छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.15
छुप्भ्_8,14.1 आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थमाध्यानाय ।
आकाशो वै नाम श्रुतिषु प्रसिद्ध आत्मा ।
आकाश इवाशरीरत्वासूक्ष्मत्वाच्च ।
स चाऽकाशो नामरूपयोः स्वात्मस्थयोर्जगद्बीजभूतयोः सलिलस्येव फेनस्थानीययोर्निर्वहिता निर्वोढा व्याकर्ता ।
ते नामरूपे यदन्तरा यस्य ब्रह्मणो ऽन्तरा मध्ये वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये यन्नामरूपाभ्यामस्पृष्टं यदित्येतत्तद्ब्रह्म नामरूपविलक्षणं नामरूपाभ्यामस्पृष्टं तथापि तयोर्निर्वोढुत्वं लक्षणं ब्रह्मेत्यर्थः ।
इदमेव मैत्रेयीब्राह्मणेनोक्तं चिन्मात्रानुगमात्मसर्वत्र चित्स्वरूपतैवेति गम्यत एकवाक्यता ।
कर्थ तदवगम्यत इत्याह-स आत्मा ।
आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः स्वसंवेद्यः प्रसिद्धस्तेनैव स्वरूपेणोन्नीयाशरीरो व्योमवत्सर्वगत आत्मा ब्रह्मेत्यवगन्तव्यम् ।
तच्चाऽत्मा ब्रह्मामृतममरणधर्मा ।
अत ऊर्ध्व मन्त्रः ।
प्रजापतिश्चतुर्मुखस्तस्य सभां वेश्म प्रभुविमितं वेश्म प्रपद्ये गच्छेयम् ।
किञ्च यशो ऽहं यशो नामाऽत्माहं भवामि ब्राह्मणानाम् ।
ब्राह्मणा एव हि विशेषतस्तमुपासते ततस्तेषां यशो भवामि ।
तथा राज्ञां विशां च ।
ते ऽप्यधिकृता एवेति तेषामप्यात्मा भवामि ।
तद्यशो ऽहमनुप्रापत्स्यनुप्राप्तुमिच्छामि स हाहं यशसामात्मनां देहेन्द्रियमनोबुद्धिलक्षणानामात्मा ।
किमर्थमहमेवं प्रपद्य इति, उच्यते-श्येतं वर्णतः पक्वबदरसमं रोहितम् ।
तथादत्कं दन्तरहितमप्यदत्कं भक्षयितृ स्रीव्यञ्जनं तत्सेविनां तेजोबलवीर्यविज्ञानधर्माणामपहन्तृ विनाशयित्रित्येतत् ।
यदेवंलक्षणं श्येतं लिन्दु पिच्छिलं तन्माभिगां माभिगच्छेयम् ।
द्विर्वचनमत्यन्तानर्थहेतुत्वप्रदर्शनार्थम् ॥1॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य चतुर्दशः खण्डः
=======================================================================
स्तर्त् छुप् 8,15.1
तद् धैतद् ब्रह्मा प्रजापतय उवाच प्रजापतिर् मनवे मनुः प्रजाभ्यः ।
आचार्यकुलाद् वेदम् अधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायम् अधीयानो धर्मिकान् विदधद् आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिंसन् सर्वभूतान्य् अन्यत्र तीर्थेभ्यः ।
स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्मलोकम् अभिसंपद्यते ।
न च पुनर् आवर्तते न च पुनर् आवर्तते
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0