छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.9
छुप्भ्_8,8.5 तस्मात्तत्संप्रदायो ऽद्याप्यनुवर्तत इतीह लोके ऽददानं दानमकुर्वाणमविभागशीलमश्रद्दधानं सत्कार्येषु श्रद्धारहितं यथाशक्त्ययजमानमयजनस्वभावमाहुरासुरः खल्वयं यत एवंस्वभावो बतेति खिद्यमाना आहुः शिष्टाः ।
असुराणां हि यस्मादश्रद्दधानतादिलक्षणैषोपनिषत् ।
तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्धमाल्यान्नादिलक्षणया वसनेन वस्रादिनाऽच्छादनादिप्रकारेणालङ्कारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्त्येतेन कुणपसंस्कारेणामुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो मन्यन्ते ॥5॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्याष्टमः खण्डः
=======================================================================
स्तर्त् छुप् 8,9.1
अथ हेन्द्रो ऽप्राप्यैव देवान् एतद् भयं ददर्श ।
यथैव खल्व् अयम् अस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः ।
अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति ।
नाहम् अत्र भोग्यं पश्यामीति
छुप्भ्_8,9.1 अथ ह किलेन्द्रो ऽप्राप्यैव देवान्दैव्याक्रौर्यादिसंपदा युक्तत्वाद्गुरोर्वचनं पुनः पुनः स्मरन्नेव गच्छन्नेतद्वक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददर्श दृष्टवान् ।
उदशरावदृष्टान्तेन प्रजापतिना यदर्थो न्याय उक्तस्तदेकदेशो मघवतः प्रत्यभाद्बुद्धौ ।
येन च्छायात्मग्रहणे दोषं ददर्श ।
कथम् ।
यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते छायात्मापि साध्वलङ्कृतो भवति सुवसने च सुवसनः परिष्कृते परिष्कृतो यथा नखलोमादिदेहावयवापगमे छायात्मापि परिष्कृतो भवति नखलोमादिरहितो भवति ।
एवमेवायं छायात्माप्यस्मिञ्छरीरे नखलोमादिभिर्देहावयवत्वस्य तुल्यत्वादन्धे चक्षुषो ऽपगमे ऽन्धो बवति स्रामे स्रामः ।
स्रामः किलेकनेत्रस्तस्यान्धत्वेन गतत्वात् ।
चक्षुर्नासिका वा यस्य सदा स्रवति स स्रामः ।
परिवृक्णश्छिन्नहस्तश्छिन्नपादो वा ।
स्रामे परिवृक्णे वा देहे छायात्मापि तथा भवति ।
तथास्य देहस्य नाशमन्वेष नश्यति ॥1 ॥
स्तर्त् छुप् 8,9.2
स समित्पाणिः पुनर् एयाय ।
तं ह प्रजापतिर् उवाच ।
मघवन् यच् छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किम् इच्छन् पुनर् आगम इति ।
स होवाच यथा एव खल्वय्यं भगवो ऽस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः ।
अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति ।
नाहम् अत्र भोग्यं पश्यामीति
छुप्भ्_8,9.2 अतो नाहमत्रास्मिंश्छायात्मदर्शने देहात्मदर्शने वा भोग्यं फलं पश्यामीत्येवं दोषं देहच्छायात्मदर्शने ऽध्यवस्य स समित्पाणिर्ब्रह्मचर्यं वस्तुं पुनरेयाय ।
तं ह प्रजापतिरुवाच-मघवन्यच्छान्तहृदयः प्राव्राजीः प्रगतवानसि विरोचनेन सार्धं किमिच्छन्पुनरागम इति ।
विजानन्नपि पुनः पप्रच्छेन्द्राभिप्रयाभिव्यक्तये यद्वेत्थ तेन मोपसीदेति यद्वत् ।
तथा च स्वाभिप्रयां प्रकटमकरोद्यथैव खल्वयमित्यदि, एवमेवेति चान्वमोदत प्रजापतिः ।
ननु तुल्ये ऽक्षिपुरुषश्रवमे देहच्छायामिन्द्रो ऽग्रहीदात्मेति देहमेव व विरोचनस्तत्किंनिमित्तम् ।
तत्र मन्यते ।
यथेन्द्रस्योदशरावादिप्रजापतिवचनं स्मरतो देवानप्राप्तस्यैवाऽचार्योक्तबुद्ध्या छायात्मग्रहणं तत्र दोषदर्शनं चाभूत् ।
न तथा विरोचनस्य किं तर्हि देह एवाऽत्मदर्शनं नापि तत्र दोषदर्शनं बभूव ।
तद्वदेव विद्याग्रहणसामर्थ्यप्रतिबन्धदोषाल्पत्वबहुत्वापेक्षमिन्द्रविरोचनयोश्छायात्मदेहयोर्ग्रहणम् ।
इन्द्रो ऽल्पदोषत्वाद्दृश्यत इतिश्रुत्यर्थमेव श्रद्दधानतया जग्राहेतरश्छायानिमित्तं देहं हित्वा श्रुत्यर्थं लक्षणया जग्राह प्रजापतिनोक्तो ऽयमिति दोषभूयस्त्वात् ।
यथा किल नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्हमिति च्छायानिमित्तं वास एवोच्यते न च्छाया तद्वदिति विरोचनाभिप्रायः ।
स्वचित्तगुणदोषवशादेव हि शब्दार्थावधारणं तुल्ये ऽपि श्रवणे ख्यापितं दाम्यत दत्त दयध्वमिति दकारमात्रश्रवणाच्छुत्यन्तरे ।
निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति ॥2 ॥
स्तर्त् छुप् 8,9.3
एवम् एवैष मघवन्न् इति होवाच ।
एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि ।
वसापराणि द्वात्रिंशतं वर्षाणीति ।
स हापराणि द्वात्रिंशतं वर्षाण्युवास ।
तस्मै होवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0