमां मतिबुद्धिप्राप्ता चत्त्वारि सत्य निखिलाननुचिन्तयन्ति

6.17

परमार्थसत्यमपि संवृतिलक्षणं च सत्यविभागमथ सत्यनितीरणं च ।
तथ वस्तु सास्रव क्षयं अपि मार्गसत्यं यावन्तनावरणसत्य समोसरन्ति

6.18

एवं च सत्य परिमार्गति सूक्ष्मबुद्धिः न च तावदनावरणप्राप्तु विमोक्षं श्रेष्ठम् ।
ज्ञानाधिमुक्तिविपुलात्तु गुणाकराणाम् अतिभोन्ति सर्वजगतो अर्हप्रत्ययानाम्

6.19

सो एव सत्य-अभिनिर्हृत तत्त्वबुद्धिः जानाति संस्कृत मृषाप्रकृती असारम् ।
कृपमैत्र-आभ लभते सुगतान भूयः सत्त्वार्थिकः सुगतज्ञान गवेषमाणः

6.20

पूर्वापरे विदु निरीक्षतु संस्कृतस्य मोहान्धकारतमसावृत दुःखलग्ना ।
अभ्युद्धरोति जगतो दुखस्कन्धवृद्धान् नैरात्म्यजीवरहितांस्तृणकाष्ठतुल्यान्

6.21

क्लेशाद्वयेन युगपत्पुनर्भासि त्र्यध्वं छेदो दुखस्य न च अन्त समोसरन्तः ।
हन्तो प्रणष्ट जन ते ऽतिदयाभिजाता संसारस्रोत न निवर्तति निःस्वभावम्

6.22

स्कन्धालया उरगधातु कुदृष्टिशल्याः संतप्त अग्निहृदयावृत अन्धकारे ।
तृष्णार्णवप्रपतिता अवलोकनत्वात् जिनसार्थवाहविरहा दुख-अर्णवस्थाः

6.23

एवं विदित्व पुनरारभते ऽप्रमत्तो
तच्चैव आरभति सर्वजगद्विमोक्षी ।
स्मृतिमन्तु भोन्ति मतिमान् गतिमान् धृतीं च
ह्रीमांश्च भोन्ति तथ बुद्धिन प्रज्ञवांश्च

6.24

अवितृप्तु पुण्युपचये तथ ज्ञान श्रेष्ठं नो खेदवान्न शिथिलो बलमेषमाणः ।
क्षेत्रं विधाय जिनलक्षणबुद्धघोषम् अवितृप्तसर्वक्रिय सत्त्वहितार्थयुक्तः

6.25

परिपाचनाय जगतो विदु शिल्पस्थानान् लिपिमुद्रसंख्यगणधातुचिकित्सतन्त्रान् ।
भूतग्रहाविषमरोगनिवर्तनार्थं स्थापेन्ति शस्त्र रुचिरान् कृपमैत्रबुद्धी

6.26

वरकाव्यनाटकमतिं विविधप्रहर्षान् नद्योदियानफलपुष्पनिपद्यस्थानान् ।
स्थापेन्ति नेकक्रिय सत्त्वसुखापनार्थं रत्नाकरांश्च उपदर्शयि नैकरूपान्

6.27

भूमीचलं च ग्रह ज्योतिष चन्द्रसूर्यौ सर्वाङ्गलक्षणविचारणराज्यस्थानम् ।
आरूप्यध्यान तथभिज्ञ अथाप्रमाणा अभिनिर्हरन्ति हितसौख्यजगार्थकामाः

6.28

इह दुर्जयामुपजता वरप्रज्ञचारी पूजेन्ति बुद्ध नयुता शृणुवन्ति धर्मम् ।
तेषां शुभं पुनरुत्तप्यति आशयश्च स्वर्णं यथा मुसरगल्वयसंविमृष्टम्

6.29

रत्नामया ग्रहविमान् वहन्ति वाता ते येहि तेहि तु वहन्ति असंहृताश्च ।
तथ लोकधर्मि चरमान जगार्थचारी असंहार्य भोन्ति यथ पद्म जले अलिप्तम्

6.30

अत्र स्थिता तुषित ईश्वर ते कृतावी नाशेन्ति तीर्थ्यचरणान् पृथुदृष्टिस्थानान् ।
यच्चाचरन्ति कुशलं जिनज्ञानहेतोः सत्त्वान त्रात भवमो दशभिर्बलाढ्यैः

6.31

ते वीर्यमुत्तरि समारभि अरमत्ताः कोटिसहस्र सुगतानभिपूजयन्ति ।
लब्ध्वा समाधि विदु कम्पयि क्षेत्रकोटी प्रणिधीविशेषु अनुभूय गुणाकरानाम्

6.32

इत्येषा पञ्चमी भूमिर्विचित्रोपायकोटिभिः । निर्दिष्टा सत्त्वसाराणामुत्तमा सुगतात्मजाः

मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc