भाषा

ENहिગુ
ग्रंथ पाठ

चित्तविशुद्धिप्रकरण · श्लोक 101-120

101

मातृदुहितृसम्बन्ध[स्तत्त्वतो ऽत्र न कल्प्यते ।
भग्नायोधूपवर्त्तीव] जगदाह तथागतः

102

पञ्चभूतात्मकं शुक्रं शोणितञ्चापि तादृशम् ।
तन्मयः खलु पिण्डो ऽयं को विप्रः कश्च वान्त्यजः

103

[पञ्चस्कन्धात्मकं सर्वं]शरीरं खलु भिक्षवः ।
अनित्यं दुःखशून्यञ्च न जातिर्न च जातिमान्

104

कैवर्त्तीगर्भम्भूतः कश्चिञ्चा[ण्डालजातिमान् ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्

105

स्वसारं मातरं श्वश्रूं स्वपुत्रीं भागिनेयिकाम् ।
ब्राह्मणीं क्षत्रियां वैश्यां विधिज्ञानेन शूद्रिकाम्]

106

एकाङ्गविकलां हीनां गर्हीतामन्त्यजामपि ।
योषितं पूजयेन्नित्यं ज्ञानवज्रप्रभावनैः

107

[सर्वदा स्मितवक्रेण मन्त्रविस्तृतचक्षुषा ।
सम्बोधौ चित्तमुत्पाद्यस्वाधिदैवतभावतः

108

पश्येद्दृश्यं क्षणंकिञ्चिच्छोतव्यं शृणुयात्तथा ।
सत्यासत्यवियुक्तं तुवदेद्वाक्यमतन्द्रितः]

109

स्नानाभ्यञ्जनवस्त्रादिखानपानादियन्ततः ।
स्वाधिदैवतयोगेनचिन्तयेत्पूजनाविधिम्

110

[गीतंवाद्यं तथा नृत्यं सोपायेन व्रती भजेत् ।
अकुर्वन्निह भावेषुसर्वेष्वभिनिवेशनम्

111

स्वात्मभावप्रहाणेनतापयेन्न तपस्यया] ।
सुखाद्यथा सुखंध्यायेत्सम्बुद्धो ऽयमनागतः

112

सर्वकामोपभोगैस्तु रमथमुक्तितो ऽभयात् ।
मा भैष्ट नास्ति वः पापंसमयो दुरतिक्रमः

113

मन्त्रसंस्कृतकाष्ठादिदेवत्वमधिगच्छति ।
किं पुनः ज्ञानवान् कायःकष्टं मोहविचेष्टितम्

114

प्राकृतत्वमहङ्कारंपरित्यज्य समाहितः ।
प्रज्ञोपायविधानेनक्रियामिमां समाचरेत्

115

पङ्कजातं यथा पद्मंपङ्कदोषैर्न लिप्यते ।
विकल्पवासनादोषैस्तथायोगी न लिप्यते

116

[विकल्पोविम्बसङ्काशो दृष्टिदोषैर्न लिप्यते ।
अन्भसा लिप्यते नैवयद्वदुदकचन्द्रमाः]

117

अनादिवासनापङ्कैर्विलिप्तंचित्तरत्नकम् ।
प्रज्ञोपायजलेनैव[क्षालितंसम्प्रकाशते]

118

स्वाधिदेवतयोगस्यस्थिरचित्तस्य धीमतः ।
मुक्तः कुदृष्टिमेघैश्चभासते चित्तभास्करः

119

[प्रज्ञालक्ष्मपरिच्छेदेभूतार्थस्य विनिश्चयात् ।
धर्मधातुरुपादेयो ऽविद्याव्यत्ययवर्जनात्

120

प्रज्ञामुद्गरविध्वस्ते]सहसा कल्पनाघटे ।
प्रकृत्या निर्मलः स्वच्छोज्ञानदीपः प्रकाशते

मूल पाठ: Cittaviśuddhiprakaraṇa · Edition: Prabhubhai Bhikhabhai Patel, Nagpur: Visva-Bharati, 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc