भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.2

8.2.1

छुप्भ्_8,1.6 अथान्यो दृष्टान्तस्तत्क्षयं प्रति तद्यथेहेत्यादिः ।
तत्तत्र यथेह लोके तासामेव स्वाम्यनुशासनानुवर्तिनीनां प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयते ऽन्तवान्भवति ।
अथेदानीं दार्ष्टान्तिकमुपसंहरति-एवमेवामुत्राग्निहोत्रादिपुण्यज् इतो लोकः पराधीनोपभोगः क्षीयत एवेत्युक्तो दोष एषामिति विषयं दर्शयति-तद्य इत्यादिना ।
तत्तत्रेहास्मिंल्लोके ज्ञानकर्मणोरधिकृता योग्याः सन्त आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टमननुविद्य यथोपदेशमनु स्वसंवेद्यतामकृत्वा व्रजन्ति देहादस्मात् प्रयन्ति य एतांश्च यथोक्तान् सत्यान् सत्यसंकल्पकार्यांश्च स्वात्मस्थान् कामानननुविद्य व्रजन्ति तेषां सर्वेषु लोकेष्वकामचारो ऽस्वतन्त्रता भवति ।
यथा राजानुशासनानुवर्तिनीनां प्रजानामित्यर्थः ।
अथ ये ऽन्य इह लोक आत्मानं शास्राचार्योरदेशमनुविद्य स्वात्मसंवेद्यतामापाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति राज्ञ इव सार्वभौमस्येह लोके ॥6॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य प्रथमः खण्डः
=======================================================================
स्तर्त् छुप् 8,2.1
स यदि पितृलोककामो भवति ।
संकल्पाद् एवास्य पितरः समुत्तिष्ठन्ति ।
तेन पितृलोकेन संपन्नो महीयते

8.2.2

छुप्भ्_8,2.1 कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते-य आत्मानं यतोक्तलक्षणं हृदि साक्षात्कृतवान्वक्ष्यमाणब्रह्मचर्यादिसाधनसंपन्नः संस्तत्स्थांश्च सत्यान्कामान्स त्यक्तदेहो यदि पितृलोककामः पितरो जनयितारस्त एव सुखहेतुत्वेन भोग्यत्वाल्लोका उच्यन्ते तेषु कामो यस्य तैः पितृभिः संबन्धेच्छा यस्य भवति तस्य संकल्पमात्रादेव पितरः समुत्तिष्ठिन्त्यात्मसंबन्धितामापद्यन्ते ।
विशुद्धसत्त्वतया सत्यसंकल्पत्वादीश्वरस्येव तेन पितृलोकेन भोगेन संपन्नः संपत्तिरिष्टप्राप्तिस्तया समृद्धो महीयते पूज्यते वर्धते वा महिमानमनुभवति ॥1 ॥
स्तर्त् छुप् 8,2.2-9
अथ यदि मातृलोककामो भवति ।
संकल्पाद् एवास्य मातरः समुत्तिष्ठन्ति ।
तेन मातृलोकेन संपन्नो महीयते

8.2.3

अथ यदि भ्रातृलोककामो भवति ।
संकल्पाद् एवास्य भ्रातरः समुत्तिष्ठन्ति ।
तेन भ्रातृलोकेन संपन्नो महीयते

8.2.4

अथ यदि स्वसृलोककामो भवति ।
संकल्पाद् एवास्य स्वसारः समुत्तिष्ठन्ति ।
तेन स्वसृलोकेन संपन्नो महीयते

8.2.5

अथ यदि सखिलोककामो भवति ।
संकल्पाद् एवास्य सखायः समुत्तिष्ठन्ति ।
तेन सखिलोकेन संपन्नो महीयते

8.2.6

अथ यदि गन्धमाल्यलोककामो भवति ।
संकल्पाद् एवास्य गन्धमाल्ये समुत्तिष्ठतः ।
तेन गन्धमाल्यलोकेन संपन्नो महीयते

8.2.7

अथ यद्य् अन्नपानलोककामो भवति ।
संकल्पाद् एवास्यान्नपाने समुत्तिष्ठतः ।
तेनान्नपानलोकेन संपन्नो महीयते

8.2.8

अथ यदि गीतवादितलोककामो भवति ।
संकल्पाद् एवास्य गीतवादिते समुत्तिष्ठतः ।
तेन गीतवादितलोकेन संपन्नो महीयते

8.2.9

अथ यदि स्त्रीलोककामो भवति ।
संकल्पाद् एवास्य स्त्रियः समुत्तिष्ठन्ति ।
तेन स्त्रीलोकेन संपन्नो महीयते

8.2.10

छुप्भ्_8,2.2,3,4,5,6,7,8,9 समानमन्यत् ।
मातरो जनयित्र्यो ऽतीताः सुखहेतुभूताः सामर्ध्यात् ।
न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुद्धसत्त्वस्य योगिन इच्छा तत्संबन्धो वा युक्तः ॥2-9 ॥
स्तर्त् छुप् 8,2.10
यं यम् अन्तम् अभिकामो भवति ।
यं कामं कामयते ।
सो ऽस्य संकल्पाद् एव समुत्तिष्ठति ।
तेन संपन्नो महीयते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc