छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.14
छुप्भ्_8,13.1 श्यामाच्छबलं प्रपद्य इत्यादिमन्त्राम्नाय पावनो जपार्थश्च ध्यानार्थो वा ।
श्यामो गम्भीरो वर्णः श्याम इव श्यामो हार्दं ब्रह्मात्यन्तदुरवगाह्यत्वात्तद्धार्द ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छ्यामाच्छबलं शबल इव शबलो ऽरण्याद्यनेककाममिश्रत्वाद्ब्रह्मलोकस्य शाबल्य तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वोर्ध्वं गच्छेयम् ।
यस्मादहं शबलाद्ब्रह्मलोकान्नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रपन्नो ऽस्मीत्यभिप्रायः ।
अतस्तमेव प्रकृतिस्वरूपमात्मानं शबलं प्रपद्य इत्यर्थः ।
कथं शबलं ब्रह्मलोकं प्रपद्य इत्युच्यते-अश्व इव स्वानि लोमानि विधूय कम्पनेन श्रमं पांस्वादि च रोमतो ऽपनीय यथा निर्मलो भवत्येवं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माक्यं चन्द्र इव च राहुग्रस्तस्तस्माद्रहोर्मुखात्मप्रमुच्य भास्वरो भवति यथैवं धूत्वा प्रहार शरीरं सर्वानर्थाश्रयमिहैव ध्यानेन कृतात्मा कृतकृत्यः सन्नकृतं नित्यं ब्रह्मलोकमभिसंभवामीति ।
द्विर्वचनं मन्त्रसमाप्त्यर्थम् ॥1॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य त्रयोदशः खण्डः
=======================================================================
स्तर्त् छुप् 8,14.1
आकाशो वै नाम नामरूपयोर् निर्वहिता ।
ते यदन्तरा तद् ब्रह्म तद् अमृतं स आत्मा ।
प्रजापतेः सभां वेश्म प्रपद्ये यशो ऽहं भवामि ब्राह्मणानां यशो राज्ञाम् यशो विशाम् ।
यशो ऽहम् अनुप्रापत्सि ।
स हाहं यशसां यशः ।
श्येतम् अदत्कम् अदत्कं श्येतं लिन्दु माभिगां लिन्दु माभिगाम्
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0