भाषा

ENहिગુ
ग्रंथ पाठ

चित्रलक्षणम् · अध्याय 3

3.1

लोकस्य कायमानं मां स्वयम्भूरुपदिष्टवान्
तत् तथैव प्रवक्ष्यामि मानं ब्रूहि प्रजासु च ॥

3.2

देवराक्षसगन्धर्व सिद्धनर्तककिन्नराः
विद्याधराश्च नागेन्द्राः पिशाचप्रेतकायिकाः ॥

3.3

ये भवन्ति च तेषां वै भूपतोनां ततस्तथा
सर्वेषां प्राणिजातानां मानमिदं प्रवर्तते ॥

3.4

परमाणुश्च वालाग्रं लिक्षा यूको यवो ऽङ्गुलिः
अष्टाष्टगुणवृद्ध्या वै ज्ञातव्यमिति निश्चितम् ॥

3.5

परमाणुभिरष्टाभिर् एकं वालाग्रमुच्यते
वालाग्राष्टौ च लिक्षा सा परिमाणज्ञकीर्तिता
अष्टलिक्षा भवेद् यूकः अष्टयूका यवः स्मृतः ॥

3.6

द्व्यङ्गुलोर्द्व्यङ्गुलं मानम् अङ्गुलिः स्याद् यवाष्टकम्
अर्धाङ्गुलिश्चतुर्यवा इति मानं निगद्यते ॥

3.7

विस्तारस्य यथैवार्थ आयामेन प्रकाशितः
तथारोहसमुच्छ्रायौ पर्यायवाचिनौ मतौ
परिमाणानुसरेण वर्णनोयाः क्षितौ नराः ॥

3.8

उच्छ्रायश्च तथायामो राज्ञां न्यग्रोधवृक्षवत्
विस्तृतश्चक्रवर्तिनां श्रुयतां वर्ण्यते मया ॥

3.9

उच्छ्रायश्चक्रवर्तिनां स्वाङ्गुलेः परिमाणतः
अष्टोत्तरशतं ज्ञेयं कदाचिन्न पराङ्गुलेः ॥

3.10

चक्रवर्तिमहीपानाम् उच्छ्रायपरिमाणकम्
साक्षात् सवर्ण्यते चात्र पुर्वोक्तं विस्तरेण च ॥

3.11

मुखादीनां परिमाणं श्रुयतामुच्यते मया
त्रिभागेन विभक्तं च समानेन तथा बुधैः
चिवुनासाललाटं वा चतुरङ्गुलमानकम् ॥

3.12

आयामो मुखभागस्य भवेच्चतुर्दशाङ्गुलिः
उर्द्धभागे त्वधीभागे आयमो द्वादशाङ्गुलिः
आरोहो वदनस्यात्र द्वादशाङ्गुलिमानकः ॥

3.13

आरोहश्चतुरंगुलम् उष्णीषस्य भवेद् ध्रुवं
आयामश्च तथैवास्य षडङ्गुलसमायुतः ॥

3.14

शीर्षं छत्रसमाकारम् आयामो द्वादशाङ्गुलः
द्वात्रिंशत् तस्य मण्दलम् अङ्गुलीनां हि मानतः ॥

3.15

कर्णदेशस्य चायमो द्व्यङ्गुलिपरिमाणकः
चतुरङ्गलिसमुच्छ्रायो रन्ध्रमर्धाङ्गलं मतम्
कर्णारन्ध्रस्य चारोह एकाङ्गुलो भवेद् ध्रुवम् ॥

3.16

समानतलविज्ञेयं भ्रुपृष्ठकर्णयोस्तथा
अक्षिकोषस्य विस्तारः कर्णरन्ध्रसमानकः ॥

3.17

कर्णस्य लुटिकामानं निश्चयेन न कीर्त्यते
भ्रुवोरुच्छ्राय आरोहो द्वौ यवौ चतुरंगुलिः ॥

3.18

सर्वेषामेव शान्तानां भ्रुःस्यान्नवशशाङ्कवत्
नर्त्तने रोदने क्रोधे चापाकारा भवेत् सदा ॥

3.19

भये शोके च भ्रूप्रान्ताव् उन्नतौ क्रमिकौ स्मृतौ
नासाकोशात् समुत्थाय अर्धललाटगामिनौ ॥

3.20

एकाङ्गुलिस्तथा मध्यः रोमकोषसमावृतः
भ्रूमध्यात् केशपर्यन्तं मानं द्व्यर्धाङ्गुलं मतम् ॥

3.21

भ्रूवः प्रभृति भालान्तं मानं स्याच्चतुरङ्गुलम्
द्व्यङ्गुलौ ह्यक्षिकोषः स्यान् नेत्रमध्यं तथैव तु ॥

3.22

चक्षुषोद्वर्यङ्गुलारोह आयामश्चैककाङ्गुलिः
त्रिभागस्तारका ह्यस्य मुखमानसुसम्मता ॥

3.23

चक्षुवत् तारकोच्छ्रायो नयनं चापसन्निभम्
यद् भवेत्तस्य मानं स्याद् यवत्रयप्रमाणकम् ॥

3.24

उत्पलपत्रनेत्रस्य प्रमाणंषड्यवं स्मृतम्
मत्स्योदरसुनेत्रस्य मानमष्टयवं भवेत् ॥

3.25

पद्मपत्रनिभं नेत्रं नवयवैः सुसंनितम्
वराटकाभनेत्रस्य मानं दशयवं भवेत् ॥

3.26

उच्छ्रायश्च तथायामो नेत्राणां वर्णितो मया
निर्विकल्पं भवेच्चक्षुर् योगिनां चापसन्निभं ॥

3.27

कामिनां च तथा स्त्रीणां नेत्रं मत्स्योदरं भवेत्
सामान्यानं तु कर्त्तव्यम् उत्पलदलसन्निभम् ॥

3.28

त्रस्तस्य रुदतश्चैव पद्मपत्रनिभं वरम्
क्रुद्धस्य दुःखितस्यैव वराटकनिभं सदा ॥

3.29

उत्पलदलवन्नेत्रं रक्तान्तं कृष्णतारकम्
दीर्घाग्रसुन्दरं पक्ष्म शुवर्णं सरलं मृदु ॥

3.30

गोक्षीरवर्णवत्स्निग्धं प्रजाहितकरं भवेत्
राजन्नेतत् विजानीयाद् यथा स्यात् नेत्रलक्षणम् ॥

3.31

प्रसन्नपद्मवन्नेत्रां नीलवल्कलसुन्दरं
अन्तराखचितं कृष्णं तारकं श्रीसुखप्रदम्
विलिखयेत् तथा धीमान् चित्रशास्त्रेषु दीक्षितः ॥

3.32

नेत्रमानमिदं ज्ञेयं यथाशास्त्रमुदीरितम्
षट्त्रिंशद्दृष्टिनियम लक्षणमग्र उच्यते ॥

3.33

नासायाः पुनरारोहश् चतुरङ्गुलिमात्रकः
मासाग्रस्य समुच्छ्रायौ द्व्यङ्गुलिपरिमाणकः ॥

3.34

वक्रतायाः पुटस्यापि आयामः स्वाङ्गुलिद्वयम्
नासारन्ध्राग्रदेशस्य मानवं स्याच्चतुर्यवम्
उच्छ्रायश्च तथैवास्य यवद्वयसमायुतः ॥

3.35

देशस्तुरन्ध्रयोर्मध्ये द्वियवपरिमाणकः
आरोहः षड्यवस्तस्य ओष्ठ एकाङ्गुलिः स्मृतः ॥

3.36

अधरो ऽर्धाङ्गुलिस्तस्य गोजी चार्धाङ्गुलिस्तथा
अधरोष्ठस्य चारोहश् चतुरङ्गुलिमानकः ॥

3.37

ओष्ठान्तौ विम्बवद् रक्तौ तथा चापानुकारकौ
अल्पोच्चो मुखकोणः स्यात् सदासुस्मितसंयुतः ॥

3.38

उच्छ्राये द्व्यङ्गुलिर्हनुर् आयामे त्र्यङ्गुलिस्तथा
कण्ठस्य तु समुच्छायश् चतुरङ्गुलकं स्मृतम्
उत्क्षिप्तकण्ठमानं हि ज्ञेयमेतन्न चान्यथा ॥

3.39

अधाधः कण्ठदेशय चायमः स्याद् दशाङ्गुलिः
कशो ऽष्टाङ्गुलकं मानं ततः स्थूलस्त्रिमानतः ॥

3.40

कण्ठस्त्रिबलिभिर्युक्तः कर्त्तव्यः कम्बुवत् सदा
उन्नतः पृष्ठभाग स्यात् परिमण्डलसंयुतः ॥

3.41

पञ्चाङ्गुलं तु गण्डोध्वं अधः स्यात् चतुरङ्गुलम्
चिवुकस्य तथा मानं चतुरङ्गुलकं मतम् ॥

3.42

आयामो मुखगागस्य तथौष्ठस्य विवर्णितः
चतुरस्रं मुखं पूर्णं प्रसन्नं चारुलक्षणम् ॥

3.43

त्रिकोणा कुटिला वृत्ता नैव कार्या मुखाकृतिः
क्रोधयुक् रोषयुक् चैव न मुखं स्यात् कदाचन ॥

3.44

ईदृशैर्लक्षणैर्युक्तं मुखं विलिखयेद् यदि
सुसम्पन्नो भविष्यति नर इह च सर्वदा ॥

3.45

शान्तिकामि मुखं यत् स्याद् दीर्घं खर्तं च वर्तुलम्
त्रिकोणं वा प्रजानाञ्च सामान्यानां भविष्यति ॥

3.46

तदितरञ्च यद् भवेत् पूर्वलक्षणसंयुतं
तद् विज्ञेयं च देवानां मुखस्य मानमीदृशम् ॥

3.47

अत ऊध्र्वं प्रवक्ष्यामि कायमान विचारतः
अविक्षिप्तेन गृह्यतां मनसा च महिपते ॥

3.48

यत् स्थानं कटिदेशस्य उदरस्य तथान्तरा
ज्ञेयं तद् द्व्यङ्गुलं नूनं स्कन्धायामः षडङ्गुलः
दैघ्र्ये त्वष्टाङ्गुलो ज्ञेयो वक्षस्तु द्विगुणं स्मृतम् ॥

3.49

आरोहः स्यात्तु मेट्रस्य षडङ्गुलप्रमाणकः
अष्टादशाङ्गुला श्रोणी आरोहे कथिता बुधैः ॥

3.50

जत्रुतो हृदयं यावन् न कुटिलः प्रदेशकः
हृदयान् नाभिरन्ध्रकः बन्धुरः स्यान्न संशयः
नाभितो मेट्रपर्यन्तं समानं च भवेद् ध्रुवम् ॥

3.51

चतुर्दशाङ्गुलं कट्या नाभेरर्धाङ्गुलं मतम्
मानं च दहिणावर्त्तं यवैकं चुचुकं स्मृतम् ॥

3.52

मण्डलो द्वयङ्गुलो वासः पुनर्देयं चुचूकयोः
बन्धनं च प्रदातव्यं कटिदेशस्य शोभनम्
कटिदेशस्तथा नाभेर् अधस्ताच्चतुरङ्गुलिः ॥

3.53

आयामे द्व्यङ्गुलं मेढ्रं वास्तेयस्तु षडङ्गुलः
बृषणौ नातिलम्बौ हि स्थूलत्वे सप्तकाङ्गुलौ
परिवृतिः समानैव उच्छ्राये चतुरङ्गुलौ ॥

3.54

मेदं षडङ्गुलं प्रोक्तम् अन्तरं स्वोदरान्ननु
षडङ्गुलं भवेत् मानं लक्षणज्ञैरुदाहृतम् ॥

3.55

आयामो जङ्घयोः कार्यः पञ्चविंशतिरङ्गुलः
ऊर्वोर्गुल्फयोश्चैव मानं स्याच्चतुरङ्गुलम् ॥

3.56

प्रान्तद्वयं च जङ्घाया विख्यातं चित्रकर्मणि
गुल्फलग्नप्रदेशस्य आयामश्चतुरङ्गुलः
तथैव मध्यदेशी हि आरोहेण षडङ्गुलिः ॥

3.57

ञ्यङ्गुलं जानुभागस्य आयामे न तथारोहे
जङ्घाद्वयस्य तस्योर्धं मानमष्टाङ्गुलं मतम्
जङ्घयोः स्थूलतामानं भवेद् द्वादशकाङ्गुलम् ॥

3.58

जङ्घाग्रमुन्नतं कुर्यात् पुष्टमसिन संयुतम्
मृदु करिकराकारं न कार्यं विषमं क्वचित् ॥

3.59

गुल्फादेशस्तथा नाऋई प्रगच्छन्नैव दृष्टिताम्
जङ्घायाः पश्चिमो भागः सुवृत्तो ऽल्पोन्नतौ भवेत् ॥

3.60

उच्छ्रायेण तु पार्ष्णीनां मानं पञ्चाङ्गुलं मतम्
आयामस्त्र्यङ्गुल प्रोक्तः पादौ चतुर्दशाङ्गुलौ ॥

3.61

चतुरङ्गुलिको ऽङ्गुष्टो रक्तं पादतलं स्मृतम्
रक्तपद्माग्रसादृश्यं लाक्षारससमायुतम् ॥

3.62

चक्रादिलक्षणैर्युक्तं परस्परसमीपगम्
पादस्य बन्धनं स्यात्तु द्व्युङ्गुलं भूपदेशगम् ॥

3.63

चक्रवर्तिमहीपस्य हंसवच्चरणौ मतौ
भूस्पर्शौ जालवृद्धौ च अष्टाङ्गुलिप्रमाणकौ ॥

3.64

कूर्मपृष्टसमाकारौ सुन्दरचिन्हसंयुतौ
पञ्चाङ्गुलिसमायामौ दर्शने सुमनोहरौ ॥

3.65

कनिष्टिकात्तयारोहः षडङ्गुलिसुसंयतः
अङ्गुष्टस्य तथायामो द्व्यङ्गुलः साधुनिश्चितः
परिवृतिः षडङ्गुलिः आरोहे चतुरङ्गुलिः ॥

3.66

अग्रे समुन्नता कार्या दीर्घा अङ्गुलयस्तथा
अङ्गुष्ठापेक्षया स्थूला आरोहे त्र्यङ्गुला मताः ॥

3.67

एकैकाङ्गुलितो न्यूनाः सर्वाः स्युः क्रमिकागताः
कनिष्ठिकासमुच्छ्राय परिवृत्तिर्द्विरङ्गुलिः ॥

3.68

अङ्गुलीनां तु जालाश्च सन्नद्धाः सुन्दरास्तथा
नाड्यविषमसंपुष्टा अस्थि चादर्शनं गतम् ॥

3.69

नखाश्चार्धशशाङ्कवत् रक्तिमाः स्निग्धवर्णकाः
सिन्दुरलिप्तसर्वाङ्गाः प्रदिप्ताग्निशिखा यथा ॥

3.70

चन्द्रकान्तसमुज्ज्वलास् तथा सुस्पष्टसंयुताः
अव्रणा मृदवः पूर्णाः यवमानेन पूरिताः ॥

3.71

अङ्गुलिस्तु त्रिभागः स्यात् स्पष्टा वृद्धाङ्गुलिस्तथा
तस्याः पार्श्वाङ्गुलेर्मध्ये स्थानमर्धाङ्गुलं मतम् ॥

3.72

गुल्फादेशादधोभागश् चरणमितिसंज्ञितम्
तच्चरणसमुच्छ्रायः चतुरङ्गुलको मतः
इत्थं चरणमानं स्यान् मया प्रोक्तं सुचिन्तितम् ॥

3.73

हस्तस्य लक्षणान्यत्र श्रुयन्तां कथयाम्यहम्
तलं सप्ताङ्गुलं दीर्घं विस्तारः पञ्चकाङ्गुलिः ॥

3.74

मध्याङ्गुलेः समुच्छ्रायः पञ्चाङ्गुलं प्रकीर्तितम्
तर्जन्या न्यूनता बोध्या पर्वार्धेन सुसंमता ॥

3.75

अनामिकाङ्गुलीमानं तद्वदेव भवेद् ध्रुवम्
कनिष्ठिकाप्यदीर्घा स्यात् पार्श्वाङ्गुलिक्रमादनु ॥

3.76

अङ्गुष्ठस्य सदोरहोश् चतुरङ्गुलको मतः
अङ्गुष्ठे द्वे तु पर्वणी समेनैक यवो भवेत् ॥

3.77

तस्याधो मांसपिण्डश्च त्र्यङ्गुलिसम्मितो भवेत्
अङ्गुष्ठस्य प्रमाणं तु नवयवकसम्मतम्
आयामो ऽष्टयवः कार्य आरोहस्तु यवा नव ॥

3.78

अङ्गुष्ठात्तु चतुर्भागा नद्धा जालक्रमादनु
नखा रक्तास्तथा स्वच्छाः शुक्तिवच्चारुतान्विता ॥

3.79

अङ्गुष्ठपार्श्वमांसं त्वा यामे अङ्गुलकं मतम्
अङ्गुष्ठान्तं तु करभात् सप्ताङ्गुलमानकम् ॥

3.80

आयामश्च तथारोहः क्रमादङ्गुष्ठयोर्मिथः
यथाशास्त्रमुपन्यस्तः शुभं कार्यं विचारयन् ॥

3.81

पर्वार्धेन मिताः कार्या नखाः सूक्ष्मां नखाग्रकाः
सृष्यन्ते च यवादृशः पर्वतरेखा त्वदोषभाक् ॥

3.82

पर्वं दीर्घं च वृतं च करतलसुशोभनम्
तलौ पद्मसमौ रक्तौ करस्यैवं विधानतः ॥

3.83

अकुटिलमवक्रं च गम्भीरं सूक्ष्मकं तथा
रेखात्रयं करे प्रोक्तं रक्तवर्णं सुशोभनम् ॥

3.84

श्रीवत्सचक्रचिह्नस्व स्तिलक्षण समन्वितम्
कार्पासस्पर्शकोमलं क्षौमसूत्रमनोहरम्
सुखदं चारु सुस्पर्शं कुर्यात् करतलं शुभम् ॥

3.85

समन्तान् मांसपूर्णं वै नाऋई दृश्या कदापि न
हस्तपृष्ठं सदा स्निग्धम् उन्नतं च भवेद् ध्रुवम्
सूक्ष्मा अङ्गुलिजाला हि सुन्दरं च तनुस्तथा ॥

3.86

उत्पलाभः सदा रक्तो नागेन्द्राभोगसन्निभः
नखोदरस्तनुः स्निग्ध उन्नतः करशोभकः ॥

3.87

आरोहायाममानं तु हस्तस्य गदितं मया
बाहूनां मानमारोहं धीमन् शृणु वदानि ते ॥

3.88

उभयोस्तु तथा बाह्वीर् मानं कुर्याद् यथाविधि
षट्त्रिशकं प्रमाणं वै अङ्गुलीनां विधानतः
अष्टादश प्रबाहोश्च बाहोश्चापि तथैव च ॥

3.89

स्कन्धाग्रस्य भवेन् मानं षडङ्गुलिसुसम्मतम्
आयामो बाहुभागस्य ज्ञेयं पञ्चाङ्गुलं सदा ॥

3.90

अङ्गुलिर्मणिबन्धः स्यात् प्रवाहू चतुरङ्गुली
विशालो वर्त्तुलाकारः सुस्पष्टोरंशो भवेत् पुनः ॥

3.91

आरोहो भुजयोर्यस्तु भवेदष्टादशाङ्गुलिः
आकरादष्टचत्वारिशत् नाऋइपर्व त्वदृश्यकम् ॥

3.92

हस्तौ न जानुपर्यन्तौ दीर्धौ सूक्ष्र्मौ च सुन्दरौ
समन्तान् मांसपूर्णौ च भवेतामानपूर्ण्यतः ॥

3.93

गोपुच्छाग्रसमौ तावत् क्रमेणोच्चावचौ पुनः
बाहू दण्डायमानस्य जानुपर्यन्तगामिनौ ॥

3.94

तस्माद् राजेन्द्र हस्तेन जानुप्राप्त उदीर्यते
बाहुप्रबाहुमानानि आयामारोहः कीर्त्तितः ॥

3.95

पुनरग्रे प्रवक्ष्यामि लक्षणानि शुभानि वै
यानि पुर्वं न चोक्तानि तानि तुभ्यं वदाम्यहम् ॥

3.96

केशानां प्रान्तभागात्तु स्थानं कट्यास्थिविस्तृतम्
परिमाणं षडङ्गुलं ज्ञेयं सदा महीपते
स्कन्धस्थलस्य मानं हि षोऋअशाङ्गुलिसम्मितम् ॥

3.97

आरोहस्तस्य मध्यस्य दशाङ्गुलं भवेद् ध्रुवम्
आयामे चाङ्गुलीनां ही संख्या यायाद् नवान्विता ॥

3.98

स्कन्धदेशस्य मध्यांश आरोहायामशोभितः
पृष्ठमध्यः षडङ्गुलिर् उर्ध्वे तु विंशतिर्मता ॥

3.99

मध्यस्य द्वयङ्गुलायामः पृष्ठं भागेन सुन्दरम्
पुरुषाणामिदं मानं स्त्रीणां भागः स एव हि
मांसपेश्यल्पसंयुतः सर्वशरीरशोभनः ॥

3.100

नितम्बपार्श्वमानं स्यात् षडङ्गुलिसमन्वितम्
चतुरस्रं च विज्ञेयं मण्डलान्वितनिम्नगम् ॥

3.101

स्थानात् तस्मात् समारभ्य श्रोणीसीमासमीपगम्
चतुरङ्गुलं स्थानं स्यात् पायुस्तु द्व्युङ्गुलं मतम् ॥

3.102

नितम्बदेश आरोहे चाष्टाङ्गुलिसमन्वितः
नातिसंकोचमापन्न आयामः सप्तकाङ्गुलिः
चारुमण्डलयुक्तश्च नातिप्रसारितो भवेत् ॥

3.103

आरोहायामयोः सर्वं लक्षणं शास्त्रसम्मतम्
निर्दिष्टं चावबोधार्थं पुनरत्र प्रवक्ष्यते
अविक्षिप्तेन चित्तेन गृह्यतां लोकहेतवे ॥

3.104

दन्तशिरस्य लोभानां व्यवस्था क्रमशो यथा
वर्णस्य लक्षणं चैव देवमुखे न दीयते ॥

3.105

सुग्रथिताः समादन्ताः स्निग्धवर्णाः सुतीक्ष्णकाः
दधिमुक्ताब्जवच्छुक्लाः स्वच्छाः श्वेता हिमा इव ॥

3.106

चत्वारिशच्छुभा दन्ताः श्वदन्तैश्च सुशोभिताः
आरोहे त्रियवा ज्ञेया आयामे यवयुग्मकाः ॥

3.107

दन्तमूलं तथा तालु जिह्वासीमा च लोहितम्
जातीकुसुमसंकाशं श्वदन्ताभं सुशोभनं ॥

3.108

श्वदन्तानां यवार्धेन वृद्धिः कार्या विचारयन्
तीक्ष्णाग्रपरिमण्डलं मृदु मृणालतन्तुवत् ॥

3.109

पद्मपत्रप्रतीकाशः कोमलश्च सुलक्षणः
स्थिरतडीन्निभो जिह्वाद् एशः स्पष्टश्च रक्तिमः
नवार्धपर्णवच्चारुः मुखे वै विततो भवेत् ॥

3.110

ऐरावतस्य वृंहती हयराजस्य नादवत्
मेघरवस्य गम्भीरा वाणी प्रोक्ता सुलक्षणा ॥

3.111

जालरेखानिभा केशाः शिरो ऽलंकरणं गताः
इन्द्रनीलसभाः कृष्णा भ्रमराञ्जनसन्निभाः ॥

3.112

मयूरकण्ठरोमाभाः कोकिलाभाः शिरोरुहाः
नीला देदीप्यमानाश्च पृष्टमूलसमागताः ॥

3.113

सुन्दरा दक्षिणावर्त्ताः केशरिणः सटाप्रभाः
जालरेखाङ्किताः कोणाः केशचूऋआ मनोहराः ॥

3.114

बाहुमूलोपजङ्घासु नासाकर्णमुखेषु च
जङ्घासु कण्ठगण्डेषु केशा न स्युर्महात्मनाम् ॥

3.115

मृदुसूक्ष्मैस्तथा स्निग्धैर् जालरेखैः सुशोभनैः
केशानां परिमण्डलैर् नीलाञ्जनसमप्रभैः
वक्षस्थलं नृपाणां च शोभितं स्यात् सुलक्षणम् ॥

3.116

देवभूतमनुष्याणां मुखे श्मश्रु न रोम च ॥

3.117

एतेषां देवदेहस्तु रोमभिः परिवर्जितः
षोऋअशवर्षपूरकं शरीरं तद्धि कथ्यते ॥

3.118

सुराणां केशजालं तु सूक्ष्मलतेव संगतम्
नीलं चक्षुर्मनोग्राहि सर्वसत्त्वसुखप्रदम् ॥

3.119

जम्बुनदसमाहृत तप्तकाञ्चनवर्णकः
देदिष्यते च देहो ऽस्य पातचम्पकपुष्पवत् ॥

3.120

कमलदलकोषस्य प्राकार इव तृप्तिदः
उत्तमः पुरुषो ज्ञेयः लक्ष्मणं चक्रवर्त्तिनः ॥

3.121

गजराजगतिर्यस्य वृषराजपदोन्नतिः
मृगराजगतिस्थैर्यं लक्ष्मणं चक्रवर्त्तिनः ॥

3.122

गजवत् सबलौ पादौ वृषवदाननं खरम्
वदनं सिंहवद् राज हंसतेजः समायुतः ॥

3.123

वेशदृशां गतिं चाथ अतिक्रम्य च सर्वेषाम्
दृश्यवन्नाटकस्येव भूतानां शिक्षको यथा
गतिरस्य भवेद्राजन् सर्वेषां च मनोरमा ॥

3.124

सुगन्धस्त्वक् कृशः स्निग्धी दर्पणस्पर्शकोमलः
धूलिमलेन निर्लिप्तः लक्षणं चक्रवर्त्तिनः ॥

3.125

प्रदीप्तमणिसंकाशः श्वेतवस्त्रसुशोभितः
समन्तात् किरणावृतः राजा लेख्यः कृशः सदा ॥

3.126

निर्मेधशशिच्चारु प्रभामण्डलमण्डितम्
शरीरं यस्य राजेन्द्र लक्षणं चक्रवर्त्तिनः ॥

3.127

मुखं चन्द्रदृशं श्वेतं सुग्निग्धश्चापरः शशी
धरापृष्टे समायात इत्थं माधुर्यमण्डितः
भ्रूवोः कण्ठस्य भालस्य सौन्दर्यं हि मुखस्य च ॥

3.128

आकुञ्चितमृदुस्निग्ध चारुकेशः सुनासिकः
चार्वोष्टं रक्तिमापूर्णं स्वच्छा दन्ता नभो यथा ॥

3.129

दीर्धोत्तम च पक्ष्म हि स्निग्धवर्णं भवेत्तथा
नीलं कृष्णं च दीर्घं च चक्षुः स्यात् सुमनोहरम्
भ्रूवौ दीप्तौ सदा ज्ञेयौ नेत्रानन्दविधायकौ ॥

3.130

फुल्लारविन्दकोषस्य कर्णयोराकृतिः समा
ईषद्रोमौ मनोहरौ शरीराङ्गविभूषणौ ॥

3.131

कर्णयोर्लुटिके तस्य क्रमिके शङ्खसन्निभौ
बद्धस्कन्धौ सुपूर्णांशौ शोभनमङ्गमण्डलम् ॥

3.132

मांसपुर्णं भवेद् वक्षः तस्यारोहो यथाक्रमन्
आयामश्च यथायथं चानुपूर्व्येण संगता ॥

3.133

सिंहोदरवद् विज्ञेया कटिरावर्तिता भवेत्
दक्षिणावर्तिनो नाभिः गभीरा स्याद् यथायथम् ॥

3.134

ऐरावतसमानौ हि लिङ्गकोषश्च सुन्दरः
समन्तात् मण्डलाकारः आभादृश्या भवेद् ध्रुवम् ॥

3.135

गजशुण्डसमा जङ्घा अनुक्रमेण विस्तृता
मुखेषु चोन्नता ज्ञेया गुल्फो ऽदृश्पो भवेत् तथा ॥

3.136

सुबद्धाङ्गुलिसुन्दरौ कूर्मवत् मांसलौ तथा
अर्धचन्द्रप्रभायुक्ता -ङ्गुलिचक्रपदाङ्कितौ
पादपृष्टोमृदू स्यातां कोमलौ हरितौ स्मृतौ ॥

3.137

वृषपुच्छानुपूर्वियौ दीर्घाङ्गुलियुतौ करौ
नखप्रभासमुज्ज्वलौ प्रसारे दीर्घकौ यथा
परिमण्डलसम्पन्नौ चक्ररेखास्वलङ्कृतौ ॥

3.138

चम्पकदामशोभितः मरालगातसंयुतः
सुसंस्थानसमापन्नः सर्वाङ्गेण मनोहरः ॥

3.139

तेजस्वी वीर्यवान् राजन् चक्रवर्त्ती सदा भवेत्
आयामारोहमानं च लक्षणं तदुदाहृतम् ॥

3.140

देहे जङ्घोपजङ्घा च भृशं विकशिता भवेत्
सुहस्तौ चरणौ स्यातां तथा पर्व च दृश्यते ॥

3.141

कुक्षिपृष्टे सुशोभिते मुखं चारु मनोहरम्
शोभितौ च भुजौ स्यातां देहो मानान्वितो भवेत् ॥

3.142

अङ्गानि मांसपूर्णानि शरीरं स्निग्धवर्णकम्
प्रियौदार्यगुणा यत्र राजहंसगतिस्तथा
चारुदेहो महीपतेः चक्रवर्ती स उच्यते ॥

3.143

प्रसिद्धैः शिल्पिभिः कार्यं मानवाङ्गेषु यत्नतः
शीर्षकष्टभुजद्वन्दं जङ्खोपजङ्खसुन्दरम् ॥

3.144

उपयुक्तेषु सर्वेषु परिमाणं तु यत्र च
तत्र स्वाङ्गुलिना कार्यं मानं सर्वत्र कर्मणि ॥

3.145

आरोहायामपीनत्वे प्रत्यङ्गं समतां भजेत्
विधिना परिमाणेन सम्म्पन्नं शोभितं भवेत् ॥

3.146

अती ज्ञेयञ्च पण्डितैः परिमाणं सुयत्नतः
परिमाणप्रतिष्टानो -पायादिभिर्विहीना या
प्रतिमा सा परित्यक्ता सुरदेवैः सदा खलु ॥

3.147

पिशाचा राक्षसा भूता वसन्ति त्वरित तथा
शोभितान् नाशयन्ति च अमङ्गलं भयं भवेत् ॥

3.148

आरोहायामयोः राजन् लक्षणं कथितं मया
यथेच्छं वै विभक्तव्यं चतुर्भागेन मुख्यतः ॥

3.149

वलिः सूर्यो दाशरथिः रामो मनुसुतस्तथा
परिमाणानुसारेण कार्यो भिन्नो वीचक्षणैः ॥

3.150

भद्रौ द्वयङ्गुलिना न्यूनो मालव्यश्चतुरङ्गुलिः
रुचको ऽष्टाङ्गुलिन्यूनः शशकश्च दशाङ्गुलिः ॥

3.151

अप्रियो न यथा यायात् तथा मानं विचारयेत्
किं भवेत् परिमाणेन शरीरं चेदसुन्दरम् ॥

3.152

चतुर्णां च तथा राज्ञां परिमाणस्य लक्षणम्
ब्रह्मणा तु प्रदर्शितं विस्तरं ब्रवीमि ते ॥

3.153

सर्वस्य लेखने ग्रन्थे विस्तारो भवति ध्रुवम्
तेन त्रस्यन्ति चाल्पज्ञा अश्रुतिकारणान् ननु ॥

3.154

नारीपुरुषयोः सत्सु लक्षणेषु प्रजापतिः
द्वादशेषु सहस्रेषु पञ्चश उपदिष्टवान् ॥

3.155

नरलक्षणयुक्तेषु तथानिर्दिष्टपञ्चधा
तुभ्यं प्रदर्शयामि चेद् गच्छेद् ग्रन्थो विशालताम् ॥

3.156

चक्रवर्त्तिनरेन्द्रस्य लक्षणं कथितं मया
विधिवत् परिमाणञ्च अन्यप्रदर्शनेन किम्
उत्तमपुरुषादीनां तेन मानं ध्रुवं भवेत् ॥

3.157

अतो बुद्धया सुनिश्चित्य भद्रो लेख्यो विचारयन्
स च भवेत् समुच्छ्राये षडुत्तरशताङ्गुलम् ॥

3.158

रुचकस्य समुच्छ्रायः शतसंख्यान्वितो भवेत्
मालवस्य तथोच्छ्रायश् चतुःशतमिताङ्गुलम् ॥

3.159

शशकस्य समुच्छ्राये संख्याष्टनवतिः सदा
अङ्गुलीनां विधातव्या चित्रशास्त्रविशारदैः ॥

3.160

अतो ऽन्योमाननियमो न भूतो न भविष्यति
उत्तमाधममध्यम प्रधानानाञ्च भूभृताम्
आरोहाथाममानं तु आलोच्यात्र प्रदर्शिनम् ॥

3.161

उच्छ्रायो नवरत् स्त्रीणा ज्ञेय एकाङ्गुलिः कृशः
एकाङ्गुलिस्तथा राज्ञा पुष्टिर्ज्ञेया महामते ॥

3.162

नाभिजङ्खोपजङ्खानां लटिकण्ठोपजानुनाम्
शीर्षदेशस्य वक्षसस् तथा चरणयोर्नृप
आरोहो नाप्रियो यायात् तथा मानं विधीयताम् ॥

3.163

उत्तममध्यमाधम मानं तु क्रमिकं मतम्
आरोहश्च तथायामः तेषामत्र प्रदर्शितः
नारीणां परिमाणं च सर्वं शृणु क्रमेण हि ॥

3.164

राज्ञां यथा प्रदर्शितं मानेन च तथायुतम्
सम्यग् विचार्य शेमुष्या बहुस्थानप्रतिष्ठितम् ॥

3.165

समद्विभागसम्पन्नं निष्कुटिलं सुकोमलम्
लेख्यं चित्रमनिन्दितं नेत्रप्रीतिविवर्द्धनं ॥

मूल पाठ: Citralakṣaṇam (= NCit) · Edition: Asoke Chatterjee Sastri: The Citralakṣaṇa : An Old Text of Indian Art, Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc