भाषा

ENहिગુ
ग्रंथ पाठ

चित्तविशुद्धिप्रकरण · श्लोक 121-134

121

सुप्रसिद्धानि भूतानिक्षित्यग्निजलवायवः ।
क्रियन्ते ह्यन्यथाविज्ञैर्मन्त्रसामर्थ्ययोगतः

122

सर्ववादं परित्यज्यमन्त्रवादं समाचरेत् ।
यस्य मन्त्रस्यसामर्थ्यात्सौख्यभावो ऽपि सिध्यति

123

त्रिरत्नं न परित्याज्यंबोधिचित्तं तथा गुरुः ।
न वध्याः प्राणिनः के ऽपिसमयान्यप्यधिष्ठयेत्

124

मधु रक्तं सकर्पूरंरक्तचन्दनयोजितम् ।
मुनिवज्रोदकं चैवपञ्चैतान्यप्यधिष्ठयेत्

125

अन्यैश्चसमयैर्दिव्यैश्चित्तस्योत्कर्षकारकैः ।
मारुतक्षोभशान्त्यर्थंप्रीणयेच्चित्तवज्रकम्

126

[नाशुचिभावआशङ्क्यो ऽविकल्प्ययोगलीलया ।
समायुक्तेन चित्तेन मन्त्रीसर्वं समाचरेत्]

127

मक्षिकापदमात्रेणविषेणाप्यभिभूयते ।
अणुमात्रा घृणा शङ्कामृत्युकष्टेन संयुता

128

सुयुद्धं वाचरेद्विज्ञःसुपलायनमेव वा ।
आन्तरालिकभावस्तु व्यर्थोवै पतनं भवेत्

129

गुरोराज्ञाञ्च मुद्राञ्चछायामपि न लङ्घयेत् ।
गुणास्तस्य परं ग्राह्या दोषानैव कदाचन

130

आचार्यः परमो देवःपूजनीयः प्रयत्नतः ।
स्वयं वज्रधरो राजासाक्षाद्रूपेण संस्थितः

131

यथोदकमणिः शुद्धःकलुषोदकशोधकः ।
श्रद्धामणिस्तथाप्रोक्तश्चित्तरत्नविशोधकः

132

श्रद्धावान्मुह्यते को ऽपिप्रज्ञाचक्षुर्विवर्जितः ।
उत्पादयेदतःप्रज्ञामागमाधिगमात्मिकाम्

133

श्राद्धो बहुश्रुतः प्राज्ञःप्रकृत्या करुणात्मकः ।
जगद्दुःखविनाशायसुखोपायं स विन्दति

134

चित्तविशुद्धिमाधाययन्मयोपार्जितं सुखम् ।
चित्तविशुद्धिमाधाय तेनास्तुसुखितो जनः

मूल पाठ: Cittaviśuddhiprakaraṇa · Edition: Prabhubhai Bhikhabhai Patel, Nagpur: Visva-Bharati, 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc