छान्दोग्योपनिषद (टीका सहित) · अध्याय 8.13
छुप्भ्_8,12.6 यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा तस्मात्ततः श्रुत्वा तमात्मानमद्यत्वे ऽपि देवा उपासते ।
तदुपासनाच्च तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च कामाः ।
यदर्थं हीन्द्र एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास तत्फलं प्राप्तं देवैरित्यभिप्रायः ।
तद्युक्तं देवानां महाभाग्यत्वान्न त्विदानीं मनुष्याणामल्पजीवितत्वान्मन्दतरप्रज्ञत्वाच्च संभवतीति प्राप्त इदमुच्यते-स सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिदानीन्तनो ऽपि ।
को ऽसौ ।
इन्द्रादिवद्यस्तमात्मानमनुविद्य विजानातीति ह सामान्येन किल प्रजापतिरुवाच ।
अतः सर्वेषामात्मज्ञानं तत्फलप्राप्तिश्च तुल्यैव भवतीत्यर्थः ।
द्विर्वचनं प्रकरणसमाप्त्यर्थम् ॥6॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य द्वादशः खण्डः
=======================================================================
स्तर्त् छुप् 8,13.1
श्यामाच् छबलं प्रपद्ये ।
शबलाच् छ्यामं प्रपद्ये ।
अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर् मुखात् प्रमुच्य धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्मलोकम् अभिसंभवामीत्य् अभिसंभवामीति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0