चित्रलक्षणम् · अध्याय 1
ब्रह्माणं च महादेवं नारायणं सरस्वतीम्
वरदां च मया नत्वा क्रियते जयमंगलम् ॥
प्रजापतेस्तथा शम्भोः पद्मास्यायास्तथा गिरम्
पार्वत्या अनुसृत्यैव जायतां किल पण्डिताः ॥
महादेवाय देवाय सर्वविद्यविजानते
नमो नमो मया सम्यग् उच्यते चित्रलक्षणम् ॥
आदौ चन्द्रमसं वन्दे हरं च चन्द्रशेखरं
विष्ण्विन्द्रौ सूर्यमग्निं च वरुणं मरुतं तथा ॥
नमस्करोम्यहं चैव विश्वकर्मप्रजापती
नग्नजितं नमस्कृत्य त्वाचार्यांश्च पुनः पुनः ॥
वर्णं च चित्रकर्माथ शास्त्रानुसारतस्तथा
यथाज्ञानं यथाशक्ति संक्षेपेण मयोच्यते ॥
विश्वकृन्नग्नजिद्देव प्रह्लादसारमुज्ज्वलम्
लक्षणमनुसृत्यैच विदुषां सुधियां पुनः ॥
संगृह्य मतिवृद्धये नानाशास्त्रसमुद्धृतम्
उच्यते चित्रलक्षणं शृण्वन्तु तद्विदा जनाः ॥
पुरेदं लक्षणं श्रुत्वा नरराजो महोधरः
धर्मज्ञः सत्यनिष्ठश्च बुद्धिमांश्च यशोऽन्वितः
विश्रुतो भयजिन्नाम्ना तथाभूत् धरणीतले ॥
गुणोत्तमस्य भूपस्य धार्मिकस्य प्रशासने
शतसहस्रवर्षाणि चायुः प्रजाः प्रपेदिरे ॥
नीरोगा न च हन्तारो मनोरोगविवर्जिताः
अकालमृत्युहीनास्ताः कुतः क्रोधाः कुतो मलाः ॥
वायुः सुप्रवहश्चैव शक्रः सुवर्षकस्तथा
वर्णरससमेतानि वीजमूलफलानि च ॥
वर्णाश्रमा हि चत्वारो न च्युता धर्मतत्पराः
ऋद्धिगुणसमायुक्तं श्रीमद् विकसितं जगत् ॥
एवम्भूते स्थिते राष्ट्रे सुखशान्तिसमन्विते
भयजितो मनः शुद्धं प्रवृत्तं तपसि द्रुतम् ॥
सुदुष्करं तपः कृत्वा राज्ञातिशुद्धचेतसा
वरा बहुविधा प्राप्ता देवाल्लोकपितामहात् ॥
विषयस्तस्य शत्रुभिर् देवास्त्रैरपि दुर्जयः
उत्तमाप्रतिरोध्या च सर्वशास्त्रे मतिस्त्वथ ॥
सर्वगुणैरुपेतस्य पराक्रान्तस्य धीमतः
महाभागस्य देवानां प्रभावैः प्राप्तविश्रुतेः ॥
सर्वविद्याश्रयस्यास्य मूर्त्तधर्मस्य बोधिनः
मणिपुत्रसमाख्यस्प एतादृशस्य भूपतेः ॥
सविधे त्वागतः कश्चिद् रुदन् विप्रो ऽतिदुःखितः
कथं रोदिषि भो विप्र चेत्यपृच्छद् द्विजं नृपः ॥
क्रुद्धेन तेन विप्रेण कथितो नृपतिस्तदा
तव शासनकाले ऽस्मिन् देशे ऽकालमृतियतः ॥
ततो ऽधर्मेण राज्यं तं शास्सीदं नृप निश्चितम्
विष्मयो य इतः पूर्वं न जातो ऽसौ प्रवर्तते ॥
मदीयवंशरक्षाकृत् लक्षणाकृतिसुन्दरः
अकालमृत्युना कस्मात् क्रोऋअतो ऽपहृतः सुतः ॥
ब्रम्ह प्रियौ हि राजन् त्वं सर्व जानासि भूतले
प्राणतुल्यं सुतं मह्यं देहि स्वामिन् कृपान्वितः ॥
दयां यदि न कुर्यास्त्वं शक्तिमन् गुणवन् नृप
तृणखण्डाणिव प्राणान् त्वत्सविधे त्यजाम्यहम् ॥
भाषिते तु द्विजेनैवं बुद्धिमान् पुरषोत्तमः
आकर्षणे सुतं तस्य मतिं चक्रे नृपालकः ॥
सान्त्वितस्तु नृवाक्येन "आगच्छ मम दास हि"
सूर्यवर्चोधरं यमम् उदितं तत्र दृष्टवान् ॥
धर्मराजं जगद्बन्द्यं प्रणम्य भयजिन्नृपः
ब्राह्मणस्य हितार्थाय सादरं वाक्यमब्रवीत् ॥
प्रत्युपकृद्द्विजातेस्तु प्राणेभ्यो ऽपि सुतः प्रियः
चाकाले ऽपहृतो यो ऽसौ तव दूतेन दुर्धिया ॥
प्रभो त्रिभुवनस्यापि दीयतां तनयः प्रियः
विश्वकर्मन् द्विजन्मने अस्मै प्रीत्या च धीमते ॥
श्रुत्वा प्रेताधिपो वाक्यं पूजनीयं हसन् नृपम्
ददौ प्रत्युत्तरं मृदु तेजसा पूरितं वचः ॥
स्वकीयकर्मवशाद् जीवाः सर्वे मद्वशगा ध्रुवम्
कस्याप्याकर्षणे त्यागे स्वेच्छाशक्तिः कुतो मम ॥
सुखं वा यदि वा दुःखं सर्वं कर्मवशं सदा
तस्मात् राजन् विजानीयान् मया नैव प्रगृह्यते ॥
मद्गृहं प्रतिपद्याथ शरीरी न निवर्तते
कालेन महताकृष्टो द्विजपुत्रो बलीयसा ॥
कुशलं चाकुशलं वा सर्वमिहानुभूयते
कर्मानुसारिणी भूमिर् विज्ञेया च सदा नृणाम् ॥
एवमुक्तः पुनर्भूपः प्राह वैवस्वतं यमम्
मत्प्रार्थनावशाद् देव देह्यस्मै पुत्रमुत्तमम् ॥
न शक्यते न शक्यते यम आह पुनः पुनः
देहि देहि सुतं देव राज्ञापि प्रार्थितः पुनः ॥
आग्रहस्यातिशय्यं च तयोरित्थं बभूव ह
व्याकुलौ ती महायुद्धे तदा लिप्तौ बभूवतुः ॥
तिष्ठ तिष्ठेति त राजा बहुशः प्राह वीरहा
स्थितो ऽस्मीति रणे राजन् तमवोचद् नृपं यमः ॥
असंख्यानां च वाणानां तीक्ष्णानां परिवर्षणम्
अकरोद् भयजिद् राजा यमस्योपरि सर्वतः ॥
श्रुतघ्नं सर्वतो दिव्यं मेघतो वारिवर्षवत्
अप्रतिरोधरुपं तद् अस्त्रं ववर्ष धर्मराट् ॥
तेन राजा महाक्रुद्धो महाप्रभावशालिभिः
यमदूतांश्चदेवास्त्रैः प्रपीड्य मुमुदे भृशम् ॥
शूलासिप्रासमुद्गरा यमदूतविनिर्गताः
भूपेन सर्वथा नष्टा भयप्रवर्तका इमे ॥
प्रेतो दारुणरुपी च प्रतिदिशमधावत
नष्टः सेनापतिश्चैव आगमदाहवाद् द्रुतम् ॥
ततः प्रेताधिपो देवो दृष्ट्वा तं तु पराजितम्
यथाज्ञाकारिणं दण्डं जग्राह प्रतिहिंसया ॥
कालाग्निसदृशं दृष्ट्वा उत्क्षिप्तं पृथिवीपतिः
ब्रह्मशिरो ऽङ्कित चास्त्रम् आत्महस्ते गृहीतवान् ॥
सर्वे भूता भयत्रस्ता महाभूतो ऽपि सर्वतः
बभूवुरातुरा सर्वे तेन दुर्लक्षणेन वै ॥
दुःखितां सकलां पृथ्वीं दृस्ट्वा ब्रह्मा तथा सुरैः
आजगाम स्वयं तत्र तस्मिन् देशे रणाकुले ॥
ब्रह्माणं स्वागत दृष्ट्वा भयजिन्नृपसत्तमः
साञ्जलिः पूजयित्वा तं प्राह यथायथं वचः ॥
यमो ऽपि प्रणिपत्याथ सर्वामकथयत् कथाम्
वैक्लव्यकारणनि च श्रुत्वा शेषाणि सृष्टिकृत्
प्रत्यावृत्य रणाद् देवः कथयामास तौ तदा ॥
न दोषो भवतां नाथ मृत्युपतेर्महात्मनः
सत्यनराधिपस्यैव कालस्य न तु कर्मणः ॥
पुरा शुभाशुभं कर्म तथा च शिशुना कृतम्
लब्धञ्च मरणं शीघ्र जन्म प्राप्य च मानुषम् ॥
साफल्यमेति ते श्रमो ब्राह्मणस्यास्य पूजनात्
तस्मिन्नुपायविद्येयं मत्प्रसादात् प्रपूज्यताम् ॥
वर्णादीनां समायोगैः एतद्द्विजसुताकृतिम्
रुपमालिख भो राजन् सर्वलोकहिताय वं ॥
आविर्भूतेन ब्रह्मणा इत्थमुक्ते सुवुद्धिमान्
जीवयितुं लिलेख तं द्विजपुत्रं महोपतिः
ब्रह्मा तच्चित्रमादाय योजयामास जीवितम् ॥
विकचोत्पलचक्षुष्मान् सुकुमारशरीरधृक्
चक्षुरुन्मील्य सानन्दं पुनर्जीवनमापेदे ॥
जीवितं पुत्रमासाद्य हृष्टो ब्राह्मणसत्तमः
ब्रम्हाणमभिवन्द्याथ स्वीयपुत्रं गृहितवान् ॥
ब्रह्माब्रवीत् ततो भूपं ब्राह्मणप्रीतये इमे
यमदुता जिताः शक्त्या साधु साधु कृतं त्वया ॥
ब्रह्माणा कथिते त्वेवं स राजा हर्षमाप्तवाम्
सर्वदमनकारी तु दौर्मनस्यं यमो गतः ॥
अप्रसन्नं यमं दृष्ट्वा वचोभिर्मधुरैर्भृशम्
ब्रह्मा स्वयं समाश्वास्य भूपतिं प्राह सत्तमः ॥
धर्मनीतिः सुविज्ञाय न निन्देत् कामपि प्रजाम्
सदानन्दप्रदोभव्यस्त्व् अभिमानं च वर्जयेत् ॥
यत्र सेवा सतां नास्ति तत्र निन्दा भवेद् ध्रुवम्
नाल्पमपि सुखं किञ्चिद् आप्नोति निन्दुकः सदा ॥
द्वेषिणो ऽपि बुधाः स्वर्गाद् भवन्ति विच्युतास्तहा
अहङ्कानरयुत भूतं त्यजन्ति सर्वमानवाः ॥
निरहङ्कारिणा तस्मात् भवितव्यं सदा खलु
जात्या बलेन दानेन नैपुण्येन च विद्यया ॥
देवतानाञ्च विप्राणां विशेषण समादरः
प्रकर्तव्यो न कर्तव्यो निन्दोपायः कथञ्चन ॥
अविरोधेन सत्कारः करणीयः सदा नृपैः
क्षमावलम्बनीया स्यात् निन्दा त्याज्या तथैव च
सर्वज्ञो निरहंकरो गुणिने न द्विषेन्नृपः ॥
पुरुषं वचनं त्याज्यम् आघातं विसृजेत् सदा
प्रत्यक्षं प्राप्यते यत्तु सार्थक्यं तस्य चिन्तयेत् ॥
देवविप्रविरोधिनां कुत्रापि न सुखं भवेत्
विधियं नैव कार्यं हि यमस्यापि ततो नृप ॥
ब्रह्मणेत्थं स भूपालो ह्य् उपदिष्टो द्विजप्रियः
नमस्कृत्य यमस्वार्थे कृतवान् सुप्रियं तथा ॥
यमो ऽपि प्रीतिमापन्नो ब्रह्मा प्रसन्नतां गतः
अशोकं प्रीतिमापेदे जगदेतञ्चराचरम् ॥
अथ ब्रह्मा नृपं प्राह नग्नं प्रेतं निवारय
यमदासैः सदा विश्वं न पातयेद् भवान् खलु ॥
बलेन तेजसा चापि तपसेमं गुणं नृपाः
अनुकुर्युर्न कर्त्तव्यो ऽकुशल इह भाविनि ॥
भवान् महायशस्वी च करणीयो मया क्षितौ
निवर्तस्व कुमार्गेभ्यस् त्वं सदा पृथिवीपते ॥
प्रेतपर्यायकं नग्नम् अजैषीस्त्वं यतो बलात्
मम प्रसादाद् राजेन्द्र ब्राह्मणानुग्रहात्तथा
प्रजापतितुलः पृथ्वां यशस्वी त्वं भविष्यसि ॥
वेदज्ञो व्रतनिष्ठश्च तपसा शुद्धमानसः
प्रजाः पालय निष्पापः अनुमतिस्तथा मम ॥
अस्य ब्राह्मणपुत्रस्य चित्रस्य लेखनेन च
तादृशेण क्षितावादि चित्राविष्कारको भव ॥
लोकानां हितसाधनात् पूजनीयो भविष्यसि
अद्य प्रभृति तच्चित्र जगद्वन्द्यं भवेत् सदा ॥
पापघ्नं च मनोहारि प्रोतिसुखप्रदं नृणाम्
मङ्गलश्रोप्रदायकं रक्षोघ्नं शत्रुनाशनम् ॥
तवादौ लेखकख्यातिः ममेयं वचनेन च
चित्रमिति प्रसिद्धं तत् सर्वत्रैव भविष्यति ॥
ब्रह्मणेत्थं वचस्युक्ते यमो विप्रश्च नग्नजित्
सर्वे नेमुश्च भक्त्या तं ब्रह्माणं लोकपालकम् ॥
सर्वेषां मङ्गलं कृत्वा त्रिलोकेशः प्रजापतिः
सर्वदेवगणैः सार्धं जगाम स्वगृहं मुदा ॥
राजाथ धर्मराजं तं पूजयित्वा प्रयन्ततः
स्वस्थानमागतो धीमान् प्रीणयित्वा यमं तथा ॥
अथासौ ब्राह्मणस्तुष्टः प्रपयौ नगरं द्रुतम्
यस्माद् देशात् समापन्नस् तत्रैव प्रविवेश च ॥
हृष्टो राजा समित्रश्च चित्रसंरचनाय वै
उद्यतो ऽभूत् सदैवासौ सपुत्रे प्रस्थिते द्विजे ॥
सर्वरूपानुकूलं तत् मानं वा कीदृशं भवेत्
तत् प्रष्टुं सृष्टिकत्तरिं ब्रह्मलोकं जगाम सः ॥
कृपया ब्रूहि मे ब्रह्मन् चित्रसंलेखनक्रमम्
चित्रस्य लक्षणानि मे नानाविधानि सन्ति च ॥
परिमाणं किमस्य स्यात् विधिना कीदृशेन वा
उत्पादनीयमेतद्धि साञ्जलिः पृष्ठवान् नृपः ॥
ब्रह्माथ प्राह भूपेन्द्रं शृणु राजन् समाहितः
अतिगुह्यं महद् वाक्यं परमं कथयामि ते ॥
सृष्टेरादौ समायाता वेदा यज्ञाश्च भूपते
ततः प्रजा मया सृष्टा उपदिष्टाश्च ता मया ॥
चैत्यानां करणायैव चित्रं संलिख्यते यतः
वेदाच्चित्रं प्रजातं वै तस्माद् ज्ञेयं तथैव तत् ॥
आदौ संलिखितत्वाच्च चित्रमित्युच्यते ततः
चराचरयुता वृक्षा जङ्गमाश्च यथास्थिताः
तथा प्रलिखनात्तेषां तच्चित्रमिति कथ्यते ॥
गिरीणां सुमेरुः श्रेष्ठः अण्डजानां खगाधिपः
यथा नरेषु भूपेन्द्रस् तथा चित्रं कलासु वै ॥
पतन्ति सागरे नद्यः समुद्रा रत्नमाश्रिताः
नक्षत्रैश्चाश्रितः सूर्यो ब्रम्हा ॠष्याश्रयो यथा
तथैव चित्रकर्मणि कलाः सर्वाः समाश्रिताः ॥
हिमालयो यथा श्रेष्ठो नगेषु सकलेषु च
गङ्गा नदिषु श्रेष्ठैव ग्रहेषु सोमभास्करौ ॥
समेषु वैनतेयश्च महेन्द्रो देववृन्दके
तथा श्रेष्ठं भवेच्चित्रं सर्वासु हि कलासु च ॥
नग्नजिद् गच्छ तस्मात् त्वं विश्वकर्म समीपतः
लक्षणविधिमानं च तुभ्यं स उपदेक्ष्यति ॥
उपदेशमनुसृत्य ब्रह्मणो भूपतिस्ततः
विश्वकर्मसमीपे तु प्रसन्नो ह्यगमद् द्रुतम् ॥
दृष्टो ऽसौ विश्वकर्मा च राज्ञा नमस्कृतस्तथा
आतिथ्यं विधिवत् कृत्वा राज्ञे सो ऽदददासनम् ॥
राजाह विश्वकर्मन् भो ब्रह्मज्ञया ह्युपस्थितः
चित्रस्य लक्षणं कर्म उपदिशतु मे प्रभो ॥
विधिर्वा परिमाणं वा कीदृशं वा भवेत्तथा
उपदिशतु कार्त्स्न्येन रहस्यं सप्रकारकम् ॥
एवमुक्ते नरेन्द्रेण विश्वकर्मा मुदान्वितः
चित्रशिल्पस्य शास्त्रं तु तस्मै राज्ञे ह्युपादिशत् ॥
एकाग्रमनसा तत्तु श्रूयतां यद् मद्भाषितं
परिमाणं तथास्थानं वर्णोपायौ यथायथम् ॥
प्रदाय सर्वमीशेन देवेन पद्मयोनिना
निर्दिष्टं चित्रलक्षणं बुद्धिमन्तः कृते शृणु ॥
सर्ववस्तुसमाकीर्णा आकृतीर्लक्षणान्विताः
लोकश्रद्धास्पदं मह्यं लिखित्वादौ ह्युपाहरत् ॥
केन मानेन शोभनाः स्थानोपायैश्च कीदृशैः
ब्रह्मणः कृपया लब्धाः सर्वे शिल्पा मया कृताः ॥
आकारेणेदृशेनैव प्रजा मया विनिर्मिताः
देवैश्चित्रं विवर्द्धितं विविधं लक्षणान्वितम् ॥
ज्ञेयं मत्तस्त्वथा राजन् लक्षणमाकृति तथा
सादृश्यं वेशसौन्दर्यं परिमाणं कलान्वितं ॥
चित्रमीदृशं संलेख्यं यत्नाद् बुद्धिमता त्वया
दर्शनीयं मनुष्येभ्यो विद्वभ्यो गुणयुक्तेभ्यः
चित्रसन्दर्शने तावद् उत्साहमतियुक्तेभ्यः ॥
मुनिनागासुराणां च प्रेतानां यक्षरक्षसाम्
गन्धर्वाणां च राजेन्द्र विधिवत् कक्षणादिकम्
लिखित्वा विविधं सम्यक् तुभ्यं मया प्रदश्र्यते ॥
मूल पाठ: Citralakṣaṇam (= NCit) · Edition: Asoke Chatterjee Sastri: The Citralakṣaṇa : An Old Text of Indian Art, Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0