दशभूमिकसूत्र · अध्याय 5
4 अर्चिष्मती नाम चतुर्थी भूमिः ।
उपक्रमगाथाः ।
एवं श्रूणित्व चरणं विपुलं भूम्युत्तमं मनुरमं प्रवरम् ।
संहर्षिता जिनसुतात्तमना अभ्योकिरन्ति कुसुमेभि जिनम्
संकम्पिता लवणतोयधरा इह धर्मदेशनमुदीरयताम् ।
मरुकन्यका अभिमनोरुचिराः संगीतियुक्त वरधर्मरताः
वशवर्ति देवपतिरात्तमना मणिरत्न दिव्य सुगतस्य क्षिपी ।
वाचं अभाषि अथ एव जिनो उत्पन्न अर्थ गुणपारगतो
किं कारणं तथ हि धर्मवरं संबोधिसत्त्वचरणं परमम् ।
भूमिर्विदू न इयमद्य श्रुता यस्याश्रवो दुर्लभ कल्पशतैः
भूयः प्रभाष नरदेवहिता चर्यावरां जिनसुतान् विदू ।
श्रोष्यन्ति ते मरुतसंघगणा भूतं विनिश्चयमनन्यपदम्
विमुक्तिचन्द्रः पुनर्वीरो आलपी सुगतात्मजम् ।
चतुर्थी संक्रमन्तानां गोचरं भण उत्तमम्
उपसंहारगाथाः ।
परिकर्मिता तृतीयभूमिप्रभंकराय सत्त्वचर्यलोक तथ धर्म विचार्यमाणः ।
आकाशधातु मनधातु त्रयश्च धातु अधिमुक्ति आशय विशुद्धि समाक्रमन्ति
सहप्राप्तु अर्चिष्मति भूमि महानुभावः संवृत्तु शास्तु कुलु भूयु विवर्तियत्वे ।
अभेद्य बुद्धरतने तथ धर्मसंघे उदयव्ययस्थिति निरीहक प्रेक्षमाणः
लोकप्रवृत्ति क्रियकर्म भवोपपत्तिं संसारनिर्वृतिविभावन क्षेत्रसत्त्वान् ।
धर्माञ्च पूर्वमपरान्त क्षयानुत्पादं संवृत्तु भावयति शास्तु कुलानुवर्ती
सो एषु धर्मु समुपेतु हितानुकम्पी भावेति कायमपि वेदन चित्तधर्मान् ।
अध्यात्मबाह्युभयथा विदु भावयाति स्मृत्योपस्थानभावन निकेतवर्जिता
पापक्षयात्कुशलधर्मविवर्धिता च सम्यक्प्रहाण चतुरो विदु भावयन्ति ।
चतुऋद्धिपाद बल इन्द्रिय भावयन्ति बोध्यङ्गरत्न रुचिरं तथ मार्ग श्रेष्ठम्
भावेन्ति तान् जनयतां समवेक्ष्य बुद्धिम् उपस्तम्भयन्ति प्रणिधिं कृतपूर्वमैत्राः ।
सर्वज्ञज्ञानमभिप्रार्थन बुद्धक्षेत्रं बलश्रेष्ठमुत्तमपथं अनुचिन्तयन्तः
वैशारदं अपि च धर्म अहार्य शास्तुः वरवुद्धघोषमभिप्रार्थयमान धीराः ।
गम्भीरमार्गरतनं च विमोक्षस्थानं महतामुपाय समुदागम भावयन्ति
सत्कायदृष्टिविगताश्च द्विषष्टिदृष्टी अत्तात्तमीयविगतास्तथ जीवलाभम् ।
स्कन्धास्तु द्वार तथ धातुनिकेतस्थानं सर्वप्रहाण विदुषं चतुथाय भूम्याम्
सो यानिमानि सुगतेन विवर्णितानि कर्माणि क्लेशसहजानि अनर्थकानि ।
तानि प्रहाय विदु आशयतो विशुद्धा धर्मारभन्ति कुशलं जगûतायणार्थम्
सुस्निग्धचित्त भवती विदु अप्रमत्तो मृदुचित्तु सार्जव हितासुख-आवहश्च ।
अपरिक्लिष्टश्च परिमार्गति उत्तमार्थं ज्ञानाभिषेकमभिलाषि जगार्थचारी
गुरुगौरवेषुपगतः प्रतिपत्तिकामो भवते कृतज्ञ सुमनाश्च अकूहकाश्च ।
निर्मायतागहन आशयसूरतश्च अविवर्त्यवीर्यु भवते समुदानयन्तः
तस्यात्र भूमि रुचिराय प्रतिष्ठितस्य अध्याशयं अपि च शुद्धमुपेति धर्मम् ।
अधिमुक्ति तप्यति विवर्धति शुक्लधर्मो मलकल्मषं विमति शंशय सर्व यान्ति
अत्र स्थिता नरवरर्षभ बोधिसत्त्वाः सुगताननेकनयुतानभिपूजयन्ति ।
शृण्वन्ति धर्म यथ शासनि प्रव्रजन्ति असंहार्य शक्य कृतकाञ्चनभूषणं वा
अत्र स्थितान विदुना गुणमाशयं च
ज्ञानं उपाय चरणं च विशुद्धिमार्गः ।
नो शक्यु मारनयुतेभि निवर्तनाय रत्नप्रभेव यथ वर्षजलैरहार्या
अत्र स्थिता नरमरुद्गणपूजनार्हा भोन्ती सुयामपतिरीश्वर धर्मचारी ।
सत्त्वानि दृष्टिगहनाद्विनिवर्तयन्ति संभारयन्ति कुशला जिनज्ञानहेतोः
विर्योपपेत शतकोटि मरर्षभाणां पश्यन्त्यनन्यमनसः सुसमाहितत्वात् ।
तत उत्तरिं बहुकल्पमभिनिर्हरन्ति ज्ञानाकरा प्रणिधिश्रेष्ठ गुणार्थचारी
चतुर्थी इतियं भूमिर्विशुद्धा शुभचारिणी । गुणार्थज्ञानयुक्तानां निर्दिष्टा सुगतात्मजाः
मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0