दशभूमिकसूत्र · अध्याय 4
3 प्रभाकरी नाम तृतीया भूमिः ।
उपक्रमगाथाः ।
एवं श्रुणित्व चरिभूमिमुत्तमां बोधिसत्त्वविषये अचिन्तियाम् ।
हर्षित जिनसुताः सगौरवाः पुष्पमेघ नभतः प्रमुञ्चिषुः
साधु साधु गिरिसारसाकय (?) देशितो विदुन शीलसंवरः ।
सर्वसत्त्वकरुणाय आशयो भूमिश्रेष्ठ द्वितियाय गोचरः
भूततत्त्व वितथामनन्यथा बोधिससत्त्वचरणं मनोरमम् ।
सर्वलोकहितशौख्यचिन्तना देशितं तु परमप्रभास्वरम्
भूयु भूयु नरदेवपूजितां भूमिश्रेष्ठ तृतियामुदाहर ।
धर्मज्ञानक्रियमुक्ति सूचय यादृशो ऽनुभव तादृ(शो) गोचरः
दानशीलचरणं महर्षिणां क्षान्तिवीर्यशमप्रज्ञुपायताम् ।
मैत्रश्रेष्ठ करुणाय मार्गणं भाषध्वं जिनचरीविशोधनम्
विमुक्तिचन्द्र उवाच वज्रगर्भविशारदम् । तृतीया संक्रमन्तानामाशयं भण सूरण
उपसंहारगाथाः ।
ते शुद्ध-आशय गुणाकर तीक्ष्णचित्ता निर्विण्ण रागविगता अनिवर्तियाश्च ।
दृढचित्त तप्तधृतियुक्ति उदारवेगा माहात्म्यताशयविदू तृतियाक्रमन्ति
अत्र स्थिता विदु प्रभाकरिभूमिदेशे दुःखं अनित्यमशुचिं च प्रलोपधर्मम् ।
अचिरस्थिताक क्षणिकं च निरोधकं च विचिनन्ति संस्कृतगतीकमनागतीकम्
ते रोगभूतसहशोकपरदेवनं च सोपायसं च प्रिय अप्रियतानुबद्धम् ।
दुःखदौर्मनस्यनिलयं ज्वलिताग्निकल्पं पश्यन्ति संस्कृतमनन्त समुज्ज्वलन्ति
उद्विग्न सर्व त्रिभवे अनपेक्षचित्ता ज्ञानाभिलाष सुगतानमनन्यबुद्धिः ।
अविचिन्तियं अतुलियं असमन्तपारं संपश्यते निरुपताप जिनान ज्ञानम्
ते बुद्धज्ञान निरुपद्रवमीक्षमाणा अत्राण नाथरहिता व्रजते चरन्ति ।
नित्यं दरिद्र त्रिभिरग्निभि संप्रदीप्ता भवचारके दुखशतैर्विनिबद्धचित्ताः
क्लेशावृताश्च अविलोकन छन्दहीनाः सुगतान धर्मरतनानुप्रनष्ट बालाः ।
संसारस्रोत-अनुवाहिन मोक्षत्रस्ता मे त्रायितव्य दृढ वीर्य समारभन्ते
ज्ञानाभिलाष अनपेक्ष जगार्थचारी व्युपरीक्षते कतम हेतु जगस्य मोक्षे ।
नान्यत्र नावरणज्ञान तथागतानां ज्ञानं च प्रज्ञप्रभवं सुगताननन्तम्
प्रज्ञा श्रुतात्तु इति चिन्तयि बोधिसत्त्वो ज्ञात्वा तमारभति वीर्य श्रुतार्थचारी ।
रात्रिंदिवं श्रवणहेतु अनन्यकर्मा अर्थार्थिको भवति धर्मपरायणश्च
मणिमुक्तिरत्ननिलयान् प्रियबान्धवांश्च राज्यं अनन्त विविधान् पुर स्थानश्रेष्ठान् ।
भार्यासुतांश्च परिवार मनोनुकूलान् अनपेक्षचित्तु त्यजते विदु धर्महेतोः
शिर हस्तपाद नयन स्वकमात्ममांसं जिह्वा च दंष्ट्र श्रव नासिक शोणितं च ।
हृदयं तुपाद्य प्रिय मज्ज परित्यजन्ति ना दुष्करेतमथ दुष्कर यच्छृणोति
यदि कश्चिदेनमुपगम्य वदेय्य एवं यदि अग्निगर्भ प्रपते ज्वलितापि घोरम् ।
प्रापिष्य धर्मरतनं सुगतोपनीतं श्रुत्वा अदीनमनसः प्रपते गुणार्थी
एकस्य धर्मपद अर्थ सुमेरुमूर्ध्ना त्रिसहस्र अग्निरुचितं अपि ब्रह्मलोकात् ।
सूदूर्लभा इमि जिनस्य उदारबोधिः ये मानुष्येण सुख लभ्यति एवरूपम्
यावत्तरेण पवरर्षिण ज्ञानलाभस्तावत्तरं दुखमवीचिकमुत्सह्यमि ।
किं वा पुनर्विविधमानुषदुःखस्कन्धं हन्ताभ्युपेमि वरधर्मिपदार्थिदुःखम्
धर्मं च श्रुत्व पुन योनिषु चिन्तयाति ध्यानाप्रमाण चतुरश्च तथा अरूप्या ।
पञ्चाप्यभिज्ञ प्रवरा अभिनिर्हरन्ति ना चापि तेषु वशिता उपपद्य याति
अत्र स्थिता गुणधरा बहुबुद्धकोट्यः पूज्यन्ति निश्चितमना शृणुवन्ति धर्मम् ।
तनुभूत्व मिथ्यपगताः परिशुद्धयन्ति स्वर्णे यथा विगतदोष प्रमाणतुल्यम्
अत्र स्थिता गुणधरास्त्रिदशाधिपत्यं कारेन्ति ईश्वर निवर्तितु कामरागाः ।
मरुसंघ नेकविविधान् कुशलान मार्गे स्थापेन्त्यनन्यमन बुद्धगुणाभिलाषे
अत्र स्थिता जिनसुता विरियारभन्ते लब्ध्वा समाधिन सहस्रशतं अनूनम् ।
पश्यन्ति बुद्धवर लक्षणचित्रिगात्रां भूयो अतः प्रणिधिश्रेष्ठ गुणाप्रमाणाः
इत्येषा तृतिया भूमिनिर्दिष्टा सुगतात्मजाः । सर्वलोकहितैषीणां बोधिसत्त्वाननुत्तमा
मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0