भाषा

ENहिગુ
ग्रंथ पाठ

दशभूमिकसूत्र · अध्याय 12

12.1

11 परीन्दनापरिवर्तः ।
उपक्रमः ।
एतास्ताः खलु पुनर्भो जिनपुत्रा दश बोधिसत्त्वभूमयः समासतो निर्दिष्टाः सर्वाकारवरोपेतसर्वज्ञज्ञानानुगता द्रष्टव्याः । तस्यां वेलायामयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्राकम्पत् । विविधानि च पुष्पाणि वियतो न्यपतन् । दिव्यमानुष्यकानि च तूर्याणि संप्रवादितान्यभूवन् । अनुमोदनाशब्देन च यावदकनिष्ठभुवनं विज्ञप्तमभूत् ॥
अथ तस्मिन् समये भगवांस्तान् विमुक्तिचन्द्रप्रमुखान् सर्वान् बोधिसत्त्वानामन्त्र्य एवमादिशत् - इमामहं मार्षा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि परमया परिन्दनया । तद्यूयं सर्वे स्वयं चैवमिमं धर्मपर्यायं धारयत, परेभ्यश्च विस्तरेण संप्रकाशयत । संक्षेपान्मार्षा यदि तथागतः कल्पस्थितिकेनायुःप्रमाणेन रात्रिंदिवमधितिष्ठमानो ऽस्य धर्मपर्यायस्य वर्णं भाषते, नैवास्य धर्मपर्यायस्य वर्णपर्यन्तो भवेत्, न च तथागतप्रतिभानक्षयो भवेत् । यथा तथागतशीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनमप्रमाणमपर्यन्तम्, एवमेव मार्षा य इमं धर्मपर्यायमुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति लिखिष्यति लिखापयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति, पर्षन्मध्ये च विस्तरेण संप्रकाशयिष्यति - अनेन चित्तेन कथममी सत्त्वा एवमुदारधर्मस्य लाभिनः स्युरिति श्रद्धया सत्कृत्य श्रावयिष्यन्ति श्रोष्यन्ति च योनिशो मनसि भावयिष्यन्ति च । पुस्तकलिखितं कृत्वा गृहे धारयिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति । अमात्सर्यचित्ततया अस्य धर्मपर्यायस्य वर्णं भाषित्वा लिखनाय वाचनाय स्वाध्ययनाय पूजनाय दर्शनाय दास्यति, तेषामपि नास्ति पुण्यपर्यन्तः ॥
अथ खलु भगवानस्यैव धर्मपर्यायस्य भूयस्या मात्रया अनुपरिन्दनार्थं तस्यां वेलायामिमा गाथा अभाषत -
सत्त्वा दृष्टा ये मया बुद्धदृष्ट्या ते ऽर्हन्तः स्युः शारिपुत्रेण तुल्याः ।
तां चेत्कश्चित्पूजयेत्कल्पकोट्या तुल्यान् गङ्गावालुकाभिर्यथैव

12.2

प्रत्येकबुद्धाय तु यश्च पूजां कुर्यादहोरात्रमपि प्रहृष्टः ।
माल्यप्रकारैश्च तथाम्बरैश्च तस्मादयं पुण्यकृतो विशिष्टः

12.3

सर्वे ऽपि प्रत्येकजिना यदि स्युस्तान् पूजयेत् कश्चिदिहाप्रमत्तः ।
पुष्पैश्च गन्धैश्च विलेपनैश्च कल्पाननेकान् शयनान्नपानैः

12.4

एकस्य यश्चैव तथागतस्य कुर्यात् प्रणाममपि चैकवारम् ।
प्रसन्नचित्तो ऽथ वदेन्नमो ऽर्हन् तस्मादिदं श्रेष्ठतरं च पुण्यम्

12.5

बुद्धा भवेयुर्यदि सर्वसत्त्वास्तान् पूजयेत् यश्च यथैव पूर्वम् ।
दिव्यैश्च पुष्पैरथ मानुषैश्च कल्पाननेकान् बहुभिः प्रकारैः

12.6

यश्चैव सद्धर्मविलोपकाले त्यक्त्वा स्वकायं च तथात्मजीवम् ।
दद्यादहोरात्रमिदं हि सूत्रं विशिष्यते पुण्यमिदं हि तस्मात्

12.7

यस्येप्सितं पूजयितुं जिनेन्द्रान् प्रत्येकबुद्धानपि श्रावकांश्च ।
दृढं समुत्पाद्य स बोधिचित्तम् इदं सदा सूत्रवरं ददातु

12.8

राजा ह्ययं सर्वसुभाषितानां सो ऽभुद्गतः सर्वतथागतानाम ।
गृहे स्थितस्तस्य तथागतः स तिष्ठेदिदं यत्र हि सूत्ररत्नम्

12.9

प्रभां स प्राप्नोति शुभामनन्ताम् एकं पदं वादि शतीहयश्च ।
न व्यञ्जनाद् ग्रस्यति नापि चार्थाद् ददाति यः सूत्रमिदं परेभ्यः

12.10

अनुत्तरासौ नरनायकानां सत्त्वो न कश्चित् सदृशो ऽस्य विद्यते ।
भवेत्समुद्रेण समश्च सो ऽक्षयः श्रुत्वा हि यो धर्ममिमं प्रपद्यते

मूल पाठ: Daśabhūmikasūtra · Edition: P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc