भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.9

7.9.1

छुप्भ्_7,8.1-2 बलं वाव विज्ञानाद्भूयः ।
बलमित्यन्नोपयोगजनितं मनसो विज्ञेये प्रतिभानसामर्थ्यम् ।
अनशनादृगादीनि न वै मा प्रतिभान्ति भो इति श्रुतेः ।
शरीरे ऽपि तदेवोत्थानादिसामर्थ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बलवाना कम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि ।
यस्मादेवमन्नाद्युपयोगनिमित्तं बलं तस्मात्स पुरुषो यदा बली बलेन तद्वान्भवत्यथोत्थातोत्थानस्य कर्तोत्तिष्ठंश्च गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन्नुपसत्ता तेषां समीपगो ऽन्तरङ्गः प्रयो भवतीत्यर्थः ।
उपसीदंश्च समीप्यं गच्छन्नेकाग्रतयाऽचार्यस्यान्यस्य चोपदेष्टुर्गुरोर्द्रष्टा भवति ।
ततस्तदुक्तस्य श्रोता भवति ।
तत इदमेभिरुक्तमेवमुपपद्यत इत्युपपत्तितो मन्ता भवति मन्वानश्च बोद्धा भवत्येवमेवेदमिति ।
तत एवं निश्चित्य तदुक्तार्थस्य कर्तानुष्ठाता भवति विज्ञातानुष्ठानफलस्यानुभविता भवतीत्यर्थः ।
किञ्च बलस्य माहात्म्यं बलेन वै पृथिवी तिष्ठतीत्याद्युज्वर्थम् ॥1-2 ॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्याष्टमः खण्डः
=======================================================================
स्तर्त् छुप् 7,9.1
अन्नं वाव बलाद् भूयः ।
तस्माद् यद्य् अपि दश रात्रीर् नाश्नीयात् ।
यद्य् उ ह जीवेत् ।
अथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवति ।
अथान्नस्याये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति ।
अन्नम् उपास्स्वेति

7.9.2

छुप्भ्_7,9.1 अन्नं वाव बलाद्भूयः ।
बलहेतुत्वात् ।
कथमन्नस्य बलहेतुत्वमित्युच्यते ।
यस्माद्बलकारणमन्नं तस्माद्यद्यपि कश्चिद्दश रात्रीर्नाश्नीयात्सो ऽन्नोपयोगानिमित्तस्य बलस्य हान्या म्रियते न चेन्म्रियते यद्यु ह जीवेत् ।
दृश्यन्ते हि मासमप्यनश्नन्तो जीवन्तः ।
अथवा स जीवन्नप्यद्रष्टा भवति गुरोरपि तत एवाश्रोतेत्यादि पूर्वविपरीतं सर्वं भवति ।
अथ यदा बहून्यहान्यनशितो दर्शनादिक्रियास्वसमर्थः सन्नन्नस्याऽयी ।
आगमनमायो ऽन्नस्य प्राप्तिरित्यर्थः ।
सा यस्य विद्यते सो ऽन्नस्याऽयी ।
आय इत्येतद्वर्णव्यत्ययेन ।
अथान्नस्याऽया इत्यपि पाठ एवमेवार्थः ।
द्रष्टेत्यादिकार्यश्रवणात् ।
दृश्यते ह्यन्नोपयोगे दर्शनादिसामर्थ्यं न तदप्राप्तावतो ऽन्नमुपाःस्वेति ॥1 ॥
स्तर्त् छुप् 7,9.2
स यो ऽन्नं ब्रह्मेत्य् उपास्ते ।
अन्नवतो वै स लोकान् पानवतो ऽभिसिध्यति ।
यावद् अन्नस्य गतं तत्रास्य यथाकामचारो भवति यो ऽन्नं ब्रह्मेत्य् उपास्ते ।
अस्ति भगवो ऽन्नाद् भूय इति ।
अन्नाद् वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc