चित्तविशुद्धिप्रकरण · श्लोक 1-20
चित्तविशुद्धिप्रकरण (च्व्प्)
[अनादिनिधनं शान्तं भावाभावविवर्जितम् ।
निर्विकल्पं निरालम्बमनवस्थितमद्वयम्
अदृष्टान्तमनाख्यानमचिन्त्यमनिदर्शनम् ।
अनाश्रयाप्रतिष्ठानं निर्विकारमसंस्कृतम्
सर्वेषामाश्रयं बुद्धं करुणामयविग्रहम् ।
नानाधिमुक्तसत्त्वानां नानोपायप्रदर्शकम्
महारागं नमस्कृत्य पद्मनर्तेश्वरं प्रभुम् ।
इह स्तोकं प्रवक्ष्यामि स्वचित्तप्रत्यवेक्षणात्
योगाचारस्य नयतः सर्वमेव सुनिश्चितम् ।
तत्सर्वमिह वक्तव्यं तस्मादेवत्समाचरेत्]
येन येन हि बन्ध्यन्ते जन्तवो रौद्रकर्मणा ।
सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात्
[विशुद्धेरेव सत्त्वस्य विशुद्धं जायते फलम्] ।
महायाने सुविस्पष्टमुक्तमेतत्सुविस्तरम्
धर्मपुद्गलनैरात्म्यं चित्तमात्रं जगौ मुनिः ।
ततो ऽपि सर्वमुत्पन्नमागमात्यनुकूलकम्
भावग्राहग्रहावेशगृहीतान्प्रतिचोदितः ।
आगमे ऽपि हि सुव्यक्तो विस्तरः करुणात्मना
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः ।
मनसा हि प्रसन्नेन भाषते वा करोति वा
स्वपिता भिक्षुणा वृद्धः शीघ्रं गच्छेति प्रेरितः ।
पतनाच्च मृते तस्मिन्नानन्तर्येण युज्यते
सुम्लानेनार्हतादिओष्टो मङ्गलं परिपीडय ।
उपस्थायकभिक्षुः स मृते तस्मिन्न दोषभाक्
अन्धसंज्ञया नान्धांस्तु मारयन्दोषमश्रुते ।
इत्युक्तं विनये व्यक्तं न दोषो ऽदुष्टचेतसाम्
न स्तूपखनने दोषस्तत्संस्कारधिया यतः ।
केवलं पुण्यराशिः स्यादुपानन्तर्यकारणात्
उपानद्युगलं दत्त्वा मुनेर्मूर्ध्नि शुभाशयात् ।
अपनीय तथा चान्धो राज्यं फलमवाप्नुतः
तस्मादाशयमूला हि पापपुण्यव्यवस्थितिः ।
इत्युक्तमागमे यस्मान्नापत्तिः शुभचेतसाम्
स्वाधिदैवतयोगात्मा जगदर्थक्वतोद्यमः ।
भुञ्जानो विषयान् योगी मुच्यते न च लिप्यते
यथैव विषतत्त्वज्ञो विषमालोक्य भक्षयन् ।
केवलं मुह्यते नासौ रोगमुक्तश्च जायते
मायामरीचिगन्धर्वनगरस्वप्रसन्निभम् ।
जगत्सर्वं समालोक्य किं कथं केन भुज्यते
बाला रज्यन्ति रूपेषु वैराग्यं यान्ति मध्यमाः ।
स्वभावज्ञा विमुच्यन्ते रूपस्योत्तमबुद्धयः
मूल पाठ: Cittaviśuddhiprakaraṇa · Edition: Prabhubhai Bhikhabhai Patel, Nagpur: Visva-Bharati, 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0