भाषा

ENहिગુ
ग्रंथ पाठ

चीवरवस्तु · अध्याय 7

7.1

अनुपगतकानाम् आवासे उपगतकः श्रामणेरक आगत्य कालं कुर्यात्* । अनुपगतकैर् उपगतकानां दूतो ऽनुप्रेषयितव्यः । श्रामणेरो वः कालगतः । हरतास्य पात्रचीवरम् इति । अनुपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । उपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्*

7.2

अनुपगतकानाम् आवासे उपगतकः श्रामणेर आगत्यैवं वदेद् ओसारयन्तु माम् आयुष्मन्तः । अनुपगतको भविष्यामीति । स चानोसारितः कालं कुर्यात्* । अनुपगतकैर् उपगतकानां दूतो ऽनुप्रेषयितव्यः । श्रामणेरो वः कालगतः । हरतास्य पात्रचीवरम् इति । अनुपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । उपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्*

7.3

अनुपगतकानाम् आवासे उपगतको भिक्षुर् आगत्य कालं कुर्यात्* । अनुपगतकैर् उपगतकानां दूतो ऽनुप्रेषयितव्यः । सब्रह्मचारी वः कालगतः । हरतास्य पात्रचीवरम् इति । अनुपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । उपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्*

7.4

अनुपगतकानाम् आवासे उपगतको भिक्षुर् आगत्यैवं वदेद् ओसारयन्तु माम् आयुष्मन्तः । अनुपगतको भविष्यामीति । स चानोसारितः कालं कुर्यात्* । अनुपगतकैर् उपगतकानां दूतो ऽनुप्रेषयितव्यः । सब्राह्मचारी वः कालगतः । हरतास्य पात्रचीवरम् ( म्स्व् इइ 117 ) इति । अनुपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । उपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति ( 267व्1 = ग्ब्म् 6.847 ) । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्*

मूल पाठ: Cīvaravastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc