भाषा

ENहिગુ
ग्रंथ पाठ

चित्तविशुद्धिप्रकरण · श्लोक 81-100

81

अमण्डलप्रविष्टो वा सर्वावरणवानपि ।
स्वाधिदैवतयोगात्मा मन्दपुण्यो ऽपि सिध्यति

82

अनेन सर्वसौरित्वं सर्वबुद्धत्वमेव वा ।
जन्मनीहैव तत्त्वज्ञः सम्प्राप्नोति न संशयः

83

यथा प्राकृतलोकेन योगिलोको न बाध्यते ।
बाध्यन्ते धीविशेषेण योगिनो ऽप्युत्तरोत्तरैः

84

महाप्रज्ञामहोपायमहाकृपाधिमोक्षतः ।
महायानसमुद्दिष्टं महासत्त्वस्य गोचरम्

85

यत्कल्पानामसंख्येयैर्न प्राप्तं बहुभिर्मतम् ।
जन्मन्यत्रैव बुद्धत्वं प्राप्यते नात्र संशयः

86

महायानस्य माहात्म्यं पुण्यज्ञानेन सम्भृतम् ।
सर्वज्ञत्वं पदं रम्यं सद्यो जन्मनि लभ्यते

87

आगमश्रुतिचिन्ता तु महायाने न गृह्यते ।
आशयानुशयाभेदाद् यानाभेदः प्रकाश्यते

88

अन्य एवाधिमोक्षो ऽयं तथान्या बोधिचारिका ।
अन्या चित्तविशुद्धिश्च फलमन्धदिहोच्यते

89

समीपे निर्मलादर्शे रूपं निर्मलचक्षुषः ।
यथा भाति सुविस्पष्टं स्वच्छप्रकृतिनिर्मलम्

90

विधूतकल्पनाजालविष्प्रष्टशुद्धचेतसां ।
योगिनाञ्च तथा ज्ञानं प्रज्ञानिर्मलदर्पणैः

91

सूर्यकान्तिसमाश्लिष्टसूर्यकान्तमणौ यथा ।
सहसा प्रज्वलत्यग्निः समथः स्वार्थसाधने

92

अपास्तकल्पनाजालं सूर्यकान्तनिभं मनः ।
प्रज्ञासूर्यां शुसंश्लिष्टं तद्वज्ज्वलति योगिनाम्

93

काष्ठद्वयनिघर्षेण यथा ज्वलति पावकः ।
आदिमध्यान्तसंशुद्धः सर्ववस्तुप्रकाशकः ।
प्रज्ञोपायसमायोगाद्योगिज्ञानं तथा विदुः

94

यथैवैकः प्रदीपो ऽयं वर्त्त्यन्तरसमाश्रितः ।
यथास्वार्थं यथास्थानं करोत्युच्चैः प्रकाशनम्

95

स्फुरणानन्तमूर्तिस्तु प्रज्ञोपायविभावनैः ।
नानाधिमुक्तसत्त्वानां यथाकृत्यमनुष्ठयेत्

96

विधि ज्ञोहि यथा कश्चित्क्षीरादमृतमुद्धरेत् ।
निर्दोषं शीतलं हृद्यं सर्वव्याधिविनाशनम्

97

प्रज्ञाक्षीरमहोपायाद्विधिवन्मथनोत्थितः ।
विशुद्धधर्मधातुः स सुखासुखविनाशनः

98

यथा लता समुद्भूता फलपुष्पसमन्विता ।
तथैकक्षणसम्बोधिः सम्भारद्वयसंयुता

99

[वशद्वेषगतिस्तम्भ] वर्षणाकर्षणादिकम् ।
मद्यमांसरतो योगी कुर्वन्नाप्युपलिप्यते

100

[हस्तकङ्कणबिम्बाय कि]मादर्शः समीक्ष्यते ।
महायाने यतो ऽद्यापि मन्त्रसामर्थ्यदर्शनम्

मूल पाठ: Cittaviśuddhiprakaraṇa · Edition: Prabhubhai Bhikhabhai Patel, Nagpur: Visva-Bharati, 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc