भाषा

ENहिગુ
ग्रंथ पाठ

दशभूमिकसूत्र · अध्याय 3

3.1

2 विमला नाम द्वितीया भूमिः ।
उपक्रमगाथाः ।
श्रुत्वैतदुत्तमं स्थानं भूम्याः श्रेष्ठं मनोरमम् ।
प्रसन्नमनसंकल्पहर्षिताः सुगतात्मजाः

3.2

अभ्युत्थिता आसनेभ्य अभ्युद्गम्य खगपथे ।
अभ्योकिरन्ति कुसुमैः साध्विति व्याहरी गिरा

3.3

साधु साधु महाप्राज्ञ वज्रगर्भ विशारद ।
यन्निर्दिष्टा त्वया भूमि बोधिसत्त्वान या चरी

3.4

पर्षद्धि विप्रसन्ना तु विमुक्तिचन्द्रः पृच्छति ।
उत्तरिं कीर्तिया भूमिं द्वितीयां सुगतात्मजाः

3.5

कीदृशा मनसंकल्पा द्वितीयामभिलक्षतः ।
प्रव्याहर महाप्राज्ञ श्रोतुकामा जिनात्मजाः

3.6

उपसंहारगाथाः ।
ते मार्दवार्जवमृदूकर्मणीयचित्ताः कल्याण-आशय दमाशयताभ्युपेताः ।
संसर्गपेक्षविगताश्च उदारबुद्धि माहात्म्य आशयविद् द्वितीयाक्रमन्ति

3.7

अत्र स्थिता गुणधराः कुशलोपपेताः प्राणातिपातविगता अविहिंसचित्ताः ।
अदत्तदानपगताः परदारतां च सत्यान्विता अपिशुनः पुरुषप्रधानाः

3.8

परभोगभिद्यविगता विदु मैत्रचित्ताः सम्यक्पथे उपगता अशठज्ञकाश्च ।
निर्माणकायग्रहणाश्च सुपेशलाश्च रक्षन्ति शास्तुशरणं सद अप्रमत्ताः

3.9

दुःखानि यानि निरये तथ तिर्यग्योनौ यमशासने ज्वलित-आश्रयनित्युपेताः ।
सर्वे ति पापपतिताक्षलाः प्रभोन्ति हन्ता विवर्जिय उपेमहि सत्यधर्मम्

3.10

आदौ च कृत्व मनुजानुपपत्तिमिष्टां यावद्भवाग्रमरणाशयध्यानु शिक्षाम् ।
प्रत्येकयानमथ श्रावकबुद्धयानं सर्वे इतो दशभि शुक्लपथैः प्रभूतम्

3.11

एवं विदित्व सततं विदु अप्रमत्ताः शीलेषु संस्थित परानपि स्थापयन्ति ।
भूयोत्तरे करुण-आशयताभ्युपेताः सत्त्वान् विदित्व दुखितान् कृप संजनेन्ति

3.12

हन्तो विदृष्टिपतिता इमि बालबुद्धी क्रोधोपनाहद्रुतचित्त विवादप्राप्ताः ।
सततं अतृप्त विषये भुयु प्रार्थयन्ति त्रिनिदान सत्त्व परिमोचयितव्य एते

3.13

मह-अन्धकारतमसावृत मोहछन्नाः कान्तारमार्गपतिता महदृष्टिजाले ।
संसारपञ्जरगता रिपु धर्षयन्ति मोक्षाम्यहं नमुचिपञ्जरमध्यप्राप्तान्

3.14

क्लेशोर्मिभिह्रियत ओघचतुर्निमग्ना त्रैधातुके दुखशतैः परिपीड्यमानाः ।
स्कन्धालयाभ्युपगता वृत-आत्मसंज्ञा तेषार्थि युज्यमि अहं दुखमोचनार्थम्

3.15

अवसृज्य श्रेष्ठप्रवरं इम बुद्धज्ञानं सति एव निःसरणि हीनमतिं जनेन्ति ।
स्थापेमि तान् विमलज्ञानि तथागतानां वीर्यारभन्ति अतुलं विदु बोधिहेतोः

3.16

अत्र स्थिता गुणशतोपचिता महर्षि पश्यन्ति नैकसुगतानपि पूजयन्ति ।
तेषां शुभं भुयु उत्तप्यति कल्पकोट्यां कासीसकाञ्चनवरं च यथा निक्षिप्तम्

3.17

अत्र स्थिता जिनसुता नृपचक्रवर्ति भूत्वा प्रणेन्ति दशभिः कुशलेभि सत्त्वान् ।
यच्चैव संचि शुभसंचय संचिनन्ति त्राता भवेम जगतो दशभिर्बलाढ्यैः

3.18

आकाङ्क्षमाण विजहित्व च रजभोगान् प्रव्रज्य शासनवरे उपगम्य धीराः ।
वीर्यान्विता लभिय श्रेष्ठवरं समाधिं बुद्धा सहस्र परिपूर्ण क्षेणे दृशन्ति

3.19

एवंविधा गणनया भुयु अन्य नेका आदर्शयन्ति वृषभी स्थित अत्र भूमौ ।
अत उत्तरि प्रणिधिज्ञानवराभ्युपेता नैका विकुर्वितविधौ विनयन्ति सत्त्वान्

3.20

इत्येषा द्वितिया भूमिर्निर्दिष्टा सुगतात्मजाः । सर्वलोकहितैषीणां बोधिसत्त्वाननुत्तमा

मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc