भाषा

ENहिગુ
ग्रंथ पाठ

दशभूमिकसूत्र · अध्याय 11

11.1

10 धर्ममेघा नाम दशमी भूमिः ।
उपक्रमगाथाः ।
एव श्रुत्व चरणमनुत्तमं शुद्धवासनयुताः प्रहर्षिताः ।
अन्तरीक्षस्थित प्रीणितेन्द्रियाः पूजयन्ति सुगतं तथागतम्

11.2

बोधिसत्त्वनयुता अचिन्तिया अन्तरीक्षगतिप्राप्तिहर्षिताः ।
गन्धमेघ अतुलान् मनोमयान् धूपयन्ति सत्त्वक्लेशघातिनः

11.3

देवराज वशवर्ति प्रीणितो अन्तरीक्ष त्रिसहस्रकोटिभिः ।
वस्त्रकैः समकरी सगौरवा भ्रामयन्ति रुचिरान् वरान् शतम्

11.4

अप्सरा बहव प्रीणितेन्द्रियाः पूजयन्ति सुगतं सगौरवाः ।
तूर्यकोटिनयुताः प्रवादिता एवरूप रवुयुक्त रावतः

11.5

एकक्षेत्र सुगतो निषण्णकः सर्वक्षेत्रि प्रतिभास दर्शयी ।
कायकोटि विविधा मनोरमा धर्मधातुविपुलान् स्फरित्वन

11.6

एकरोमु सुगतस्य रश्मयो निश्चरन्ति जगक्लेश शाम्यति ।
शक्यु (क्षेत्ररजधातु ऽपि) क्षयी तस्य रश्मिगणना त्वजानितुम्

11.7

केचि बुद्धवरलक्षणं विदुः पश्ययन्ति वरचक्रवर्तिनः ।
अन्यक्षेत्रवरचर्य उत्तमां शोधयन्ति द्विपदेन्द्र दृश्यते

11.8

(तुषितायतनप्राप्त नायको) च्यवमानु चंक्रमाण दृश्यते ।
गर्भप्राप्त बहुक्षेत्रकोटिषु जायमान क्वचि क्षेत्र दृश्यते

11.9

निष्क्रमन्त जगहेतु नायको बुध्यमान पुन बोधिमुत्तमाम् ।
(धर्मचक्रवर्तनिर्वृतागतो) दृश्यमान बुद्धक्षेत्रकोटिषु

11.10

मायकार यथ विद्यशिक्षितो जीविकार्थ बहुकाय दर्शयी ।
तद्व शास्तु वरप्रज्ञशिक्षितो सर्वकायभिनिहर्तु (सत्त्वन)

11.11

शून्य शान्त गतधर्मलक्षणा अन्तरीक्षसमप्राप्तधर्मताम् ।
बुद्धशास्तु परमार्थतत्त्वतं दर्शयी प्रवरबुद्धगोचरम्

11.12

यथ स्वभावु सुगतानगोचरा सर्वसत्त्व तथ प्राप्त धर्मताम् ।
लक्षलक्ष समलक्ष तादृशा सर्वधर्म परमार्थलक्षणाः

11.13

ये तु ज्ञान सुगतान अर्थिंके कल्पकल्पपरिकल्पवर्जितम् ।
भावभावसमभावबुद्धयः क्षिप्र भेष्यति नरेश उत्तमाः

11.14

ईदृशान् रुतसहस्रान् भणित्व मधुरस्वराः ।
मरुकन्या जिनं लोक्य तूष्णीभूताः शमे रताः

11.15

प्रसन्नं पर्षदं ज्ञात्वा मोक्षचन्द्रो विशारदः ।
वज्रगर्भं त्रिधापृच्छज्जिनपुत्रं विशारदम्

11.16

दशमी संक्रमन्तानां कीदृशं गुणगोचरम् ।
निमित्तप्रातिहार्यांश्च सर्वमाख्या(हि) परिक्रम

11.17

अथ खलु वज्रगर्भो बोधिसत्त्वो दशदिशं व्यवलोक्य सर्वावतीं पर्षदं व्यवलोक्य धर्मधातुं च व्यवलोकयन् सर्वज्ञताचित्तोत्पादं च संवर्णयन् बोधिसत्त्वविषयमादर्शयन् चर्याबलं परिशोधयन् सर्वाकारज्ञतासंग्रहमनुव्याहरन् सर्वलोकमलमपकर्षयन् सर्वज्ञज्ञानमुपसंहरन् अचिन्त्यज्ञाननिर्यूहमादर्शयन् बोधिसत्त्वगुणान् प्रभावयन् एवमेव भूम्यर्थं प्ररूपयमाणो बुद्धानुभावेन तस्यां वेलायामिमा गाथा अभाषत -
उपसंहारगाथाः ।
शमदमनिरतानां शान्तदान्ताशयानां खगपथसदृशानामन्तरीक्षसमानाम् ।
खिलमनविधुतानां मार्गज्ञाने स्थितानां शृणुत चरिविशेषान् बोधिसत्त्वान श्रेष्ठान्

11.18

कुशलशतसहस्रं संचिया कल्पकोट्या बुद्धशतसहस्रान् पूजयित्वा महर्षीन् ।
प्रत्ययजिनवशींश्चापूजयित्वा अनन्तान् सर्वजगतहिताया जायते बोधिचित्तम्

11.19

व्रततपतपितानां क्षान्तिपारंगतानां हिरिशिरिचरितानां पुण्यज्ञानोद्गतानाम् ।
विपुलगतिमतीनां बुद्धज्ञानाशयानां दशबलसमतुल्यं जायते बोधिचित्तम्

11.20

याव जिन त्रियध्वा पूजनार्थाय पूजं खगपथपरिणामं शोधनं सर्वक्षेत्रम् ।
सम्यगनुगतार्थे यावता सर्वधर्मान् मोक्ष जगत अर्थे जायते बोधिचित्तम्

11.21

प्रमुदितसमुतीनां दानधर्मारतानां सकलजगहितार्थे नित्यमेवोद्यतानाम् ।
जिनगुणनिरतानां सत्त्वरक्षाव्रतानां त्रिभुवनहितकार्ये जायते बोधिचित्तम्

11.22

अकुशलविरतानां शुद्धशीलाव्रतानां व्रतनियमरतानां शान्तसौम्येन्द्रियाणाम् ।
जिनशरणगतानां बोधिचर्याशयानां त्रिभुवनहितसाध्यं जायते बोधिचित्तम्

11.23

अनुगतकुशलानां क्षान्तिसौरत्यभाजां विदितगुणरसानां त्यक्तमानोत्सवानाम् ।
निहितशुभमतीनां दान्तुसौम्याशयानां सकलहितविधाने जायते बोधिचित्तम्

11.24

प्रचलितशुभकार्या धीरवीर्योत्सहा ये निखिलजनहितार्थे प्रोद्ययामान सिंहाः ।
अविरतगुणसाध्या निर्जितक्लेशसंघा झटिति मनसि तेषां जायते बोधिचित्तम्

11.25

सुसमवहितचित्ता ध्वस्तमोहान्धकारा विगलितमदमाना त्यक्तसंक्लिष्टमार्गाः ।
शमसुखनिरता ये त्यक्तसंसारसङ्गा झटिति मनसि तेषां जायते बोधिचित्तम्

11.26

विमलखसमचित्ता ज्ञानविज्ञानविज्ञा निहतनमुचिमारा वान्तक्लेशाभिमानाः ।
जिनपदशरणस्था लब्धतत्त्वार्थका ये सपदि मनसि तेषां जायते बोधिचित्तम्

11.27

त्रिभुवनशिवसाध्योपायविज्ञानधीराः कलिबलपरिहारोपायविद्यर्द्धिमन्तः ।
सुगतगुणसमीहा ये च पुण्यानुरागाः सपदि मनसि तेषां जायते बोधिचित्तम्

11.28

त्रिभुवनहितकामा बोधिसंभारपूर्ये प्रणिहितमनसा ये दुष्करे ऽपि चरन्ति ।
अविरतशुभकर्मप्रोद्यता बोधिसत्त्वाः सपदि मनसि तेषां जायते बोधिचित्तम्

11.29

दशबलगुणकामा बोधिचर्यानुरक्ता विजितकलिबलौघास्त्यक्तमानानुषङ्गाः ।
अनुगतशुभमार्गा लब्धधर्मार्थकामा झटिति मनसि तेषां जायते बोधिचित्तम्

11.30

इति गणितगुणांशा बोधिचर्याश्चरन्तु जिनपदप्रणिधानाः सत्समृद्धिं लभन्तु ।
त्रिगुणपरिविशुद्धा बोधिचित्तं लभन्तु त्रिशरणपरिशुद्धा बोधिसत्त्वा भवन्तु

11.31

दश पारमिताः पूर्य दशभूमीश्वरो भवेत् ।
भूयो ऽपि कथ्यते ह्येतच्छ्रुणुतैवं समासतः

11.32

बोधिचित्तं यदासाद्य संप्रदानं करोति यः ।
तदा प्रमुदितां प्राप्तो जम्बूद्वीपेश्वरो भवेत्

11.33

तत्रस्थः पालयन् सत्त्वान् यथेच्छाप्रतिपादनैः ।
स्वयं दाने प्रतिष्ठित्वा परांश्चापि नियोजयेत्

11.34

सर्वान् बोधौ प्रतिष्ठाप्य संपूर्णा दानपारगः ।
एतद्धर्मानुभावेन संवरं समुपाचरेत्

11.35

सम्यक्शीलं समाधाय संवरकुशली भवेत् ।
ततः स विमलां प्राप्तश्चातुर्द्वीपेश्वरो भवेत्

11.36

तत्रस्थः पालयन् सत्त्वान् अकुशलनिवारणैः ।
स्वयं शीले प्रतिष्ठित्वा परांश्चापि नियोजयेत्

11.37

सर्वान् बोधौ प्रतिष्ठाप्य संपूर्णशीलपारगः ।
एतद्धर्मविपाकेन क्षान्तिव्रतमुपाश्रयेत्

11.38

सम्यक्क्षान्तिव्रतं धृत्वा क्षान्तिभृत्कुशली भवेत् ।
ततः प्रभाकरीप्राप्तस्त्रयस्त्रिंशाधिपो भवेत्

11.39

तत्रस्थः पालयन् सत्त्वान् क्लेशमार्गनिवारणैः ।
स्वयं क्षान्तिव्रते स्थित्वा परांश्चापि नियोजयेत्

11.40

सत्त्वान् बोधौ प्रतिष्ठाप्य क्षान्तिपारंगतो भवेत् ।
एतत्पुण्यविपाकैः स वीर्यव्रतमुपाश्रयेत्

11.41

सम्यग्वीर्यं समाधाय वीर्यभृत् कुशली भवेत् ।
ततश्चार्चिष्मतीप्राप्तः सुयामाधिपतिर्भवेत्

11.42

तत्रस्थः पालयन् सत्त्वान् कुदृष्टिसंनिवारणैः ।
सम्यग्दृष्टौ प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः

11.43

स्वयं वीर्यव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य वीर्यपारंगतो भवेत्

11.44

एतत्पुण्यविपाकैश्च ध्यानव्रतं समाश्रयेत् ।
सर्वक्लेशान् विनिर्जित्य समाधिसुष्ठितो भवेत्

11.45

सम्यग् ध्यानं समाधाय समाधिकुशली भवेत् ।
ततः सुदुर्जयाप्राप्तः संतुषिताधिपो भवेत्

11.46

तत्रस्थः पालयन् सत्त्वान् तीर्थ्यमार्गनिवारणैः ।
सत्यधर्मं प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः

11.47

स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत्

11.48

एतत्पुण्यविपाकैश्च प्रज्ञाव्रतमुपाश्रयेत् ।
सर्वमारान् विनिर्जित्य प्रज्ञाभिज्ञसमृद्धिमान्

11.49

सम्यक्प्रज्ञां समाधाय स्वभिज्ञाकुशली भवेत् ।
ततश्चाभिमुखीप्राप्तः सुनिर्मिताधिपो भवेत्

11.50

तत्रस्थः पालयन् सत्त्वान् अभिमाननिवारणैः ।
शून्यतासु प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः

11.51

स्वयं प्रज्ञाव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य प्रज्ञापारंगतो भवेत्

11.52

एतत्पुण्यविपाकैश्च स सुपायव्रतं चरेत् ।
सर्वदुष्टान् विनिर्जित्य सद्धर्मकुशली भवेत्

11.53

स सुपायविधानेन सत्त्वान् बोधौ नियोजयेत् ।
ततो दूरंगमाप्राप्तो वशवर्तीश्वरो भवेत्

11.54

तत्रस्थः पालयन् सत्त्वानभिसमयबोधनैः ।
बोधिसत्त्वनियामेषु प्रतिष्ठाप्य प्रबोधयन्

11.55

तत्रोपाये स्वयं स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ह्युपायपारगो भवेत्

11.56

एतत्पुण्यानुभावैश्च सुप्रणिधिमुपाश्रयेत् ।
मिथ्यादृष्टिं विनिर्जित्य सम्यग्दृष्टिकृती बुधः

11.57

सुप्रणिहितचित्तेन सम्यग्बोधौ प्रतिष्ठितः ।
ततश्चाप्यचलाप्राप्तो ब्रह्मा साहस्रिकाधिपः

11.58

तत्रस्थः पालयन् सत्त्वान् त्रियानसंप्रवेशनैः ।
लोकधातुपरिज्ञाने प्रतिष्ठाप्य प्रबोधयन्

11.59

सुप्रणिधौ स्वयं स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य प्रणिधिपारगो भवेत्

11.60

एतत्पुण्यानुसारैश्च बलव्रतमुपाश्रयेत् ।
सर्वदुष्टान् विनिर्जित्य संबोधौ कृतनिश्चयः

11.61

सम्यग्बलसमुत्साहैः सर्वतीर्थ्यान् विनिर्जयेत् ।
ततः साधुमतीप्राप्तो महाब्रह्मा भवेत् कृती

11.62

तत्रस्थः पालयन् सत्त्वान् बुद्धयानोपदर्शनैः ।
सत्त्वाशयपरिज्ञाने प्रतिष्ठाप्य प्रबोधयन्

11.63

स्वयं बले प्रतिष्ठित्वा परंश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य बलपारंगतो भवेत्

11.64

एतत्पुण्यविपाकैश्च ज्ञानव्रतमुपाश्रयेत् ।
चतुर्मारान् विनिर्जित्य बोधिसत्त्वो गुणाकरः

11.65

सम्यग् ज्ञानं समासाद्य सद्धर्मकुशली भवेत् ।
धर्ममेघां ततः प्राप्तो महेश्वरो भवेत् कृती

11.66

तत्रस्थः पालयन् सत्त्वान् सर्वाकारानुबोधनैः ।
सर्वाकारवरे ज्ञाने प्रतिष्ठाप्य प्रबोधयन्

11.67

स्वयं ज्ञाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ज्ञानपारंगतो भवेत्

11.68

एतत्पुण्यानुभावैश्च दशभूमीश्वरो जिनः ।
सर्वाकारगुणाधारः सर्वज्ञो धर्मराड् भवेत्

11.69

इति मत्वा भवद्भिश्च संबोधिपदलब्धये ।
दशपारमितापूर्यै चरितव्यं समाहितैः

11.70

तथा बोधिं शिवां प्राप्य चतुर्मारान् विजित्य च ।
सर्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्स्यथ

11.71

एतत्च्छ्रुत्वा परिज्ञाय चरध्वं बोधिसाधने ।
निर्विघ्नं बोधिमासाद्य लभध्वं सौगतां गतिम्

मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc