भाषा

ENहिગુ
ग्रंथ पाठ

चीवरवस्तु · अध्याय 8

8.1

उद्दानम्* ॥
उपनन्दस्याधिष्टानं घातव्यं मध्यविक्षेपः ।
नास्ति ममात्ययाद् दानं विसृज्यो मनुष्यास् त्रयः ॥
श्रावस्त्याम् निदानम्* । उपनन्दस्य मूर्ध्नि पिटको जातः । स वैद्यसकाशं गतः । भद्रमुख भैषज्यं मे व्यपदिशेति । स कथयति आर्य घृतस्य पानं पिब । स्वास्थ्यं ते भविष्यतीति । उपनन्दः संलक्षयति । सचेद् अद्यैव पास्यामि अद्यैव स्वस्थो भविष्यामि । श्वः कतरेण कल्पेन घृतं समाधापयिष्यामि वस्त्राणि वा । यावद् इष्टं कल्पं समाधापयिष्यामि तावत् पश्चात् पास्यामीति । ज्ञातमहापुण्यो ऽसौ । तेन सार्धंविहार्यन्तेवासिकाः समन्तात् प्रेषिताः । तैः प्रभूता घृतघटका वस्त्राणि च व्रणबन्धनाय समाधापितानि । द्वितीये दिवसे वैद्य आगत्य पृच्छति । आर्य स्वस्थः । पीतं ते घृतम्* । भद्रमुख न पीतम्* । आर्य न शोभनं कृतम्* । अद्य द्विगुणं पिबेति । सार्धंविहार्यन्तेवासिन उक्ता । श्रुतं वो यद् वैद्येनाभिहितम्* उपाध्याय ( म्स्व् इइ 118 ) श्रुतम्* । ममायं रोगो ऽभिवृद्धः । प्रभूतं घृतं वस्त्राणि च व्रणबन्धनानि स्माधापयतेति । तैः प्रभूततरं घृतं वस्त्राणि च समाधापितानि । तेनातिलोभात्* श्वः कल्पो भविष्यतीति तद् अपि दिवसे न पीतम्* । रोगो ऽस्य प्रबलो जातः । यावत् पुनर् अपि वैद्य आगत्य पृच्छति । आर्य पीतं घृतम्* । भद्रमुख न पीतम्* । आर्य न शोभनं कृतम्* । स कथयति । भद्रमुख अद्य त्रिगुणं पिबामि । वैद्यः कथयति । आर्य यदि घृतमञ्जूषायाम् अपि निमग्नस् तिष्ठसि तथापि ते नास्ति जीवितम् इति । स कथयति । यमदण्डिक यादृशस् त्वम्* । गले ते पादं दत्वा घृतं च पिबामि । जीवामि चेति । स वैद्यो हुम् इति कृत्वा सामर्षः प्रक्रान्तः । तत उपनन्देन घृतस्य पात्रं पूरयित्वा पीतम्* । विषूचितः कालगतः । तस्य प्रभूतं सुवर्णं तिस्रः सुवर्णलक्षाः । एका पात्रचीवरात्* । द्वितीया ग्लानभैषज्यात्* । तृतीया कृताकृतात्* । अमात्यैः श्रुतम्* । राज्ञे निवेदितम्* । देव आर्योपनन्दः कालगतः । तस्य प्रभूतं सुवर्णम् अस्ति । तिस्रः सुवर्णलक्षाः । तद् अर्हस्याज्ञां दातुम् इति । राजा कथयति । यद्य् एवं गच्छत । अस्य लयनं मुद्रयतेति । भिक्षवस् तम् आदाय दहनं गताः । तैर् आगत्य लयनं मुद्रितम्* । भिक्षवस् तम् आदहने संस्कार्य विहारम् आगताः । पश्यन्ति लयनं राजमुद्रामुद्रितम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । गच्छानन्द मद्वचनाद् राजानं ( 268र्1 = ग्ब्म् 6.848 ) प्रसेनजितम् आरोग्यं ( म्स्व् इइ 119 ) पृच्छ । एवं च वद । यस्मिन् महाराज समये तव राजकरणीयं भवति । अवलोकयसि त्वं तस्मिन् समये उपनन्दं भिक्षुम्* । यस्मिन् वा ते समये आवाहो वा विवाहो व अवलोकयसि तस्मिन् समये उपनन्दम्* । कदाचिद् वा ते उपनन्दो यावज्जीवं प्रवारितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । ग्लानस्य वा उपस्थानं कृतम् इति । यदि ब्रूयान् नेति । स वक्तव्यः । पृथङ् महाराज गृहिणां गृहकार्याणि । पृथक् प्रव्रजितानाम्* । अल्पोत्सुकस् त्वं तिष्ठ । सब्रह्मचारिणाम् एष लाभः प्रापद्यते । निरस्तव्यापारो भवेति । एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य येन राजा प्रसेनजित् कोसलस् तेनोपसंक्रान्तः । उपसंक्रम्य यथासन्दिष्टं निवेदितवान्* । राजा कथयति । भदन्तानन्द यथा भगवान् आज्ञापयति तथा भवतु । निरस्तव्यापारो ऽहम् इति । तत आयुष्मतानन्देन राज्ञः प्रतिसन्देशो भगवते निवेदितः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । भाजयत यूयं भिक्षव उपनन्दस्य भिक्षोर् मृतपरिष्कारम् इति । भिक्षुभिः संघमध्ये अवतार्य विक्रीय भाजितम्* । साकेतकैर् भिक्षुभिः श्रुतम्* । उपनन्दः कालगतः । तस्य प्रभूतं सुवर्णं तिस्रः सुवर्णलक्षा भिक्शुभिर् भाजिता इति । ते त्वरमाणाः श्रावस्तीम् आगताः कथयन्ति । अस्माकम् अपि भदन्तोपनन्दः सब्रह्मचारी । अस्माकम् अपि तत्सन्तको लाभः प्रापद्यत इति । भिक्षुभिः पातयित्वा तैः सार्धं पुनर् अपि भाजितः । एवं षण् ( म्स्व् इइ 120 ) महानगरनिवासिनो भिक्षवः सन्निपतिताः । वैशालकाः वाराणसीयाः राजगृहेयकाः चांपेयिकाश् च । भिक्षुभिः पुनः पुनः पातयित्वा भाजितः । भिक्षवः पातयन्तो भाजयन्तश् च रिञ्चन्त्य् उद्देशं पाठं स्वाध्यायं योगं मनसिकारम्* । एतत् प्रकरणं भगवत आरोचयन्ति । भगवान् आह । पञ्च करणानि लाभविभागे । कतमे पञ्च । गण्डी त्रिदण्डकं चैत्यं शीलाका ज्ञप्तिः पञ्चकम्* । यो मृतगण्ड्याम् आकोट्यमानायाम् आगच्छति तस्य लाभो देयः । एवं त्रिदण्डके भाष्यमाने चैत्यवन्दनायां क्रियमाणायां शीलाका याम् आ चर्यमाणायाम्* । तस्मात् तर्हि भिक्षवः सर्वं मृतपरिष्कारं ज्ञप्तिं कृत्वा भाजयितव्यम्* । अकोप्यं भविष्यति । एवं च पुनः कर्तव्यम्* । शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद् यावत् सर्वसंघे सन्निषण्णे सन्निपतिते मृतपरिष्कारं वृद्धान्ते स्थापयित्वा एकेन भिक्षुणा वृद्धान्ते निषण्णेन ज्ञप्तिः कर्तव्या । शृण्वन्तु भदन्ताः संघाः । ( 268व्1 = ग्ब्म् 6.849 ) अस्मिन्न् आवासे उपनन्दो भिक्षुः कालगतः । तस्येदं मृतपरिष्कारं दृश्यम् अदृश्यं चावतिष्ठते । सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ उपनन्दस्य भिक्षोर् मृतद्रव्यं दृश्यम् अदृश्यं च मृतपरिष्कारिकम् अधितिष्ठेद् इत्य् एषात्र ज्ञप्तिः । एषा भिक्षवो मृतपरिष्कारविभागनिष्ठा यदुत ज्ञप्तिः । ज्ञप्तौ कृतायां यो भिक्षुर् आगच्छति लाभो न देय इति । आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यत्र यत्र भदन्त संघवृत्तः ज्ञप्तिकारको नास्ति तत्र मृतपरिष्कारिकं भाजयितव्यम्* । न भाजयितव्यम्* । उपालिन् ( म्स्व् इइ 121 ) पूर्वाचरमं कृत्वा भाजयितव्यम्* । पूर्वाचरमम् अपि भिक्षवो न जानन्ति । भगवान् आह । एकं परिष्कारं विक्रीय ततः स्तोकं संघवृद्धाय संघनवकाय च दत्वा यथेष्टं भाजयितव्यम्* । नात्र कौकृत्यं करणीयम्* । ज्ञप्तौ च कृतायां पूर्वाचरमे वा मृतपरिष्कारिको लाभः सर्वबुद्धशिष्येभ्यः प्रापद्यत इति ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्तायुमान् उपनन्दः अतिलोभेन विपन्नः । भगवान् आह । न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अतिलोभेन विपन्नः । तच् छ्रूयताम्* ।

भूतपूर्वं भिक्षवो ऽन्यतमेन लुब्धेन हस्ती सविषेण शरेण मर्मणि ताडितः । ततस् तेन मर्मवेदनाभ्याहतेन शरानुसारेण गत्वा स लुब्धो जीविताद् व्यपरोपितः । यावद् दैवयोगा त्* पञ्चमात्राणि चौरशतान्य् अन्यतमं कर्वटकं मुषित्वा तं प्रदेशम् अनुप्राप्तानि । तैर् असौ हस्ती दृष्टः । स कृच्छ्रकालो वर्तते । ते कथयन्ति । भवन्तः संपन्नम् इदं मांसम्* । अर्धतृतीयानि शतानि हस्तिनं विशस्य मांसं पचन्तु । अर्धतृतीयानि शतानि पानीयम् आनयन्त्व् इति । तत्र ये विशसन्ति पचन्ति च तेषाम् ( म्स्व् इइ 122 ) एतद् अभवत्* । भवन्तो ऽस्माभिर् ईदृशं कर्म कृतम्* । इदं च लोप्त्रं प्रभूतं संपन्नकम्* । यावदाप्तं मांसं भक्षयित्वा अवशिष्टं विषेण दूषयिष्यामः । किमर्थं तेषाम् अनुप्रयच्छामः । लोप्त्रम् अस्माकं भविष्यति । ते विषदूषितं मांसं भक्षयित्वा प्राणैर् वियोक्ष्यन्तीति । तैर् यावदाप्तं मांसं भक्षयित्वावशिष्टं विषेण दूषितम्* । ये ऽपि पानीयस्य गातास् तैर् अप्य् एवम् एव विचार्य यावदाप्तं पानीयं पीत्वावशिष्टं विषेण दूषितम् अदायागताः । यैर् मांसं भक्षितं तैः पानीयं पीतम्* । यैर् अपि पानीयं पीतं तैर् अपि मांसं भक्षितम्* । सर्वे ते कालगाताः । यावद् अन्यतमः शृगालः कालपाशपाशितस् तं प्रदेशम् अनुप्राप्तम्* । तेन ते सर्वे मृता दृष्टाः । ततो लोभसौमनस्यः संलक्षयति । संपन्नो मे प्रभूतो लाभः । आनुपूर्वी कर्तव्या इति । स धनुषो ( 269र्1 = ग्ब्म् 6.850 ) ऽटनिं मुखे प्रक्षिप्य स्नायुं भक्षयितुम् आरब्धः । ततः स्नायुश् छिन्ना । अटन्या तालु च्छिद्रितम्* । कालगतः ।
देवता गाथां भाषन्ते ।
संचयः खलु कर्तव्यो न कार्यस् त्व् अतिसंचयः ।
पश्य संचयलोभान्धो हतश् च येन जम्बुकः ।
किं मन्यध्वे भिक्षवो यो ऽसौ जम्बुक एष एवासाव् उपनन्दस् तेन कालेन तेन समयेन । तदाप्य् एषो ऽतिलोभेन विपन्नः । एतर्ह्य् अपि एषो ऽतिलोभेन विपन्न इति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमो भिक्षुर् आबाधिको दुःखितो बाढग्लानः तस्य भिक्षुणा उपस्थानम् कृतम्* । ( म्स्व् इइ 123 ) तथापि कालगतः । तस्य पात्रचीवरं वृद्धान्ते नीतम्* । तत्रैकं चीवरं केनापि नाशितम्* । मक्षिकाभिर् आकीर्णम्* । ततश् चीवरभाजकेनासाव् उपस्थायिको ऽभिहितः । आयुष्मन्न् अलसस् त्वम्* । न त्वयैतच् चीवरं शोचितम्* । शोचय । स कथयति । त्वं परिष्कारं भाजयिष्यसि । अहं शोचयिष्यामि । त्वम् एव शोचय । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । ग्लानोपस्थायिकस्य षट् परिष्कारा दातव्याः । अवशिष्टं भिक्षुभिर् भाजयितव्यम्* । उपस्थायिकाश् चेद् बहवो भवन्ति सर्वैः षट् परिष्काराः सामान्यं भाजयितव्याः ।
अपरे भिक्षवो ज्ञातमहापुण्याः कालं कुर्वन्ति । तेषां बहवः परिष्काराः श्रामण्यपरिष्कारा जीवितपरिष्काराश् च । वृद्धान्ते ऽभिरोहिताः । उक्तं भगवता । उपस्थायकेन षट् परिष्कारा ग्रहीतव्या इति । स विचार्य विचार्य प्रणीतानि गृह्णाति । भगवान् आह । न प्रणीतानि दातव्यानि । भिक्षवो लूहानि ददति । भगवान् आह । न लूहानि दातव्यानि । अपि तु मध्यानि दातव्यानिति ।
ग्लानाः असंविदिता एव सांघिके शयनासने कालं कुर्वन्ति । भगवान् आह । ग्लानोपस्थायकेन ग्लानस्य निमित्तं कुशलेन भवितव्यं मुहुर् मुहुः प्रत्यवेक्षितव्यः कृत्यस्य न हापयितव्यम्* । शरीरावस्थां ज्ञात्वा पौद्गलिके शयनासने व्याजेनावतार्य शायितव्य इति ।
श्रावस्त्यां निदानम्* । अन्यतमो भिक्षुर् ग्लानस् तेन शरीरावस्थां परिच्छिद्य भिक्षुर् अभिहितः । यावद् अहं जीवामि तावद् उपस्थानं कुरु । मदीयं पात्रचीवरं मृते मयि तव यथासुखम् इति । स तस्योपस्थानं कर्तुम् आरब्धः । यावद् असौ भिक्षुः कालगतः । ततश् चीवरभाजकेनासौ उक्तः । आनय तस्य भिक्षोः पात्रचीवरम्* । भाजयामि । स कथयति । ममैव तेन यथासुखं कृतम् इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । जीवन्न् एवासौ भिक्षवो न ददाति । कुतः पुनर् मृतो दास्यति । ( 269व्1 = ग्ब्म् 6.851 ) नास्तीदं दानं ममात्ययाद् अस्य भविष्यति । गृहीत्वा भाजयितव्यम्* । तस्यात्र भिक्षवो सुप्रत्यंशो देय इति ।
तेन खलु समयेनान्यतमो भिक्षुर् आबाधिको दुःखितो बाढग्लानः । स चाल्पज्ञातः । तस्य भैषज्यं नास्ति । तेन शरीरावस्थां परिच्छिद्य उपस्थायिको ऽभिहितः । मम नास्ति किंचित्* । माम् उद्दिश्य पूजां कुरुष्वेति । तेन प्रतिज्ञातम्* । स कालगतः । अपायेषूपपन्नः । अथ भगवान् भिक्षून् आमन्त्रयते स्म । यो ऽसौ भिक्षवो भिक्षुः कालगतः किं तेनोपस्थायिको ऽभिहितः । तैर् यथावृत्तम् आख्यातम्* । विनिपतितो ऽसौ भिक्षवो भिक्षुः । यदि तस्य सब्रह्मचारिभिः रत्नत्रयपूजा कृताभविष्यत्* चित्तम् अस्याभिप्रसन्नम् अभविष्यत्* । तस्मान् न भिक्षुणा ग्लानसब्रह्मचारी अध्युपेक्षितव्यः । ग्लानोपस्थायिको दीयते । तद् यद्य् अस्य भैषज्यं नास्ति तं पृष्ट्वा ( म्स्व् इइ 125 ) दानपतयः समादापयितव्याः । सचेत् संपद्यत इत्य् एवं कुशलम्* । नोचेत् संपद्यते सांघिकं देयम्* । सचेत् संपद्यत इत्य् एवं कुशलम्* । नोचेत् संपद्यते बुद्धाक्षयनीविसन्तिकं देयम्* । सचेत् अपि न संपद्यते यत् तथागतचैत्ये वा गन्धकुट्यां वा छत्रं वा ध्वजं वा पताका वा आभरणकं वा संघेन दानीयं दातव्यम् इति । उपस्थायिकेन विक्रीयोपस्थानं कर्तव्यं शास्तुश् च पूजा । स्वस्थीभूतस्यारोचयितव्यं यद् बुद्धसन्तकं तवोपयुक्तम् इति । यद्य् अस्य विभवो ऽस्ति । तेन यत्नम् आस्थाय दातव्यम्* । सचेन् नास्ति यद् अस्योपयुक्तम्* । अर्हति पुत्रः पैतृकस्य । नात्र कौकृत्यं करणीयम् इति ।

श्रावस्त्यां निदानम्* । अन्यतमो भिक्षुर् आबाधिको दुःखितो बाढग्लानो वेदनाभिभूतः । तस्य पात्रं शोभनम्* । स तस्मिन् अतीवाध्यवसितः । उपस्थायकम् आह । आनय मे पात्रम् इति । तेन न दत्तम्* । स तस्यान्तिके चित्तं प्रदूष्य पात्रे ऽध्यवसितः कालगतः । स तस्मिन्न् एव पात्रे आशीविषो भूत्वा उत्पन्नः । भिक्षवस् तम् आदहनं नीत्वा संस्कार्य विहारम् आगताः । भिक्षुः संनिपतितः । चीवरभाजकेन मृतपरिष्कारिकं वृद्धान्ते ऽभिरोहितम्* । तत्र भगवान् आयुष्मन्तम् ( म्स्व् इइ 126 ) आनन्दम् आमन्त्रयते स्म । गच्छानन्द । भिक्षूणाम् आरोचय । न केनचित् तस्य भिक्षोः पात्रस्थविका मोचयितव्या । तथागत एव मोचयिष्यति । आयुष्मतानन्देन भिक्षूणाम् आरोचितम्* । ततो भगवता स्वयम् एव मोचितः । आशीविषो महान्तं फणं कृत्वावस्थितः । ततो भगवता ऋच्छटाशब्देन प्रबोध्याभिहितः । गच्छ मोहपुरुष । त्यजैनं पात्रम्* । भिक्षवो भाजयन्तु इति । स कुपितो यथेष्टगतिप्रचारतया वनगहनं ( 270र्1 = ग्ब्म् 6.852 ) प्रविष्टः । स तस्मिन् क्रोधाग्निना प्रज्वलितः । तद् वनगहनं प्रदीप्तम्* । तत्रैव दग्धो भिक्षूणाम् अन्तिके चित्तम् अभिप्रदूष्य नरकेषूपपन्नः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । निर्विद्यतां भिक्षवः सर्वभवेभ्यो निर्विद्यतां सर्वभवोपपत्तिकरणेभ्यः । यत्र नामैकस्य सत्वस्य त्रिषु स्थानेषु कायो दह्यते । वनगहने क्रोधाग्निना । नरके नारकेण । श्मशाने प्राकृतेन । तस्मान् न भिक्षूणा परिष्कारे ऽत्यर्थम् अध्यवसानम् उत्पादयितव्यम्* । यस्मिन्न् उत्पद्यते तत् परित्यक्तव्यम्* । न परित्यजति । सातिसारो भवति । अपि तु यदि ग्लानः स्वं परिष्कारं याचते । उपस्थायकेन लघुलघ्व् एव दातव्यम्* । न ददाति । सातिसारो भवति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमो भिक्षुर् ग्लानो लयने कालगतः । अमनुष्यकेषूपपन्नः । चीवरभाजको भिक्षुस् तं लयनं प्रवेष्टुम् आरब्धः । पात्रचीवरं भाजयामीति । स तीव्रेण पर्यवस्थानेन लगुडम् आदायोत्थितः कथयति । यावन् माम् अभिनिर्हरथ ( म्स्व् इइ 127 ) तावत् पात्रचीवरं भाजयथेति । स संत्रस्तो निष्पलायितः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । पूर्वं तावन् मृतो भिक्षुर् अभिनिर्हर्तव्यः पश्चात् तस्य पात्रचीवरं भाजयितव्यम् इति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमो भिक्षुर् कालगतः । भिक्षवस् तम् अभिनिर्हृत्य एवम् एव श्मशाने छोरयित्वा विहारम् आगतः । चीवरभाजकस् तस्य लयनं प्रविष्टः । पात्रचीवरं भाजयामीति । सो ऽमनुष्यकेषूपपन्नः । लगुडम् आदायोत्थितः । स कथयति । यावन् मम शरीरपूजां कुरुथ तावत् पात्रचीवरं भाजयथेति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । भिक्षुभिस् तस्य पूर्वं शरीरपूजा कर्तव्येति । ततः पश्चात् पात्रचीवरं भाजयितव्यम्* । एष आदीनवो न भविष्यतीति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमो भिक्षुर् ग्लानो लयने कालगतः । स भिक्षुर् आदहनं नीत्वा शरीरपूजां कृत्वा दग्धः । ततो विहारम् आगतः । चीवरभाजकस् तस्य लयनं प्रविष्टः । स लगुडम् आदायोत्थितः । तत् तावन् माम् उद्दिश्य धर्मश्रवणम् अनुप्रयच्छथ तावच् चीवरकाणि भाजयथेति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तम् उद्दिश्य धर्मश्रवणं दत्वा दक्षिणाम् उद्दिश्य पश्चाच् चीवरकाणि भाजयितव्यानीति ।
उद्दानम्* ।
ग्लानकश् चाथ श्रेष्ठी च प्रतिवस्तु नवकर्मिकः ।
सीमा चतुष्किकां कृत्वा अष्टौ दूतेन कारयेत्* ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमेन ( 270व्1 = ग्ब्म् 6.853 ) गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः । भिक्षुसंघः प्रविष्टः । भगवान् औपधिके ऽस्थाद् अभिनिर्हृतपिण्डपातः । पंचभिः कारणैर् बुद्धा भगवन्तः औपधिके तिष्ठन्त्य् अभिनिर्हृतपिण्डपाताः । कतमैः पंचभिः । प्रतिसंलातुकामा भवन्ति । देवतानां धर्मं देशयितुकामा भवन्ति । शयनासनं प्रत्यवेक्षितुकामा भवन्ति । ग्लानम् अवलोकयितुकामा भवन्ति । श्रावकाणां विनयशिक्षापदं प्रज्ञपयितुकामा भवन्ति । अस्मिंस् त्व् अर्थे द्वाभ्यां कारणाभ्यां बुद्धो भगवान् औपधिके ऽस्थाद् अभिनिर्हृतपिण्डपातः ।

अथ भगवान् अचिरप्रक्रान्तं भिक्षुसंघं विदित्वा अपावरणीं गृहीत्वा आरामेणारामं विहारेण विहारं परिगणेन परिगणं चंक्रमेण चंक्रमम् अनुचंक्रम्यमाणो ऽनुविचरति । अनेनान्यतमो महल्लको विहारस् तेनोपसंक्रान्तः । तत्र भिक्षुर् बाढग्लानः अल्पज्ञातः स्वे मूत्रपुरीषे निमग्नो भगवन्तं दृष्ट्वापरस्वरम् अकार्षीत्* । अनाथो ऽस्मि भगवन्* । अनाथो ऽस्मि सुगत इति । भगवान् आह । कस्मात् त्वं भिक्षो मां त्रैलोक्यनाथम् उद्दिश्य प्रव्रजित एवं विरौषि । अनाथो ऽस्मि भगवन्* । अनाथो ऽस्मि सुगत इति । न मे भदन्त कश्चित् सब्रह्मचारी उपस्थानं करोत्य् अवलोकयति वा । अस्ति त्वया भिक्षो कस्यचित् ( म्स्व् इइ 129 ) सब्रह्मचारिण उपस्थानं कृतम् अवलोकितं वा । नो भदन्त । अत एव ते इयं समवस्था । भगवां लौकिकचित्तम् उत्पादयति । अहो बत शक्रो देवेन्द्रो ऽनवतप्तान् महासरः पानीयम् आदाय गन्धमादनाच् च पर्वतान् मृत्तिकाम् आनयेद् इति । धर्मता खलु यस्मिन् समये भगवां लौकिकं चित्तम् उत्पादयति तस्मिन् समये शक्रब्रह्मादयो ऽपि देवा भगवतश् चित्तम् आजानन्ति । ततः शक्रो देवेन्द्रः अनवतप्तान् महासरसः अष्टांगोपेतस्य पानीयस्य सौवर्णं भृङ्गारम् आदाय गन्धमादनाच् च पर्वतान् मृत्तिकां लघुलघ्व् एव भगवतः पुरस्ताद् अस्थात्* । एवं चाह । तिष्ठतु भगवान् अहम् अस्योपस्थानं करोमि । भगवान् आह । नैष कौशिकम् उद्दिश्य प्रव्रजितः किं तु माम्* । अपि तु किं त्वयैष पूर्वं न दृष्टः । तिष्ठ त्वम्* । शुचिकामा देवाः । अहम् एवास्योपस्थानं करोमि । ततो भगवता चीवरं बद्ध्वा चक्रस्वस्तिकनन्द्यावर्तेनानेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरणकरेणासौ भिक्षुर् गृहीत्वा मूत्रपुरीषाद् उद्धृत्य एकान्ते स्थापितः । वंशविदलिकया निर्लिखितः । पाण्डुमृत्तिकया उद्वर्तितः स्नापितः । ततः स्थापितः । ( 271र्1 = ग्ब्म् 6.854 ) चीव रकाण्य् अस्य प्रक्षालितानि । तस्मिन् प्रदेशे सुकुमारी गोमयकार्षी दत्ता । ततो हस्तपादौ संप्रशोध्य शक्रं देवेन्द्रं ग्लानोपस्थानपूर्विकया ( म्स्व् इइ 130 ) धर्मदेशनया सन्देश्य समादाप्य विहारं प्रविष्टः । आयुष्मान् आ नन्दः पिण्डपातनिर्हारकः पिण्डपातम् आदाय भगवत्सकाशम् उपसंक्रान्तः । धर्मता खलु बुद्धा भगवन्तः पिण्डपातनिर्हारकं भिक्षुम् अनया प्रतिसंमोदनया प्रतिसंमोदन्ते । कच्चिद् भिक्षो प्रणीतं भक्तं संतर्पितो भिक्षुसंघ इति । प्रतिसंमोदते भगवान् आयुष्मन्तम् आनन्दम्* । कच्चिद् आनन्द प्रणीतं भक्तं संतर्पितो भिक्षुसंघ इति । तथ्यं भदन्त । प्रणीतं भक्तं संतर्पितो भिक्षुसंघः । ततो भगवान् उपार्धपिण्डपातम् आदायायुष्मन्तम् आनन्दम् आमन्त्रयते । गच्छ आनन्द अमुष्मिन् विहारे बाढग्लानो भिक्षुः । तस्मै दे यम् उपार्धपिण्डपातम्* । यद् भूंक्ते चैनं वक्तव्यः । शास्त्रा ते आयुष्मन् स्वयम् एवोपस्थानं कृतम्* । उपार्धपिण्डपातेन च संविभागः कृत इति । एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्योपार्धपिण्ड पात म् आदाय तस्मै दत्वा यथासन्दिष्टम् आरोचितवान्* ।
अथ तस्य भिक्षोर् एतद् अभवत्* । मम त्रैलोक्यगुरुणा स्वयम् उपस्थानं कृतम् उपार्धपिण्डपातश् च दत्तः । न मम प्रतिरूपं स्याद् यद् अहं श्रद्धादेयं परिभुज्य कौसीद्येनातिनामयेयम्* । यन्व् अहं पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तो विहरेयम् इति । तेन पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरता इदम् एव च पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतिं शतनपतनविकिरणविध्वंसनधर्मतया ( म्स्व् इइ 131 ) पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् इति । अर्हन् संवृत्तः । त्रैधातुके वीतरागः समलोष्ट्रकांचनः आकाशपाणितलसमचित्तो वासीचन्दनकल्पो ऽविद्याविदारिताण्डकोशो विद्याभि ज्ञः प्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरांमुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ।
तत्र भगवान् भिक्षून् आमन्त्रयते । एषां भिक्षवो ग्लानानां न माता न पिता न चान्यो बन्धुः नान्यत्र यूयम् एव सब्रह्मचारिणः । तस्मात् सब्रह्मचारिभिः पस्रस्परम् उपस्थानं करणीयम्* । उपाध्यायेन सार्धंविहारिणः । सार्धंविहारिणा उपाध्यायस्य । आचार्येणान्तेवासिनः । अन्तेवासिना आचार्यस्य । समानोपाध्यायेन समानोपाध्यायस्य । समानाचार्येण समानाचार्यस्य । आलप्तकेनालप्तकस्य । संलप्तकेन संलप्तकस्य । ( 271व्1 = ग्ब्म् 6.855 ) संस्तुकेन संस्तुकस्य । सप्रेमकेन सप्रेमकस्य । यः पर्षद्विनिर्मुक्तो ऽल्पज्ञातश् च तस्य संघेनोपस्थायिको देयः । ग्लानावस्थां परिच्छिद्य एको वा द्वौ वा संबहुला वा । अन्ततः सर्वसंघेनोपस्थानं करणीयम्* ।
भिक्षवः संशयजाताः सर्वसंशयच्छेतारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त भगवता तस्य भिक्षोः स्वयम् एवम् उपस्थानं कृतम्* । तेन चार्हत्वं साक्षात्कृतम् इति । भगवान् आह । न भिक्षव एतर्हि ( म्स्व् इइ 132 ) यथा अतीते ऽप्य् अध्वनि तस्य मया उपस्थानं कृतम्* । तेन च पञ्चाभिज्ञाः साक्षात्कृताः ।
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन्न् आश्रमपदे पुष्पफलसलिलसंपन्ने नानावृक्षोपशोभिते ऋषिः प्रतिवसति पञ्चाभिज्ञः । तेन शिष्यस्योपस्थानं कृतम्* । स्वस्थीभूतः । ततस् तेन पञ्चाभिज्ञाः साक्षात्कृताः । किं मन्यध्वे भिक्षवः । यो ऽसौ तेन कालेन तेन समयेन ऋषिर् आसीद् अहं सः । यो ऽसौ तस्य ऋषेः शिष्य एष एवासौ भिक्षुः । तदाप्य् अस्य मया उपस्थानं कृतम् एतर्ह्य् अप्य् अस्य मया उपस्थानं कृतम्* ।
पुनर् अपि भिक्षवो बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्तातीव भगवतो ग्लानकः प्रिय इति । भगवान् आह । न भिक्षव एतर्हि यथा अतीते ऽध्वनि ममातिव ग्लानकाः प्रियाः । तच् छ्रूयताम्* ।

भूतपूर्वं भिक्षवः शिवघोषायां राजधान्यां सिविर् नाम राजा राज्यं कारयति । ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । तस्य नास्ति किंचिद् अपरित्याज्यं याचनकेभ्यो विशेषतस् तु ग्लानेभ्यः । यावद् अन्यतमो गृहपतिर् ग्लानः सर्ववैद्यप्रत्याख्यातो राज्ञः सकाशं गतः । देव चिकित्सां मे कारय इति । ततो राज्ञा वैद्यानाम् आज्ञा दत्ता । भवतो ऽस्य चिकित्सां कुरुतेति । ते कथयन्ति । देव दुर्लभान्य् अस्य भैषज्यानीति । राजा कथयति । कीदृशानि पुनस् तानि भैषज्यानि । देव यः कदाचिज् जन्मनः प्रभृति न कस्यचिद् रुषितपूर्वस् तस्य रुधिरेण यवागूः षण्मासान् दातव्या । एवम् अस्य स्वास्थ्यं भवति । नान्यथेति । राजा कथयति । सत्यं दुर्लभम् अस्य भैषज्यम्* । स आ त्मनः ( म्स्व् इइ 133 ) प्रचारं परिच्छेत्तुम् आरब्धः । दुःखम् आत्मनः प्रचारः परिच्छिद्यते । स धात्रीं प्रष्टुम् आरब्धः । अम्ब अस्त्य् अहम् इयता कालेन कस्यचिद् रुषितपूर्वः । कुमार यदा त्वं ममांसगतस् तदाहम् अपि न कस्य चिद् रुषितपूर्वा प्राग् एव त्व म् इति । ततो जनन्याः सकाशम् उपसंक्रान्तः । कथयति । अम्ब अस्त्य् अहं कस्यचिद् रुषितपूर्वः । कुमार यदा त्वं मम कुक्षिगतस् तदाहम् अपि न कस्यचिद् रुषितपूर्वा प्राग् एव त्वम् इति । स संलक्षयति ( 272र्1 = ग्ब्म् 6.856 ) । लब्धं भैषज्यम् इति विदित्वा तेन वैद्याना म् आ ज्ञा दत्ता । भवन्तो मयात्मा परीक्षितः । अहं न कदाचित् कस्यचिद् रुषितपूर्वः । मम पंचेङ्खिकशिरावेधं कुरुत । देव वयं प्राकृतपुरुषस्यार्थाय देवस्य काये शस्त्रं न निपातयामः । कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु । राज्ञा स्वयम् एव शिरावेधः कृतः । तेन च रुधिरेण षण् मासान् प्रतिदिनं तस्मै यवागूर् दत्ता । स्वस्थो जातः । किं मन्यध्वे भिक्षवः । यो ऽसौ राजा अहं स तेन कालेन तेन समयेन । तदापि मे ग्लानकाः प्रियाः प्राग् एवेदानीम्* ।
पुनर् अपि शिवे राज्ञः पुत्रस्य पार्श्वशोषो जातः । राज्ञा वैद्यानाम् आज्ञा दत्ता । भवन्तो ऽस्य कुमारस्य चिकित्सां कुरुतेति । ते कथयन्ति । देव सर्वसारं घृतं पच्यताम्* । इति विदित्वा द्वादशभिर् वर्षैः सर्वद्रव्याणि समुपानीतानि । अद्यापि जीवजीवकमांसं न लभ्यते । वैद्यैः शाकुन्तिकानाम् आज्ञा दत्ता । आगच्छत । आदर्शकं ( म्स्व् इइ 134 ) कुक्कुटकं च गृहीत्वा समुद्रतटं गच्छत । तत्र पाशान् पातयित्वा कुक्कुटकस्य पुरस्ताद् आदर्शं स्थापयत । कुक्कुटः स्वं प्रतिबिम्बं दृष्ट्वा कुक्कुटो ऽयम् इति रविष्यति । कौतूहली जीवजीवकः कुक्कुटशब्दं श्रुत्वा कुक्कुटसमीपम् आगमिष्यति । अयं तस्य बन्धनोपाय इति । तैस् तथा कृतम्* । यावत् कर्मपाशितो जीवजीवकः प्राणी बद्धः । ते तम् आदाय संप्रस्थिताः । धर्मता ह्य् एषा अचिरव्यतिवृते लोकसन्निवेशे तिर्यञ्चो ऽपि वाक्प्रव्याहरणसमर्था भवन्ति । जीवजीवकः प्राणी कथयति । भवन्तः कुत्र मां नयथ । तैर् यथावृत्तं समाख्यातम्* । स कथयति । मुंचत मुंचत माम्* । मांसबलो नाम औषधी कथयसि रत्नानि वेति । ते कथयन्ति । उपदर्शय तावत् पश्यामः कीदृशास् ता ओषधय इति । तेन समाख्यातम्* । मदीयस्नानोदकं मांसबलम्* । तदादाय गच्छ । इमानि च रत्नानीति । ते राज्ञः शंकिताः । रत्नान्य् अपास्य तम् एव जीवजीवकम् आदाय संप्रस्थिताः । अनुपूर्वेण शिवघोषां राजधानीम् अनुप्राप्ताः । तैर् जीवजीवकप्राणी राज्ञ उपनामितः । यच् च तेनौषधम् आदिष्टं तच् च कथितम्* । ततो राज्ञा जीवजीवकः पृष्टः । कथयति । देव मम स्नानोदकं मांसबलम् इति । राज्ञा सप्त उदकमणयः शोभनाम्भसः पूर्णाः स्थापिताः । स तेषु यावत् स्नातो यावत् सुविश्रान्तो जातः । ततः कायस्य बलं ज्ञात्वा सहसा उत्फ्लुत्य शरणपृष्ठम् अभिरूढो विगतभयभैरवो गाथां भाषते ।
पूर्वं तावद् अहं मूर्खः पश्चाच् ( 272व्1 = ग्ब्म् 6.857 ) छाकुन्तिका इमे ।
ततो राजा च वैद्याश् च संपूर्णं मूर्खमण्डलम्* ॥

इत्य् उक्त्वा प्रक्रान्तः । ततो राज्ञा वैद्या आहूय पृष्टाः । भवन्तः सत्यम्* । भवन्तः जीवजीवकस्य स्नानोदकं तन्मांसेन समबलम् इति । ते कथयन्ति । देव सत्यम्* । पचत घृतम्* । तैः सर्वसारं घृतं पक्वम्* । राजपुत्र उपयोक्तुं प्रवृत्तः । यावद् अन्यतमस्मिन् हिमवत्कन्दरे पंच प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्रैकस्य पार्श्वशोषो जातः । स तैः प्रत्येकबुद्धैर् अभिहितः । आयुष्मन् जनपदान् गत्वा वैद्यं पृष्ट्वा भैषज्यं सेव स्व । स्वस्थो भविष्यसीति । कथयति । आयुष्मन्त आगमिष्यन्ति । स धर्मो बहुजनानिष्टो बहुजनाकान्तो बहुजनाप्रियो बहुजनामनापः सर्वसत्वाधारणः यदुत मरणं नाम यो मां स व्याधिना नेष्यति । कस्यार्थाय ग्रामान्तम् अवसरामीति । ते कथयन्ति । आयुष्मन् यद्य् अप्य् एवं यथापि यावच् छीलवान् पुरुषपुद्गलश् चिरं जीवति तावद् बहुपुण्यं प्रसूयते । यावद् बहुपुण्यं प्रसूयते तावच् चिरं स्वर्गेषु मोदते । स तैर् उपरुध्यमानो जनपदाद् अवतीर्णः । अनुपूर्वेण शिवघोषां राजधानीम् अनुप्राप्तः । ततो मार्गश्रमं प्रतिविनोद्य वैद्य सकाशं गतः । भद्रमुख ममेदृशो रोगः । भैषज्यं व्यपदिश इति । स कथयति । आर्य यादृश एवायं तव रोगस् तादृश एव राज्ञ पुत्रस्य । द्वादशभिर् वर्षैः सर्वसारं घृतं पक्वम्* । गत्वा प्रार्थय । यद्य् अप्य् एतत् ते मण्डम् अपि ( म्स्व् इइ 136 ) भाग्यविशेषात् प्रतिलभ्यसे तेन ते याप्यं भविष्यतीति । स राजकुलद्वारं गत्वावस्थितः । आचरितं तस्य राज्ञः । घण्टा द्वारे नित्यं प्रलम्बिता । याचनकजननिवेदी । यदा याचनको द्वारे तिष्ठति तदासौ रौति । यावद् असौ घण्टा प्रत्येकबुद्धम् आगतं निवेदयन्ती रटितुम् आरब्धा । ततो राजपुत्रः कथयति । अम्ब तात यावनको ऽभ्यागतः । विचार्यतां किं प्रार्थयतीति । तौ कथयतः । पुत्र अस्माभिर् द्वादशभिर् वर्षैर् द्रव्यसंहारं कृत्वा इदं घृतं पक्वम्* । पिब तावत् पश्चाद् याचनकं प्रवेशयामः । विचारयिष्यामः किं प्रार्थयतीति । तस्य कृतकुतूहलस्वस्त्ययनस्य घृतं पातुकामस्य याचनकभाजनाशामर्मसंघट्टितशरीरस्य तद् वृत्तं न रोचते । कथयति च । अम्ब तात न तावपरिभोक्ष्ये यावद् याचनकः प्रविशत इति । राज्ञा दौवारिकस्याज्ञा दत्ता । याचनकं प्रवेशय इति । स प्रवेशितः । राजपुत्रेण दृष्टः । कायप्रासादिकश् चित्तप्रासादिकश् च शान्तेनेर्यापथेनावतीर्णः । स कथयति । आर्यकेण किं प्रयोजनम्* । तेन विस्तरेण समाख्यातम्* । स कथयति । आर्य त्वम् एव मण्डार्हो नाहम्* । गृहाण । ददामीति । तेन पात्रं प्रसारितम्* । राजपुत्रेण तीव्रेणाशयेन ( 273र्1 = ग्ब्म् 6.858 ) तस्मै तन्मण्डो दत्तः । तेनापि महात्मना सर्वसत्वहितानुगतं राजपुत्रेण चित्तम् उत्पादितम्* । ऋध्यति शीलवतश् चेतःप्रणिधानम्* । तच् च विशुद्धत्वाच् छीलस्येति । उभाव् अपि स्वस्थौ संवृत्तौ । किं मन्यध्वे भिक्षवो यो ऽसौ राजकुमारः ( म्स्व् इइ 137 ) अहम् एव स तेन कालेन तेन समयेन । तदापि मे ग्लानकाः प्रियाः प्राग् एवेदानीम्* ।
किं भदन्त तेन राजपुत्रेण तेन च प्रत्येकबुद्धेन कर्म कृतं येन तयोर् युगपद् व्याधिर् उत्पन्नो युगपच् च व्युपशान्तिर् इति । भगवान् आह । तस्याम् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितानि अवश्यंभावीनि । न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते । नाब्धातौ । न तेजोधातौ । न वायुधातव् अपि । भूधातुष्व् एव स्कन्धधात्व् आयतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा बभूव । तस्य द्वौ पुत्रौ । तयोर् यः कनीयान् स राज्याभिनन्दी । पुरोहितस्यापि द्वौ पुत्रौ । तयोर् अपि कनीयान् स पौरोहित्यं प्रार्थयते । धातुश ः सत्वा ः संस्यन्दन्त इति तयोः परस्परं सख्यम् उत्पन्नम्* । राजपुत्रः कथयति । क उपायः स्याद् येनाहं राजा भवेयम्* । स कथयति । अस्त्य् उपायः । यदि त्वं मां पौरोहित्ये स्थापयसि ( म्स्व् इइ 138 ) कथयामीति । स कथयति । एवं भवतु । कथय । स्थापयामीति । स कथयति । अहं तव भ्रातरं व्यंगं करोमि । त्वं राजा भवसीति । तेनानुमोदितम्* । ततस् तेन तस्य ज्येष्ठस्य राजपुत्रस्य भैषज्यं दत्तम्* । व्यंगीभूतम्* । अपरेण समयेन राजा कालगतः । अमात्यैः स व्यंग इति कृत्वा कनीयान् राज्ये ऽभिषिक्तः । तेनाप्य् असौ कनीयान् पुरोहितपुत्रः पौरोहित्ये प्रतिष्ठापितः । यावद् अपरेण समयेन राजा पुरोहितेन सार्धं संलापेन तिष्ठति । राज्ञासौ भ्राता व्यंगो दृष्टः । तस्य तं दृष्ट्वा विप्रतिसार उत्पन्नः । न शोभनं मया कृतं यद् राज्यहेतोर् भ्राता व्यंगीकृत इति । पुरोहितः कथयति । देव ममापि विप्रतिआर उत्पन्नः । यदि देवस्याभिमतं पुनर् अप्य् एवं यथापौराणं करोमीति । स कथयति । कुरुष्वानुजाने । तेन तस्य भैषज्यं दत्तम्* । स्वस्थीभूतः । ततस् तौ प्रत्येकबुद्धे कारान् कृत्वा प्रणिधानं कर्तुम् आरब्धौ । यदावाभ्याम् एवंविधे सद्भूतदक्षिणीये काराः कृता अस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जायेयहि । अस्य च पापस्य व्यंगीकरणस्य कर्मणो विपाकम् अनुभवेयम् इति ( 273व्1 = ग्ब्म् 6.859 ) । किं मन्यध्वे भिक्षवः । यो ऽसौ राजपुत्रः अहम् एव स तेन कालेन तेन समयेन । यो ऽसौ पुरोहितपुत्रः एष एवासौ प्रत्येकबुद्धः । यत् ताभ्यां संजल्पं कृत्वा राजकुमारस्य भैषज्यं दत्तं तेन युगपद् व्यंगौ संवृत्तौ । यत् तु विप्रतिसाराभ्यां विचार्य पुनर् भैषज्यं दत्तं तेन युगपत् स्वस्थीभूतौ । इति हि ( म्स्व् इइ 139 ) भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः । एकान्तशुक्लानाम् एकान्तशुक्लः । व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्वाभोगाः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ।

श्रावस्त्यां निदानम्* । तेन खलु समयेन श्रावस्त्यां श्रेष्ठिनामा गृहपतिर् आढ्यो महाधने महाभोगे विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृंगाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोकप्रवादः । यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चकरवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमे त्रयाणाम्* । मातापितराउ रक्तौ भवतः । सन्निपतितौ । माता कल्या भवति ऋतुमती । गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । यदास्य देवताराधनेनापि न पुत्रो न दुहिता तदा सर्वदेवताः प्रत्याख्याय भगवत्य् अभिप्रसन्नः । यावद् अन्यतमस्य भिक्षोः सकाशम् उपसंक्रान्तः । आर्य इच्छामि ( म्स्व् इइ 140 ) स्वाख्याते धर्मविनये प्रव्रजितुम्* । भद्रमुख एवं कुरु । स तस्यानुपूर्व्या केशावतरणं कृत्वा शिक्षापदानि ग्राहयितुम् आरब्धः । प्रव्रज्यान्तरायकरेण च महता ज्वरेणाभिभूतः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । उपस्थानम् अस्य करणीयम्* । न तावच् छिक्षापदानि देयानि यावत् स्वस्थः संवृत्तः । इत्य् उक्तं भगवता । तस्योपस्थानं कर्तव्यम् इति हि भिक्षवो न जानन्ते केन कर्तव्यम् इति । भगवान् आह । भिक्षुभिः । वैद्यास् तस्य दिवा भैषज्यं कुर्वन्ति । रात्रौ ( 274र्1 = ग्ब्म् 6.860 ) ग्लान्यं वर्धते । ते कथयन्ति । आर्य वयम् अस्य दिवा चिकित्सिकां कुर्मः रात्रौ ग्लान्यं वर्धते । यद्य् एष गृहं नीयते वयम् अस्य रात्रौ चिकित्सां कुर्याम इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । गृहं नीयतां तत्राप्य् अस्योपस्थायिकान् अनुप्रयच्छत । तस्य तद् ग्लान्यं दीर्घकालीनं सम्वृत्तम्* । केशास् तस्य दीर्घदीर्घा जाताः । तस्य मुण्डो गृहपतिर् इति संज्ञा संवृत्ता । स यदा मूलगण्डपत्रपुष्पफलभैषज्यैर् उपस्थीयमानो न स्वस्थीभवति तदा तेनात्मा परिच्छिन्नो मृतो ऽहम् इति । ततस् तेन मरणकालसमये सर्वं सन्त क स्वापतेयं पत्राभिलेख्यं कृत्वा जेतवने प्रेषितम्* । स च कालगतः । अमात्यैः राज्ञः प्रसेनजितः कोसलस्यारोचितम्* । देव मुण्डो गृहपतिर् अपुत्रः कालगतः । प्रभूतं चास्य हिरण्यसुवर्णम् अस्ति हस्तिनो ऽश्वा गावो महिष्यः सन्नाहानि च । एतच् च सर्वं पत्राभिलिखितं कृत्वा जेतनवनम् आर्यसंघाय प्रेषितम्* । राजा कथयति । आर्योपनन्दसन्तकम् एव मया अपत्राभिलिखितं ( म्स्व् इइ 141 ) न प्रतिलब्धं प्राग् एव पत्राभिलिखितं प्रतिलप्स्ये । अपि तु यद् भगवान् अनुज्ञास्यति तद् ग्रहीष्ये । एतत् प्रकरणं भगवत आरोचयन्ति । भगवान् आह । किं तत्र भिक्षवः संविद्यन्ते ।
अन्तरोद्दानम्* ।
वस्तुशयनासनप्रावरणम् अयोलोहं च चन्दनम्* ।
कुम्भानि पीतभक्षादि रंजनं यष्टिजम्बुकम्* ॥
द्विपदा चतुष्पदा याव त्* अन्नपानं च भैषज्यम्* ।
दासो वा प्रस्तरं लेख्यं यथायोगेन भाजयेत्* ॥
हिरण्यं च सुवर्णं च यच् चाप्य् अन्यत् कृताकृतम्* ।
समग्रः संघो भाजयेद् इति प्रोक्तं महर्षिणा ॥
भिक्षुभिः समाख्यातम्* । भगवान् आह । यथायोगेन भाजयितव्यम्* । तत्र क्षेत्रवस्तु गृहवस्त्व् आपणवस्तु । शयनासनम् अयस्कारभाण्डं लोहकारभाण्डं कुम्भकारभाण्डम्* । कुण्डिकाकरण्डकविवर्जितं तक्षभाण्डं वरुटभाण्डम्* । दासीदासकर्मकारपौरुषेयानाम् अन्नपानं व्रीहयश् चाविभाज्याः । चातुर्दिशाय भिक्षुसंघाय साधारणाः स्थापयितव्याः । शाटकाः पटका चर्मभाण्डम् उपानहस् तैलकुतुपाः कुण्डिकाकरकाश् ( म्स्व् इइ 142 ) च समग्रेण संघेन भाजयितव्याः । यष्ट यो या आयतास् ता जम्बूच्छायिकाः प्रतिमाया ध्वजवंशाः कारयितव्याः । याः स्वल्पास् ताः खंखरकाः कृत्वा भिक्षूणां दातव्याः । पुत्रदार कं संघे न यथासुखम् अविक्रीय यथाभिप्रसादलब्धेन मोक्तव्याः । चतुष्पदानां हस्तिनो ऽश्वा उष्ट्राः खरा वेसराश् च राज्ञ उपयोगाः । महिष्यः अजा एडकाश् चातुर्दिशाय भिक्षुसंघाय ( 274व्1 = ग्ब्म् 6.861 ) साधारणा अविभाज्याः । यश् च सन्नाहो यच् चान्यत्र राजोपयोज्यं तत् सर्वं राज्ञ उपनामयितव्यम्* । स्थापयित्वायुधानि तैः शस्त्रकैः सूच्यः खंखरकाश् च कारयित्वा संघे चारयितव्याः । रंगाणां महारंगः कंकुष्टहिंगुलुकराजपट्यादयस् ते गन्धकुट्यां प्रक्षेप्तव्याः प्रतिमोपयोगिकाः । खंखटिकं गौरिकं नीलिश् च संघेन भाजयित्व्या । मद्यं मृष्टयवान् प्रक्षिप्य भूमौ निखातव्यम्* । शुक्तत्वे परिणतं परिभोक्तव्यम्* । शुक्तत्वानुपयोज्यं तु छोरयितव्यम्* । मां भिक्षवः शास्तारम् उद्दिशद्भिर् मद्यम् अदेयम् अपेयम् अन्ततः कुशाग्रेणापि । भैषज्यानि ग्लानकल्पिकशालायां ( म्स्व् इइ 143 ) प्रक्षेप्तव्यानि । ततो ग्लानकैर् भिक्षुभिः परिभोक्तव्यानि । रत्नानां मुक्ता वर्जयित्वा मणिवैडूर्यदक्षिणावर्तपर्यन्तानि तु द्वौ भागौ कर्तव्यानीति । एको धर्मस्य । द्वितीयः संघस्य । यो धर्मस्य तेन बुद्धवचनं लेखयितव्यम्* । सिंहासने चोपयोक्तव्यम्* । यः संघस्य स भिक्षुभिर् भाजयितव्यः । पुस्तकानां बुद्धवचनपुस्तका अविभज्य चातुर्दिशाय भिक्षुसंघाय धारणकोष्ठिकायां प्रक्षेप्तव्याः । बहिःशास्त्रपुस्तका भिक्षुभिर् विक्रीय भाजयितव्याः । पत्रलेख्यं यच् छीघ्रं शक्यते साधयितुं तस्य द्रव्यविभागे तद् भिक्षुभिर् भाजयितव्यम्* । न शक्यते तच् चातुर्दिशाय भिक्षुसंघाय धारण । कोष्ठिकायां प्रक्षेप्तव्यम्* । सुवर्णं च हिरण्यं चान्यच् च कृताकृतं त्रयो भागाः कर्तव्याः । एको बुद्धस्य । द्वितीयो धर्मस्य । तृतीयः संघस्य । यो बुद्धस्य तेन गन्धकुट्यां केशनखस्तूपेषु च खण्डछुट्टं प्रतिसंस्कर्तव्यम्* । यो धर्मस्य तेन बुद्धवचनं लेखयितव्यं सिंहासनेन वा उपयोक्तव्यम्* । यः संघस्य स भिक्षुभिर् भाजयितव्यः ।

श्रावस्त्यां निदानम्* । यदा राज्ञा प्रसेनजिता कोसलेना तोयिकामहः प्रस्थापितस् तदा तत्र भिक्षुभिक्षुण्युपासकोपासिकानां महासन्निपातो भवति । तेन खलु समयेन मूलफल्गुनो भिक्षुर् भिक्षुणीभावनीयः । तोयिकामहे प्रत्युपस्थिते संबहुलाभिर् भिक्षुणीभिर् उक्तः । आर्य उपनिमन्त्रितो भव । तोयिकामहं गमिष्याम इति । स कथयति । को ऽत्र मम पात्रचीवरं स्थापयतीति । ( म्स्व् इइ 144 ) द्वादशवर्गिकाभिर् भिक्षुणीभिर् उक्तः । आर्य अल्पोत्सुको भव । वयं स्थापयामः । तेन तासां समर्पितम्* । तत् ताभिर् अपि महाप्रजापत्ये संन्यस्तम्* । महाप्रजापत्यापि आयुष्मत आनन्दस्य । आयुष्मताप्य् आनन्देनान्यतमस्मिन् विहारे स्थापितम्* । तत आयुष्मान् मूलफल्गुनस् तोयिकामहं गतः । स तत्र भिक्षुणीभिर् उपनिमन्त्रितः । एका कथयति । आर्येण ममाद्य पूर्वाह्णिका कर्तव्या । अपरया पूर्वाह्णिकया उपनिमन्त्रितः । अपरापि । अपरा कथयति । आर्येण ममान्तिकाद् भोक्तव्यम् इति । अपरापि । एवम् एव कथयत्य् अपरापि । अपरा कथयति । आर्येण ममान्तिके कालपानकं पाययितव्यम् इति । अपरापि । एवम् एव कथयत्य् अपरापि । तेन तासाम् अनुरक्षया स्तोकस्तोकं गृहीत्वा पूर्वाह्णिका कृता । ततैव वेलायां भुक्तम् अकाले पानकं च पीतम्* । ततः स्तोकस्तोकेन ( 275र्1 = ग्ब्म् 6.862 ) प्रभूतं संपन्नम्* । स चाध्वपरिश्रान्तः । तेन प्रभूतं भुक्तम्* । सः अजीर्णो जातः । विषूचितः कालगतः । स भिक्षुभिः श्मशानं नीत्वा दग्धः । धर्मश्रवणं दत्तम्* । अनुपूर्वेण विहारः प्रविष्टः । चीवरगोपकेन ग्लानोपस्थायिकः अभिहितः । आनय तस्य पात्रचीवरम् इति । स कथयति । द्वादशवर्गिकानां हस्ते स्थापितम्* । ताः प्र्ष्टाः । कथयन्ति । अस्माभिर् महाप्रजापत्या हस्ते स्थापितम्* । महाप्रजापतिः कथयति । मया आनन्दस्य संन्यस्तम् इति । आयुष्मान् आनन्दः कथयति । मया अमुष्मिन् विहारे स्थापितम्* । इत्य् एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । ( म्स्व् इइ 145 ) भगवान् आह । आनन्देन स्थापितं भिक्षुणा प्रतिवस्तु मृतपरिष्कारिकम् अधिष्ठातव्यम्* । एवं च पुनर् अधिष्ठातव्यम्* । शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* । शृणोतु भदन्तः संघः । अस्मिन्न् आवासे मूलफल्गुनो भिक्षुः कालगतः । तस्य पात्रचीवरं सचीवरचीवरिकम् आनन्दस्य हस्ते तिष्ठति । सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघः । यत् संघो मूलफल्गुनस्य भिक्षोः पात्रचीवरं सचीवरचीवरिकम् आनन्देन भिक्षुणा प्रतिवस्तु मृतपरिष्कारिकम् अधितिष्ठेद् इत्य् एषा ज्ञप्तिः । आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । अन्यत्र भदन्त भिक्षुः कालं कुर्याद् अन्यत्रास्य पात्रचीवरम् अन्यत्र प्रतिवस्तुकः । तत् पात्रचीवरं कस्य प्रापद्यते । यो ऽत्र उपालिन् प्रतिवस्तुको भिक्षुर् गृही वा ।
स्रावस्त्यां निदानम्* । तेन खलु समयेन नवकर्मिको भिक्षुः कालगतः । भिक्षवस् तस्य पात्रचीवरं कौकृत्यान् न भाजयन्ति । एतत् प्रकरणं भगवत आरोचयन्ति । भगवान् आह । सर्वसंघं सन्निपात्यासौ लक्षितव्यः । किं सम्भिन्नकारी न वा इति । यदि संभिन्नकारी । सांघिकं स्तौपिकं करोति । स्तौपिकं वा सांघिकम्* । ( म्स्व् इइ 146 ) एवम् अधार्मिकम्* । तस्य पात्रचीवरं सचीवरचीवरिकं त्रीन् भागान् कर्तव्यम्* । बुद्धस्य । धर्मस्य । संघस्य । सांघिको भिक्षुभिर् भाजयितव्यः । बुद्धसन्तकेन बुद्धपूजा वा गन्धकूट्यां स्तूपे वा नवकर्म कर्तव्यम्* । धर्मसन्तकेन बुद्धवचनं वा लेखयितव्यम्* । सिंहासने वा उपयोक्तव्यम्* । न चेत् सम्भिन्नकारी सर्वम् एव भिक्षुभिर् भाजयितव्यम्* । नात्र कौकृत्यं करणीयम्* ।
श्रावस्त्यां निदानम्* । तेन खलु समयेन संबहुला भिक्षवो जनपदचारिकां चरन्तो ऽनुपूर्वेण स्रावस्त्याम् उपनगरम् अनुप्राप्ताः* । तन्मध्याद् एको भिक्षुः कालगतः । ते संलक्षयन्ति । बहिर् विहारस्य भाजयामः । विहारं प्रविष्टानां सब्रह्मचारिणो ऽपि भागं प्रार्थयिष्यन्तीति । श्रावस्ती तन्निवासिभिर् गोपालकैः पशुपालकैस् तृणहारकैः काष्ठहारकैः पथाजीवैर् उत्पथाजीवैश् च मनुष्यैः समन्ताद् आकीर्णा । ते यत्र यत्र निषीदन्ति भाजयाम इति तत्र तत्र महाजनेन परिवार्यन्ते । ते संलक्षयन्ति । विहारसमीपे भाजयाम इति । ते विहारसमीपे भाजयितुम् आरब्धाः ( 275व्1 = ग्ब्म् 6.863 ) । उपधिवारिकेण दृष्टा उक्ताश् च । आयुष्मन्तः किं कुरुथ । तैर् यथावृत्तं समाख्यातम्* । स कथयति । अहम् अपि सीमाप्राप्त इति । तैस् तस्य विवाचयतो न दत्तम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । ( म्स्व् इइ 147 ) भगवान् आह । अन्तःसीमायाम् अन्तःसीमासंज्ञिनो मृतपरिष्कारं भाजयन्ति । अभाजितं दुर्भाजितम्* । पुनर् अपि सीमाप्राप्तैः सह भाजयितव्यम्* । अन्यथा सातिसाराः । एवम् अन्तःसीमायां वैमतिका भाजयन्ति । अभाजितं दुर्भाजितम्* । पुनर् अपि सीमाप्राप्तैः सह भाजयितव्यम्* । अन्यथा सातिसाराः । बहिःसीमायाम् अन्तःसीमासंज्ञिनो मृतपरिष्कारं भाजयन्ति । अभाजितं दुर्भाजितम्* । पुनर् अपि सीमाप्राप्तैः सह भाजयितव्यम्* । अन्यथा सातिसाराः । बहिःसीमायां वैमतिका भाजयन्ति । अभाजितं दुर्भाजितम्* । पुनर् अपि सीमाप्राप्तैः सह भाजयितव्यम्* । अन्यथा सातिसाराः भवन्ति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेन भिक्षुणा भिक्षोर् हस्ते भिक्षोश् ची वराणि प्रेषितानि । तेन भिक्षुणा येन प्रेषितानि तस्य निश्वासेन परिभुक्तानि । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । अविश्वासे भिक्षवस् तेन भिक्षुणा विश्वासम् उत्पादितम्* । यस्य येन भिक्षुणा प्रेषितानि तस्य तेन विश्वासेन परिभुक्तानि ।
अपि तु भिक्षुर् भिक्षोर् हस्ते भिक्षोश् चीवरकाणि प्रेषयति । यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते । सुपरिभुक्तानि । येन प्रेषितानि तस्य निश्वासेन परिभुंक्ते । दुष्परिभुक्तानि

8.2

भिक्षुर् भिक्षोश् चीवराणि प्रेषयति । यस्य प्रेषितानि स कालगतः । येन प्रेषितानि ( म्स्व् इइ 148 ) तानि तस्य विश्वासेन परिभुंक्ते । दुष्परिभुक्तानि । यस्य प्रेषितानि तस्य कल्पेन तस्य मृतपरिष्कारिकम् अधितिष्ठति । स्वधिष्ठितानि

8.3

भिक्षुर् भिक्षोश् चीवराणि प्रेषयति । येन प्रेषितानि स कालगतः । येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति । दुरधिष्ठितानि

8.4

भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति । यस्य प्रेषितानि तेन प्रतिक्षिप्तानि । येन प्रेषितानि तस्य विश्वासेन परिभुंक्ते । सुपरिभुक्तानि । यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते । दुष्परिभुक्तानि

8.5

भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति । यस्य प्रेषितानि स कालगतः । यस्य प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति । स्वधिष्ठितानि । येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति । दुरधिष्ठितानि

8.6

भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति । यस्य प्रेषितानि तेन प्रतिक्षिप्तानि । येन प्रेषितानि स च कालगतः । यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते । दुष्परिभुक्तानि । येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति । स्वधिष्ठितानि

8.7

भिक्षुर् भिक्षोश् चीवरकाणि प्रेषयति । यस्य प्रेषितानि तेन प्रतिक्षिप्तानि । स कालगतः । येनापि प्रेषितानि स कालगतः । यस्य प्रेषितानि तस्य कल्पेन मृतपरिष्कारम् अधितिष्ठति । दुरधिष्ठितानि । येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकम् अधितिष्ठति । स्वधिष्ठितानि

मूल पाठ: Cīvaravastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc