चित्रलक्षणम् · अध्याय 2
यथोक्तं ब्रह्मणा पूर्वम् आचष्टे भूपतिं तथा
लिखनादिविधिं सम्यक् चित्रस्य परिनिर्मितो ॥
स्थावरे जंगमे नष्टे प्रलयान्ते च वै पुरा
प्रादुरभूत् सुवर्णाण्डं तमो हत्वा जलात् किल ॥
तस्मादण्डात् प्रादुरभूत् लोकपितामहः स्वयम्
ओमित्येकाक्षरं तस्माद् वेदविद्याश्च कल्पना ॥
चतस्रश्च प्रजास्तासां रुपसंज्ञादयस्तदा
आयुषा सहितस्यैव ब्रह्मणो जातिरेव च ॥
स्थानं चर्या च धर्मश्च न्यायश्च प्राभवन् तदा
एवं कृते सति ब्रह्मा चिन्तयत् जगतो हितम् ॥
एवं चिन्तयतस्तस्य मतिरित्थं बभूव ह
कथं जनाश्च जानीयुः संज्ञां देवमहीभूजाम्
अप्रमादेन चादरः सदा तेषु कथं भवेत् ॥
ब्रह्मेत्थं चिन्तयित्वा तु विष्णोः शिवस्य चात्मनः
शक्रस्य सर्वदेवानां परिमाणं गुणं तथा ॥
सवस्त्रं विविधस्थितम् अलंकारास्त्रसंयुतं
मनोरमं सुरुपं च अत्यन्तस्रदृशं तथा ॥
ससविभक्तसर्वाङ्गं प्रत्यङ्गं च यथायथम्
मिश्रितेन च वर्णेन चित्राकारं विनिर्ममे ॥
विलोक्य तानि चित्राणि नेत्रमूलात् प्रमोदिताः
साधु साध्विति संपूज्य प्रशंशसुर्विधिं सुराः ॥
इमे देवाः प्रसन्नाश्च स्वप्ताकारं च लेभिरे
अधिष्ठानं प्रभावं च कृतवन्तस्तथा इमे ॥
प्राह सप्तसुरान् ब्रह्मा अस्तु पुण्यं समाश्रितम्
अद्य प्रभृति सर्वत्र युष्माकं प्रतिमासु च
नात्र शङ्का कृथा नरः पूजयिष्यति वः सदा ॥
शूद्धया दानेन विधिवत् तत्परायणमानसः
मनुष्येषु च यो नाम भवन्तं पूजयिष्यति
तस्मै कामस्य सिद्धये नैरुज्यं संप्रदास्यति ॥
नाना प्रकारदुःस्वप्नात् द्वेषग्रस्तेभ्य एव च
सर्वेषा रक्षण कृत्वा पापान् नाशयति ध्रुवम् ॥
धर्मश्च सदृशो भाव्यः रक्षोहानिर्भवेद् ध्रुवम्
यशोवृद्धिर्भवेद् विश्वे युष्माकं परिपूजनात् ॥
लोकपूजाव्यवस्थायै प्रतिमानां यथायथम्
नामादिकीर्तनं कार्य स्तवपूजादिकं तथा ॥
प्रतिमां यां प्रतिदिनं पुण्यात्मा पूजयिष्यति
तयैव दीयते शान्तिस् तस्मै भक्ताय सर्वतः ॥
एवं ववत्विति प्राहुर् देवाः प्रसन्नमानसाः
स्वीयवेषैः स्वचेतसा स्वाधिष्ठानं समागताः
इत्थं पूजाभवद् विश्व वासिभिस्ते प्रपूजिताः ॥
परिमाणादिकं तेषां मत्तः श्रुत्वा च लक्षणम्
अद्य मनुष्यलोकेषु प्रचारय प्रयत्नतः ॥
ब्रह्मणश्च मया प्राप्तं विद्योत्तमा च लक्षणम्
अशेषं परिमाणं च तुभ्यमद्य प्रदीयते ॥
त्रिलोकेषु च पूज्यानां सर्वेषां देहिनां तथा
पापहानिकरं भीतेर् नाशकम् नेत्रमोदकं ॥
आद्युत्पन्नञ्च दोषेण हीनं नानाश्रयं परम्
विजानीहि क्षितीन्द्र त्वं यशोराशिविवर्धकम् ॥
मूल पाठ: Citralakṣaṇam (= NCit) · Edition: Asoke Chatterjee Sastri: The Citralakṣaṇa : An Old Text of Indian Art, Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0